________________
भेदान्वयविचारः ]
व्युत्पत्तिवादः ।
कारकशब्दत्वावच्छिन्नं प्रत्येव प्रत्ययजन्योपस्थितेः समानविशेष्यताप्रत्यासत्या हेतुत्वापगमात् ।
अथैवमपि यत्र 4 राजा पुरुषः' इत्यत्र पुरुषपदाधीन पुरुषोपस्थितौ प्रत्ययवशात् कश्चित्प्रत्ययार्थोपि विषयीभूतस्तत्र प्रत्यय जन्यतयाविध समूहालम्बनोपस्थिविशेष्यतासंबन्धेन पुरुषेपि सत्त्वात् तस्य राजप्रकारकान्वयबोधे विशेष्यतया भानापत्तिर्तुरेव |
परिहारमाह— प्रत्ययाधीनेति, अर्थात्- यदर्थप्रकारकः शाब्दबोध इष्टः स यदि प्रकारीभूतपदार्थविषयकप्रत्ययजन्योपस्थितिजन्यो न भवति तदा तादृशशाब्दबोधं प्रत्येव विशेष्यतासंबन्धेन प्रत्ययजन्योपस्थितेः कारणत्वमुच्यते यदा च शाब्दबोधे प्रकारीभूतपदार्थस्य प्रत्ययेनोपस्थिति. भवति तदा तादृशशाब्दबोधे विशेष्यस्य विशेष्यतया भानं प्रति प्रत्ययजन्योपस्थितेः कारणत्वं नास्त्येव, तथा च राजसंबन्ध: प्रमेयः राज्ञः पुरुषः ' इतिवाक्यद्वयजन्य समूहालम्बनाम: बोधे पुरुषे प्रकारीभूतस्य राजसंबन्धस्य = षष्ठयर्थ स्वत्वस्य यद्यपि राजसंबन्धपदेनाप्युपस्थिति. रस्ति तथापि राज्ञ: ' इत्यत्रत्य डस्प्रत्ययेनाप्युपस्थितिरस्त्येवेत्येतादृश समूहालम्बनात्मकशाब्दबो
L
" ८
८
(७५)
प्रकारीभूतस्वत्वपदार्थ विषयकप्रत्ययजन्योपस्थित्यजन्यत्वं नास्तीति नैतादृशशाब्दबोधं प्रति विशेष्यस्य पुरुषादेः प्रत्ययजन्योपस्थितेः कारणत्वं येन प्रत्ययजन्योपस्थित्यभावादत्र पुरुषस्थ राजसंबन्धविशेष्यतया भानं न स्थात्, 'राज्ञः' इत्यत्र च राजप्रकारकस्वत्वविशेष्यकः शाब्दबोधो Shared as प्रकारीभूतस्य राजपदार्थस्य केवलं राजेतिनाम्नैवोपस्थितिरस्ति न तु प्रत्ययेनेति प्रत्ययाधीनराजपदार्थोपस्थित्यजन्यराजपदार्थप्रकार कशाब्दबोधत्वाद् एतादृशशाब्दबोधं प्रति विशेष्यपदार्थस्य प्रत्ययजन्योपस्थितेः कारणत्वमस्ति अत्र च विशेष्यस्य स्वत्वस्य स्प्र त्ययेनैवोपस्थितिरप्यस्त्येवेति राजपदार्थप्रकारकस्वत्वविशेष्य कशाब्दबोधस्य नानुपपत्तिरित्यर्थ: । एवम् ' राजा पुरुषः ' इत्यत्रापि पुरुषविशेष्यकराजप्रकार कशाब्दबोधे त्वयाssपाद्यमाने प्रकारीभूतराजपदार्थस्य राजेतिनाम्नैवोपस्थितिरस्ति न तु प्रत्ययेनेति प्रकारीभूतराजपदार्थविषयकप्रत्ययजन्योपस्थित्यजन्यत्वादत्र विशेष्यभूतपुरुषपदार्थविषयकप्रत्ययजन्योपस्थितेः कारणत्वं प्राप्तं पुरुष छात्र विशेष्यता संबन्धेन प्रत्ययजन्योपस्थितिर्नास्येव पुरुषस्य पुरुषेतिनाम्नैवोपस्थितत्वादिति नात्र पुरुषविशेष्यकराजप्रकारक भेदान्वयबोधः संभवति ।
,
7
5
ननुक्तरीत्या ' राजा पुरुषः इत्यत्र राजप्रकारक भेदान्वयबोधस्य निवारणे कृतेपि यत्र = यदा राजा पुरुषः इत्यत्र पुरुषपदेन पुरुषोपस्थितिर्जाता पुरुषपदोत्तरवर्तमानसुप्रत्ययेन चैकव्वस्योपस्थितिर्जाता तत्र तदा पुरुष एकत्वं च ' इत्येतादृशी या समूहालम्बनात्मिकोप्रस्थि• तिरस्ति सा यथा पुरुषपदजन्यास्ति तथा सुप्रत्ययजन्याप्यस्त्येव एतादृशप्रत्ययजन्योपस्थितिवियत्वं यथा प्रत्ययार्थैकत्वस्यास्ति तथा पुरुषस्याप्यस्त्येवेत्येवंरीत्या प्रत्ययजन्योपस्थितरत्र विशेष्यवासंबन्धेन पुरुषेपि सत्त्वात् तस्य = पुरुषस्य राजप्रकारक भेदान्वयबोधे विशेष्यतया मानं स्यादेव . अथादवरीत्या ' राजा पुरुषः इत्यत्र राजपदार्थप्रकारकपुरुषविशेष्यकभेदान्चयबोधस्यापत्तिस्तदयस्यैवास्तीत्याशङ्कते - अथैवमपीति ।
"Aho Shrutgyanam"