________________
(८०)
सादर्श:
[प्रथमाकारके प्रत्ययजन्योपस्थितीयविशेष्यतापि पुरुषे वर्तते ज्ञान ( अत्रोभयोपस्थिति ) भेदेन विशेष्यता दाभावाच्चोक्तोभयोपस्थितिनिरूपितपुरुषनिष्ठविशेष्यतयोरैक्यात पुरुषनिष्ठोपस्थितीयविशेष्यताया स्वनिरूपितविषयितासंबन्धेन पुरुषविषयकप्रत्ययजन्योपस्थितौ वर्तमानत्वाच्च पुरुषनिष्ठा विशेष्यात उपस्थितिनिष्ठप्रत्ययजन्यतावच्छेदिका जातेति तादृशप्रत्ययजन्यतावच्छेदकीभूतविशेष्यतासंबन्धेनोपस्थितिः पुरुषे वर्तते एवेति तत्कार्यभूतः पुरुषविशेष्यकराजप्रकारकभेदान्वयबोधः संभवत्येवेति प्रतिवादिना यत् प्रतिपादितम्, तन्न संभत्रति- 'राजा पुरुषः' इत्यत्रोक्तसमूहालम्बनोपस्थितिनिरूपितपुरुषनिष्ठविशेष्यता पुरुः वर्तते तादृश=उक्तसमूहालम्बनोपस्थितिजनकं यच्छक्तिज्ञानं सुप्रत्ययशक्यमेकत्वं शक्तिसंबन्धेन सुप्रत्ययवदितिज्ञानं तादृशशक्तिज्ञाननिरूपिता या प्रत्ययनिष्ठा प्रकारता ( प्रत्ययार्थविशेष्यकशक्तिज्ञाने प्रत्ययस्य प्रकारत्वात् ) तादृशप्रकारतानिरूपिता विशेष्यता तु सुप्रत्ययार्थैकत्वे एव वर्तते न तु पुरुषेपीत्युक्तसमूहालम्बनोपस्थितिनिरूपितपुरुषनिष्ठविशेष्यताया उक्तसमूहालम्बनोपस्थितिजनकज्ञानीय (शक्तिज्ञानीय) प्रत्ययवृत्तिप्रकारतानिरूपितविशेष्यतायाश्च वैयधिकरण्येन सामानाधिकरण्याभावादुक्तसमूहालम्बनोपस्थितिनिरूपितपुरुषनिष्ठविशेध्यता उक्तसमूहालम्बनोपस्थितिजनकज्ञानीयप्रत्ययवृत्तिप्रकारतानिरूपितविशेष्यताविशिष्टैव न भवतीति संवन्धत्वेन विवक्षितायाः स्व ( उपस्थिति ) जनकज्ञानीयप्रत्ययवृत्तिप्रकारतानिरूपितविशेष्यताविशिष्टविशेष्यतायाः पुरुषेऽभावादेवैतादृशविशेष्यताविशिष्टविशेष्यतासंबन्धनात्र पुरुषे उपस्थितिरपि न वर्तते इति तत्कार्यभूस्य पुरुषविशेष्यकराजप्रकारकस्वत्वसंसर्गकभेदान्वयबोधस्यापि प्रसङ्गः=आपत्तिर्नास्त्येवेति वदन्ति । ___ एवम्- 'राज्ञः पुरुषः' इत्यत्रापि प्रत्ययजन्योपस्थितिजनकज्ञानीयप्रत्ययवृत्तिप्रकारतानिरूपितविशेष्यता प्रत्ययार्थे एव वर्तते न तु पुरुषे इति पुरुषे स्वजनकज्ञानीयप्रत्ययवृत्तिप्रकारतानिरूपितविशेष्यताविशिष्टविशेष्यताया अभावेन तादृशविशेष्यताविशिष्टविशेष्यतासंबन्धेन पुरुषे उपस्थितेरप्यऽभावाद् राजप्रकारकपुरुषविशेष्यकभेदान्वयबोधो न जायते । यश्च उस्प्रत्ययार्थस्वत्वप्रकारकपुरुषविशेष्यकभेदान्वयबोधो जायते तादृशप्रत्ययार्थप्रकारकनामार्थविशेष्यकमेदान्त्रयबोध प्रति स्वजनकज्ञानीयप्रत्ययवृत्तिप्रकारतानिरूपितविशेष्यताविशिष्ट विशेष्यतासंबन्धेनोपस्थितेर्हेतुत्वमेव नास्तीति एतादृशविशेष्यताविशिष्टविशेष्यतासंबन्धेनोपस्थितेरभावेपि आश्रयत्वसंसर्गकप्रत्ययार्थस्वत्वप्रकारकपुरुषविशेष्यकभेदान्वयबोधस्य नानुपपत्तिः । 'राज्ञः पुरुषः' इत्यत्र निरूपितत्वसंबन्धेन राजा ङसर्थे स्वत्वे प्रकारः स्वत्वस्य राजनिरूपितत्वात् स्वत्वं चाश्रयतासंबन्धेन पुरुषे प्रकार इत्यवधेयम् ।
'राज्ञः' इत्यत्र च नामार्थप्रकारकभेदान्वयबोधो जायते तादृशभेदान्वयबोधं प्रति स्वजनकज्ञानीयप्रत्ययवृत्तिप्रकारतानिरूपितविशेष्यताविशिष्टविशेष्यतासंबन्धनोपस्थितेः कारणत्वमस्तीति 'राज्ञः' इत्यत्र स्वजनकज्ञानीयप्रत्ययवृत्तिप्रकारतानिरूपितविशेष्यताविशिष्टविशेष्यतासंबन्धनोपस्थितिरपि ङतर्थस्वत्वे वर्तत एवेति नामार्थराजप्रकारकप्रत्ययार्थस्वत्वविशेष्यकनिरूपितस्वलक्षणभेदसंसर्गकभेदान्वयबोधोपि जायते एवेति सर्व समअसम् ।
"Aho Shrutgyanam"