________________
मेदान्वयवादः] व्युत्पत्तिवादः ।
(८१) तदसत्- प्रत्ययत्वस्याऽनुगतस्याऽनतिप्रसक्तस्य दुर्वचतया उक्तकार्यकारणभावकल्पनाया असंभवात् । 'राजसंबन्धः पुरुषः' इत्यादौ संबन्धादिपदे इन्स्पदत्वादिभ्रमदशायां संबन्धादिविशेष्यकराजादिपदार्थप्रकारकान्वयबोधानुपपत्तेः । 'राज्ञः पुरुषः' इत्यादौ ङस्पदादिषु संबन्धादिपदत्वभ्रमदशायां संबन्धाशे राजादिप्रकारकान्वयबोधापत्तेश्च ।। ___ न च प्रत्ययत्वेन ज्ञातं यत्पदं तत्पदजन्योपस्थितेः कारणत्वादेतद्दोषद्वयस्य नावकाश इति वाच्यम्, 'राज्ञः पुरुषः' इत्यादौ षष्ठ्यादेः प्रत्ययत्वाद्यनुपस्थितिदशायामपि आनुपूर्वीविशेषप्रकारकज्ञानाधीनतदर्थोपस्थितिसत्त्वे शाब्दबोधोत्पत्या प्रत्ययत्वप्रकारकज्ञाननिवेशासंभवात् ।
उक्तकार्यकारणभावं सिद्धान्ती परिहरति- तदसदिति, उक्तकार्यकारणभावे प्रत्ययस्य प्रवेशोऽस्ति प्रत्ययत्वं च सकलप्रत्ययानुगतं प्रत्ययातिरिक्ते चानतिप्रसक्तं न निवक्तुं शक्यते प्रत्ययत्वनिर्वचनासंभवे च प्रत्ययज्ञानासंभवात् प्रत्ययविशिष्टोक्तकार्यकारणभावोपि नावधारयितुं शक्यते इत्यर्थः । किंचोक्तप्रत्ययत्वविशिष्ट कार्यकारणभावस्वीकारे यदा 'राजसंबन्धः पुरुषः' इत्यत्र कस्यचित् संबन्धपदे अस्पदत्वभ्रमो जायते तदात्र 'राजसंबन्धः' इति भागे डस्प्रत्ययार्थस्वत्वसंबन्धविशेष्यकराजपदार्थप्रकारकमेदान्वयबोध इष्टोस्ति स न स्यात्- वस्तुतोत्र राजपदोत्तरं ङस्प्रत्ययाऽभावात् कार्यकारणभावे च प्रत्ययत्वनिवेशात् । 'राज्ञः पुरुषः' इत्यत्र च यदा ङस्प्रत्यये संबन्धपदवभ्रमो जायते तदा उस्प्रत्ययार्थस्वत्वविशेष्यकराजप्रकारकभेदान्वयबोध इष्टो नास्ति उक्त कार्यकारणभावस्वीकारे चापद्येतैव वस्तुतोत्र राजपदोत्तरं डस्प्रत्ययस्य सत्त्वादिति नोक्तकार्यकारणभावः समञ्जसः ।
ननु प्रत्ययत्वेन ज्ञातं यत्पदं तत्पदजन्योपस्थितेः नामार्थप्रकारकभेदान्वयबोधं प्रति कारणत्वमुच्यते तथा च 'राजसंबन्धः पुरुषः' इत्यत्र संबन्धपदे डस्पदत्वभ्रमदशायां संबन्धपदं प्रत्ययत्वेन ज्ञातमिति प्रत्ययत्वेन ज्ञातसंबन्धपदजन्योपस्थितेर्नामार्थप्रकारकभेदान्वयबोधं प्रति कारणत्वस्वीकारात्प्रत्ययार्थसंबन्धविशेष्यकराजप्रकारकभेदान्वयबोधस्यानुपपत्तिास्ति तत्कारणीभूतायाः प्रत्ययत्वेन ज्ञातपदजन्योपस्थितेः सत्त्वात् । 'राज्ञः पुरुषः' इत्यत्र डस्पदे संबन्धपदत्वभ्रमदशायां वस्तुतो विद्यमानमपि स्प्रत्ययपदं प्रत्ययत्वेन न ज्ञातमिति प्रत्ययत्वेन ज्ञातपदजन्योपपस्थितेरभावात् तत्कार्यभूतस्य संबन्धविशेष्यकराजपदार्थप्रकारकभेदान्वयबोधस्यापन्र्नािस्तीत्या. शङ्कयाह- न चेति । परिहारमाह- राज्ञ इति, 'राज्ञः ' इत्यत्र यदा षष्ठया: प्रत्ययत्वेनोपस्थिति: ज्ञानं न भवति तदापि ' राज्ञः ' इत्याकारकानुपूर्वी विशेष प्रकारकम् ' राज्ञः ' इत्यानुपूर्वीमात्रविषयकं यज्ज्ञानं तज्जन्या या तदर्थोपस्थितिःषष्ठयर्थस्वत्वविषयकोपस्थितिः तत्सत्त्वेपि राजप्रकारकषष्ठयर्थस्वत्वविशेष्यकभेदान्वयबोधो जायते एव इष्टश्च तन्न स्यादिति कार्यकारणभावे प्रत्ययत्वप्रकारकज्ञाननिवेशो न युक्तः। प्रत्ययत्वज्ञाननिवेशाभावे च राज्ञः 'इत्यत्र षष्ठयाः प्रत्ययत्वे.
"Aho Shrutgyanam"