________________
( ८२ )
सादर्श:
[ प्रथमा कारके
i
इदं पुनरत्र तस्वम्- राजा पुरुषः ' इत्यादौ पुरुषादिविशेष्यकराजादिप्रकारक भेदान्वयबोधस्याऽप्रसिद्धचैव नापत्ति संभवः । यत्र षष्ठयादिविभक्तेरेव स्वारसिकलक्षणया शक्तिभ्रमेण वा पुरुषाद्युपस्थितिस्तत्र तद्विशेष्यकराजादिपदार्थप्रकारेकभेदान्वयबोधः प्रसिद्ध इति चेत् , तर्हि तादृशबोधे तथाविधप्रकृतिप्रत्ययानुपूर्वीविशेषरूपाकाङ्क्षाज्ञानसहकृततत्तद्विभक्तिजन्यपुरुषाद्युपस्थितिघदिल सामय्या एव तादृश बोधोत्पात्तनियामकतया तदभावादेव न तदापत्तिः ।
अत एव स्वत्वादिसंबन्धेन राजादिविशिष्टपुरुषादितात्पर्यकतदादिपदघटितात् ' स सुन्दरः ' इति वाक्यात् पुरुषादिविशेष्यकस्वत्वादिसंसर्गक राजादिप्रकार कशाब्दबोधस्य च प्रसिद्धया ' राजा पुरुषः सुन्दरः' इत्यादौ पदार्थोंपनानुपस्थितिदशायामपि राजप्रकारक स्वत्वविशेष्यकमेदान्वयबोधस्य नानुपपत्तिरित्यर्थः । प्रस्ययत्वाद्यनुपस्थितिदशायाम् = प्रत्ययत्वादिना रूपेणानुपस्थितिदशायाम् ।
कचित् प्रसिद्धस्यैव पदार्थस्यान्यत्रापत्तिः संभवति यथा घटादेर्न त्वप्रसिद्धस्य यथा शशविषाणादेरिति यदि नामार्थप्रकारकनामार्थविशेष्य कभेदान्वयबोधः कचिदपि प्रसिद्धः स्यात्तदा 'राजा पुरुषः' इत्यत्राप्यापद्येतेत्याह- इदमित्यादिना । नामार्थयोः साक्षाद् मेदान्वयबोधस्याSन्युत्पन्नखादित्यर्थः । नामार्थस्य साक्षात्तु प्रत्ययार्थेन वा निपातार्थेन वा एव मेदान्वयबोधो 'जायते न तु निपातातिरिक्तनामार्थेन, तथा च राजपदार्थस्य पुरुषपदार्थेन सह साक्षात्कथं arraratधः स्यादित्यर्थः ।
酱
?
ननु यत्र राज्ञः ' इति षष्ठयैव स्वारसिकलक्षणया शक्तिभ्रमेण वा पुरुषोपस्थितिर्जायते तत्र तु तद्विशेष्यक-पुरुष विशेष्यकराज प्रकारक मेदान्वयबोधः प्रसिद्ध इति तस्यैव 'राजा पुरुषः इत्यत्राप्यापत्तिरित्याशङ्कते - यत्रेति । उत्तरमाह- तहति, कार्यकारणभावो ह्यन्वयव्यतिरेकाभ्यामवधार्यते इति ' राज्ञः ' इत्यत्र यदि लक्षणया शक्तिभ्रमेण वा पष्ट्या पुरुषोपस्थितौ राजप्रकारकपुरुषविशेष्यकभेदान्त्रयबोधो जायते तदा स बोधः कया सामग्र्या जायते इति विवेके कर्तव्ये ' राज्ञः ' इत्यत्र तादृशबोधे = राजप्रकारकपुरुषविशेष्यक मेदान्वयबोधे तथाविध-रात्रइत्याकारकप्रकृतिप्रत्ययानुपूर्वीविशेषरूपाकाङ्क्षा सहकृतङ स्विभक्तिजन्यपुरुषोपस्थितियुक्तसा मध्या एव तादृशबोधोत्पत्तिनियामकतया तदभावादेव = एतादृशसामग्र्यभावादेव ' राजा पुरुषः' इत्यत्र राजप्रकारकपुरुषविशेष्यकभेदान्वयबोधस्य नापत्ति:- कारणसत्त्वे एव : कार्यसंभवादित्यर्थः । $6 वादिविभक्तेः " इति पञ्चम्यन्तम् ।
८
यादृशशाब्दबोधसामग्री भवति तादृश एव शाब्दबोधो भवति न त्वन्यादृश इत्याह- अव एवेति स सुन्दरः इत्यत्र स्वत्वसंबन्धेन राज विशिष्टपुरुषतात्पर्येण स इति तत्पदं प्रयुक्तमिंति स सुन्दर:' इति वाक्येन पुरुषविशेष्यकस्वत्वसंसर्गकराजप्रकारकः शाब्दबोधो जायते इति तत्प्रसिद्धया ' राजा पुरुषः सुन्दरः ' इत्यत्रापि पदार्थोपस्थितियोग्यताबलात् स्वत्वसंबन्धेन
८
7
"Aho Shrutgyanam"