________________
दान्वयविचारः] व्युत्पत्तिवादः।
(७९) सादृशोपस्थितिजनकज्ञानीयप्रत्ययवृत्तिप्रकारतानिरूपितविशेष्यतासामानाधिकरण्यविरहान्नातिप्रसङ्ग इति वदन्ति ।। या प्रत्ययार्थनिष्ठा विशेष्यता ( शक्तिज्ञानीयविशेष्यता-प्रत्ययार्थविशेष्यकशक्तिज्ञाने प्रत्ययार्थस्य विशेष्यतया मानात् ) तादृशविशेष्यताविशिष्टा या प्रत्ययार्थनिष्ठैवोपस्थितीयविशेष्यता- तादृशेन विशेष्यताविशिष्टविशेष्यतासंबन्धेनोपस्थिते मार्थप्रकारकमेदान्वयबोधं प्रति कारणत्वमुच्यते इत्यन्वयः। __ यथा-'राज्ञः' इत्यत्र या प्रत्ययजन्या स्वत्वोपस्थितिस्तजनकं यत् प्रत्ययार्थस्वत्वविशेष्यकं शक्तिज्ञानम्-ङस्प्रत्ययशक्यं स्वत्वं शक्तिसंबन्धेन उस्प्रत्ययवदितिज्ञानं ताशशक्तिज्ञानविषयभूता या ङस्प्रत्ययनिष्ठा प्रकारता ( उक्तार्थविशेष्यकशक्तिज्ञाने स्प्रत्ययस्य प्रकारतया मानात् ) तादृशप्रकारतानिरूपिता स्प्रत्ययार्थस्त्रत्वे विशेष्यता (शक्तिज्ञानीयविशेध्यता- उक्तशक्तिज्ञाने स्प्रत्ययार्थस्वत्वस्य विशेष्यतया भानात् ) वर्तते. अथ च ङस्प्रत्ययार्थभूते स्वत्वे डस्प्रत्ययजन्योपस्थितीयापि विशेष्यता वर्तते इत्येषा स्वत्वनिष्ठोपस्थितीयविशेष्यता उक्तप्रथमया स्वत्वनिष्ठया शक्तिज्ञानीयविशेष्यतया विशिष्टा जाता-उभयोर्विशेष्यतयोः सामानाधिकरण्यादिति स्वजनकज्ञानीयप्रत्ययवृत्तिप्रकारतानिरूपितविशेष्यताविशिष्टविशेष्यता ङस्प्रत्ययार्थस्वत्वेऽत्र घर्तते एवेति एतादृशविशेष्यताविशिष्टविशेष्यतासंबन्धेनोपस्थिति ( ढस् प्रत्ययजन्यस्वः त्वोपस्थिति ) रपि स्वत्वे वर्तते एवेति तत्कार्यभूतो राजपदार्थप्रकारकस्वत्वविशेष्यकनिरूपितत्वलक्षणभेदसंसर्गकशाब्दबोधोपि जायते इति कार्यकारणभावसमन्वयः ।
'राजा पुरुषः' इत्यत्र च पुरुषपदाधीनपुरुषोपस्थितिः पुरुषपदोत्तरवर्तमानसुप्रत्ययवशाच्चैकत्वादिप्रत्ययार्थोपस्थितिर्जाता तत्र . प्रत्ययजन्यतथाविधसमूहालम्बनोपस्थितेर्विशेष्यतासंबन्धेन पुरोपि सत्त्वात् पुनश्च "ज्ञानभेदेन विशेष्यतामेदाभावात् । इत्यादिना विशेष्यतयोरक्यं प्रतिपाद्य पुरुषनिष्ठायाः पुरुषपदजन्योपस्थितीयविशेष्यताधा अप्युक्तप्रकारेण प्रत्ययजन्यतावच्छेदकीभूतविशेष्यतात्वमुपपाद्य यात्र पुरुषविशेष्यकराजप्रकारकमेदान्वयापत्तिः प्रदर्शिता सा नेदानीं संभवतीत्याह-उक्तसमूहालम्बनेत्यादिना । उक्ता या समूहालम्बनोपस्थितिस्तादृशोपस्थितिनिरूपिता यात्र पुरुषनिष्ठा विशेष्यता तस्यास्तादृशोपस्थितिजनकज्ञानीयप्रत्ययवृत्तिप्रकारतानिरूपितविशेष्यतया सह सामानाधिकरण्यमेव नास्ति- प्रत्ययवृत्तिप्रकारतानिरूपितविशेष्यतायाः प्रत्ययार्थमात्रवृतित्वात् पुरुषे चासत्त्वादिति पुरुषोपस्थितिनिरूपितपुरुषनिष्ठविशेष्यता प्रत्ययवृत्तिप्रकारतानिरूपित विशेष्यताविशिष्टैव नास्तीति संबन्धरूपाया विवक्षितविशेष्यताविशिष्टविशेष्यतायाः पुरो प्रमा वात् तादृशविशेष्यताविशिष्टविशेष्यतासंबन्धेनोपस्थितिरपि पुरुषे कथं वर्तेतेति कथं पुरुषषिव्यकुराजप्रकारकभेदान्वयबोधः स्यादित्यन्वयः ।
अयमर्थ:-'राजा पुरुषः' इत्यत्र पुरुषपदेन पुरुषोपस्थितिर्भवति पुरुषपदोत्तरवर्तमानसुप्रत्ययेन चैकत्वोपस्थितिर्भवति- पुरुष एकत्वं चेतिरूपा, एतादृशसमूहालम्बनोपस्थितीयविशेष्यता पुरुषे वर्तते 'राज्ञः' इत्यत्र च कस्यचित्स्वारसिकलक्षणावशात स्प्रत्ययेन पुरुषोपस्थितिर्जातेति म्स्
"Aho Shrutgyanam"