________________
(७८)
सादर्श:
[ प्रथमाकारकेन, स्वजनकज्ञानीयप्रत्ययवृत्तिप्रकारतानिरूपितविशेष्यताविशिष्टविशेष्यतासंबन्धेनैवोपस्थितेहेतुतया उक्तसमूहालम्बनोपस्थितिनिरूपितपुरुषनिष्ठविशेष्यतायाश्च लक्षणावृत्तिाता तदा प्रत्ययेन स्वारसिकलक्षणावृत्त्या पुरुषस्योपस्थितिर्भविष्यत्येव तत्र पुरुषोपस्थितेः ङसूप्रत्ययेन जातत्वात् तादृशपुरुषोपस्थितौ प्रत्ययजन्यतापि प्राप्तैव ताशप्रत्ययजन्यपुरुषविषयकोपस्थितिनिरूपिता विषयताख्या विशेष्यता पुरुषेपि वर्तत एव पुरुषनिष्ठा चैषा विशेष्यतोक्तरीत्या स्वनिरूपितविषयितासंबन्धेन पुरुषोपस्थितावपि वर्तते तत्र पुरुषोपस्थिती प्रत्ययजन्यतापि वर्तते इति पुरुषनिष्ठा विशेष्यता उपस्थितिनिष्ठप्रत्ययजन्यताया अवच्छेदिका जातैव. अथ च विषयभेदेनैव विशेष्यताभेदनियमेन ज्ञानभेदेन विशेष्यताभेदाऽभावात् पुरुषे ' राज्ञः ' इत्यत्र लक्षणाधीनस्प्रत्ययजन्यपुरुषोपस्थितिनिरूपितविशेष्यता ' राजा पुरुषः । इत्यत्र शक्त्यधीनपुरुषेतिनामपदजन्यपुरुषोपस्थितिनिरूपितविशेष्यता च वर्तते तयोरुभयोरपि विशेष्यतयोविशेष्यभूतपुरुषपदार्थस्य भेदाभावाद् भेदो नास्तीत्यैक्यं प्राप्तं तथा च ' राज्ञः' इत्यत्र लक्षणाधीनङस्प्रत्ययजन्यपुरुषोपस्थितिनिरूपिता पुरुषनिष्ठा विशेष्यता पुरुषोपस्थितिनिष्ठप्रत्ययजन्यताया अवच्छे. दिकास्तीति 'राजा पुरुषः ' इत्यत्रापि शक्त्यधीनपुरुषेतिनामपदजन्यपुरुषोपस्थितिनिरूपिता पुरुषनिष्ठा विशेष्यता प्रत्ययजन्यतावच्छेदिका जातैव उक्तपुरुषनिष्ठविशेष्यतयोक्तरीत्या ऐक्यात् तथा च ' राजा पुरुषः' इत्यत्रापि पुरुषे प्रत्ययजन्यतावच्छेदकीभूतविशेष्यतायाः सत्त्वात् तादशप्रत्ययजन्यतावच्छेदकीभूतविशेष्यतासंबन्धेन पुरुषे पुरुषपदजन्योपस्थितिर्वर्तत एवेति प्राप्तमिति तत्कार्यभूतः पुरुषविशेष्यकराजप्रकारकभेदान्वय ( स्वत्वसंसर्गक ) बोधः कथं न स्यादित्यर्थस्तदाह-- तादृशोपस्थितीति । ज्ञानभेदेन विशेष्यताभेदाभाषात् तादृशा=' राज्ञः ' इत्यत्र लक्षणाधीनस्प्रत्ययजन्या । तादृशोपस्थिनितिरूपिता या प्रत्ययजन्यावच्छेदकीभूतन पुरुषनिष्ठा विशेष्यता तादृशविशेष्यतातः ' राजा पुरुषः ' इत्यत्र शक्त्यधीनपुरुषपदजन्यपुरुषो. पस्थितिनिरूपितायाः पुरुषनिष्ठविशेष्यताया अभिन्नतया. तावतापि-प्रत्ययजन्यतावच्छेदकीभूतविशेष्यतासंबन्धेनोपस्थितेः नामार्थप्रकारकभेदान्वयबोधं प्रति कारणतास्वीकारेपि उक्तातिप्रसङ्गस्य= 'राजा पुरुषः' इत्यत्र राजपदार्थप्रकारकपुरुषविशेष्यकभेदान्वयबोधप्रसङ्गस्य ( आरत्तेः , वारणासंभवादित्यर्थः । उक्तरीत्या 'राजा पुरुषः । इत्यत्र भेदान्वयबोधस्य प्रदर्शितत्वात् । " ज्ञानभेदेन विशेष्यताभेदाभावास " इत्यादिना " पुरुषपदाधीन " इत्यादिपूर्वोक्तभेदान्वयप्रकारस्यैष समर्थनं कृतं न तु प्रकारान्तरेण भेदान्क्यापत्तिः प्रदर्शितेत्यवधेयम् ।
उक्तरीत्या प्रतिवादिना 'राजा पुरुषः' इत्यत्रापादित नामार्थप्रकारकनामार्थविशेष्यकभेदाम्वयबोधं परिहरति-नेति, स्वजनकेति-नामार्थप्रकारकमेदान्वयबोधं प्रति स्वजनकज्ञानीयप्रत्ययवृ. त्तिप्रकारतानिरूपितविशेष्यताविशिष्टविशेष्यतासंबन्धेनोपस्थितेः कारणत्वमुच्यते, स्वम्-उपस्थितिः, उपस्थितिजनकं यदर्थविशेष्यकशक्तिज्ञानं तादृशशक्तिज्ञानविषयभूता या प्रत्ययवृत्तिप्रकारता (प्रत्ययार्थविशेष्यकशक्तिज्ञाने प्रत्ययस्य प्रकारतया भानात् ) तादृशप्रकारतानिरूपिता
"Aho Shrutgyanam"