________________
भेदान्वयविचारः ]
व्युत्पत्तिवादः ।
( ७७)
जन्यतावच्छेदकत्वादितिवाच्यम्, ज्ञानभेदेन विशेष्यताभेदाभावाद् यत्र कुत्र चित् प्रत्ययादेव लक्षणादिना पुरुषाद्युपस्थितिस्तत्र तादृशोपस्थितिनिरूपितप्रत्ययजन्यतावच्छेदकीभूतविशेष्यतातः
L
पुरुषादिपदजन्यपुरुषाद्युपस्थितिविशेष्यताया
अभिन्नतया तावताप्युक्तातिप्रसङ्गवारणाऽसंभवादिति चेत् ?
"
जन्यतावच्छेद की भूतविशेष्यतैव संबन्धरूपा यदा नास्ति तदा पुरुषे प्रत्ययजन्यतावच्छेदकीभूतविशेष्यतासंबन्धेन पुरुषोपस्थितिरपि कथं बर्तेत संबन्धिसत्तायाः संबन्धसत्ताधीनत्वात् तथा चात्र पुरुषे प्रत्ययजन्यतावच्छेदकीभूतविशेष्यतासंबन्धेनोपस्थितेरभावादेव तत्कार्यभूतः पुरुषपदार्थवि - शेष्यकराजपदार्थप्रकारकमेदान्वयबोधो न संभवतीत्याह - नापत्तिरिति, 'राजा पुरुषः इत्यत्र पुरुषविशेष्यकराजप्रकारकमेदान्वयबोधस्यापत्तिर्नास्तीत्यर्थः । उक्ते आपत्त्यभावे हेतुमाह- तादृशेति, पुरुषपदाधीनेत्यायुक्तसमूहालम्बनोपस्थितिनिरूपिता या पुरुषनिष्ठा विशेष्यता तस्याः प्रत्यय जन्यतावच्छेदकत्वमुक्तरीत्या नास्ति किं तु नाम्न एव जन्यतावच्छेदकत्वमस्ति नाम्न इति निरूपित्वं यर्थः पुरुषेतिनामनिरूपिता या पुरुषोपस्थितौ जन्यता तदवच्छेदकत्वादित्यर्थः । 3 राजा 'पुरुषः इत्यत्र पुरुषार्थस्य योपस्थितिरस्ति सा पुरुषेतिनामपदजन्यास्तीति पुरुष - निष्टा विशेष्यता पुरुषविषयको पस्थितिनिष्ठायाः पुरुषेतिनामपदजन्यताया एवावच्छेदिकास्ति न तु प्रत्ययजन्यताया अवच्छेदिका पुरुषविषयको पस्थितौ प्रत्ययजन्यताया एवाभावादित्यर्थः तथा च कारणीभूतायाः प्रत्ययजन्यतावच्छेदकी भूतविशेष्यतासंबन्धेनोपस्थितेरभावात् कथं तत्कार्यभूतः पुरुषविशेष्यकराजप्रकारकमेदान्चयबोधः स्यात् ? ।
एवम् ' राज्ञः पुरुषः' इत्यत्रापि पुरुषस्य प्रत्ययाधीनोपस्थितेरभावात् उपस्थितौ प्रत्ययजन्यत्वाभावाच्च पुरुषनिष्ठा विशेष्यता प्रत्ययजन्यतावच्छेदिका नास्तीति प्रत्ययजन्यतावच्छेदकीभूतविशेष्यतासंबन्धेन पुरुषे उपस्थितेरभावाद् राजप्रकारकपुरुष विशेष्यकभेदान्वयबोधो नैव जायते किंतु प्रत्ययार्थस्वत्वप्रकारकभेदान्वयबोधो जायते - आश्रयत्वसंबन्धेन राजनिरूपितस्वत्ववान पुरुष इति एतादृशप्रत्ययार्थप्रकारकनामार्थविशेष्यक मेदान्वयबोधं प्रति तु प्रत्यय जन्यतावच्छेदकीभूतविशेष्यता संबन्धेनोपस्थितेः कारणत्वमपि नास्त्येवेति पुरुषनिष्ठविशेष्यतायाः प्रत्ययजन्यताबच्छेदकत्वाभावेपि ङस्प्रत्ययार्थस्वत्वप्रकारकपुरुषेतिनामार्थविशेष्यक मेदान्वयबोधस्यापि नानुपपत्तिरिति सर्वे समञ्जसम् ।
66
पुनः प्रतिवादी परिहरन् 'राजा पुरुषः' इत्यत्र पुरुषविशेष्यकराजप्रकारक स्वत्वसंसर्गक भेदान्वयबोधमापादयति- ज्ञानभेदेनेत्यादिना । ज्ञानभेदेन विशेष्यतामेदाभावात्” इति " विशेव्यताया अभिन्नतया इत्यत्र हेतुः । अयमर्थ:- देवदत्तादिभिरनेकैरपि पुरुषैरेकस्मिन्नेव ज्ञाते घंटे देवदत्ताद्यनेकपुरुषसमवेतैकघटविषयकज्ञानस्य देवदत्तादिभेदेन भेदेपि यथा घटभेदो न भवति तथा ज्ञानमेदेन घटनिष्ठविशेष्यताया अपि भेदो न भवति विशेष्यभेदेनैव विशेष्यताभेदनियमात् तथा च यदा कदाचित् ' राज्ञः ' इत्यत्र केन चित् उस्प्रत्ययस्य पुरुषपदार्थे
17
"Aho Shrutgyanam"