________________
सादशे:
(७६)
[ प्रथम कारके -
न च प्रत्ययजन्यतावच्छेद की भूतविशेष्यतासंबन्धेनोपस्थिते र्हेतुत्वापगमान्नाssपत्तिः - तादृशसमूहालम्बनोपस्थिति निरूपित पुरुषनिष्ठविशेष्यताया नाम्न एव
4
पुनः राजा पुरुष:' इत्यत्र भेदान्वयबोधापत्तिं निवारयति - न चेत्यादिना, नामार्थप्रकारकभेदान्वयबोधं प्रति प्रत्ययजन्यतावच्छेदकीभूतविशेष्यतासंबन्धेनोपस्थितेर्हेतुत्वमस्तीत्यन्वयः । अयमर्थ:- यत्र प्रत्ययजन्यतावच्छेदकीभूतविशेष्यतासंबन्धेन विशेष्यपदार्थे प्रत्ययजन्योपस्थितिर्भवति तत्रैव तत्पदार्थ विशेष्यक किंचिन्नामार्थप्रकार कभेदान्वयबोधो भवतीति नियमः । प्रत्ययजन्यतेति - प्रत्ययजन्या या उपस्थितिस्तन्निष्ठा या प्रत्ययजन्यता तदवच्छेदकत्वं चात्र विशेष्यनिष्ठविशेष्यताया ज्ञेयम् - विशेष्यनिष्ठापि विशेष्यता स्वनिरूपित विषयितासंबन्धेनोपस्थितौ वर्तते - स्वम् = आश्रयतासंबन्धेन विशेष्यनिष्ठा विषयतारूपा विशेष्यता विशेष्ये उपस्थितिनिरूपित विषयतायाः सत्त्वात् उपस्थितेश्व ज्ञानरूपत्वेन विषयित्वादुपस्थितौ उपस्थितिविषयीभूतपदार्थनिष्ठविषयतानिरूपित विषयिता वर्तते तथा च शाब्दबोधे विशेष्यतया भासमानपदार्थ निष्ठापि विशेष्यता स्वनिरूपित विषयिता संबन्धेनोपस्थितौ वर्तते तादृशौपस्थितौ प्रत्ययजन्यतापि वर्तते इत्येषा विशेष्यता उपस्थितिनिष्ठप्रत्ययजन्यतायाः सामानाधिकरण्यसंबन्धेनावच्छेदिका जातेति. एतादृशप्रत्ययजन्यतावच्छेद की भूत विशेष्यता संबन्धेनोपस्थितेर्नामार्थप्रकारकभेदान्वयबोधं प्रति कारणत्वमस्ति यथा- राज्ञः ' इत्यत्र ङसर्थस्वत्वविशेष्यकराजपदार्थ प्रकारकमेदान्वयबोधो भवति - स्वत्वे राजपदार्थस्य निरूपितत्वलक्षणभेद संबन्धस्य सत्त्वाद् निरूपितत्यसंबन्धेन राजवरस्वत्वमितिबोधात्, अत्र हि स्वत्वस्य स्प्रत्ययेनोपस्थितिर्भवतीति स्वत्वविषयको पस्थितौ उस्प्रत्ययजन्यता वर्तते. अथ च स्त्र योपस्थितीयविषयता वर्तते तादृशविषयतानिरूपित विषयिता स्वत्वविषयकोपस्थितौ वर्तते स्वत्वनिष्ठा च विषयता विशेष्यतारूपैव विज्ञेया तथा च- एषा स्वत्वनिष्ठापि विशेष्यता स्व ( स्वत्वनिठाविशेष्यता ) निरूपितविषयितासंबन्धेन स्वत्वविषयको पस्थितौ वर्तते इति स्वत्वविषयको - पस्थितौ या प्रत्ययजन्यता वर्तते तस्या अवच्छेदिका जातेति स्वत्वनिष्ठा विशेष्यता प्रत्ययजन्यतावच्छेदिकास्ति एतादृशी च प्रत्ययजन्यतावच्छेदकीभूतविशेष्यता विशेष्यभूते स्वत्वेप्याश्रयतासंबन्धेन वर्तत एवेति प्रत्ययजन्यतावच्छेदकी भूतविशेष्यता संबन्धेन सा डस्प्रत्ययजन्या स्वत्वोपस्थितिः स्वत्वेपि प्रत्ययार्थे वर्तत एवेति नामार्थप्रकारकभेदान्चयबोधकारणीभूतायाः प्रत्ययजन्यतावच्छेदकीभूतविशेष्यतासंबन्धेनोपस्थितेः स्वत्वे सत्त्वात् 9 राज्ञः इत्यत्र स्वत्ववि - शेकराज पदार्थप्रकारकभेदान्वय उपपद्यते इति कार्यकारणभावसमन्वयः ।
L
राजा पुरुषः ' इत्यत्र तु पुरुषस्य योपस्थितिरस्ति सा पुरुषेतिनामपदजन्यास्ति न तु प्रत्ययजन्येति पुरुषविषयको पस्थितौ प्रत्ययजन्यतैव नास्तीति पुरुषनिष्ठा विशेष्यता स्त्रनिरूपित - विषयिता संबन्धेनोपस्थितौ वर्तमानापि प्रत्ययजन्यतावच्छेदिका कथं स्यात् ? इति पुरुषे प्रत्यय
"Aho Shrutgyanam"