________________
मेदान्वयवादः] व्युत्पत्तिवादः।
.८३) स्थितियोग्यताज्ञानादिवलात् तादृशशाब्दबोधापत्तिरित्यपि निरस्तम्-'स सुन्दरः' इत्यादिवाक्याधीनशाब्दबोधसामग्यास्तत्पदत्वाधवच्छिन्नविशेष्यकसुन्दरादिपदसममिव्याहारज्ञानसहकृततदादिपदजन्यतादृशविशिष्टार्थोपस्थितिघटिततया तदभावादेवापत्त्यभावात् । • अथैतादृशरीत्यापत्तिवारणे — राज्ञः पुरुषः' इत्यादी स्वत्वादिसंबन्धेन पुरुपादौ राजाद्यन्वयबोधस्वीकारेपि क्षतिविरहादुक्तव्युत्पत्तिनियुक्तिका । विभक्तीनां संबन्धादिवाचकत्वमपि नियुक्तिकम्, 'नीलो घटः' इत्यादौ विशेषणवाचकपदसमभिव्याहृतविभक्तेरिव सर्वविभक्तीनां साधुत्वमात्रार्थकत्वस्यैवोचितत्वात्, राजप्रकारकपुरुषविशेष्यकबोधः स्यादेवत्यपि निरस्तम् । यतः- 'स सुन्दरः । इत्यत्र तत्पदविशेष्यकं यत्सुन्दरपदसमभिव्याहारज्ञानं तादृशज्ञानसहकृता या तत्पदजन्या तादृशे स्वत्वसबन्धेन राजविशिष्टपुरुषविषयकोपस्थितिस्तद्घटितसामघ्या एव पुरुषविशेष्यकस्वत्वसंसर्गकराजप्रकारकशाब्दबोधो जायते ' राजा पुरुषः सुन्दरः' इत्यत्र च तदभावादेव-तत्पदाभावेन तत्पदविशेषयकसुन्दरपदसममिव्याहारज्ञानसहकृततत्पंदजन्यतादृशविशिष्टार्थोपस्थितिघटितसामग्य - मावादेव आपत्त्यभावात् तत्कार्यभूतस्य पुरुषविशेष्यकस्वत्वसंसर्गकराजप्रकारकशाब्दबोधस्यापत्त्यभावादित्यर्थः । - अथेति- यादृशशाब्दबोधसामग्री भवति तादृश एव शाब्दबोधो भवतीत्येतादृशोक्तरीत्या * राज्ञः पुरुषः । इतिवाक्याजायमानशाब्दबोधस्य : राजा पुरुषः ' इत्यत्रापत्तिवारणे कृते तथा * स सुन्दरः । इतिवाक्याजायमानशाब्दबोधस्य 'राजा पुरुषः सुन्दरः' इत्यत्रापत्तिवारणे कृते * राज्ञः पुरुषः । इत्यत्र स्वत्वसंसर्गकराजप्रकारकपुरुषविशेष्यकबोधस्यापि सन्तराजपदप्रयमा न्तपुरुषपदसममिव्याहाररूपाकाशाज्ञानघंटिनोपस्थित्यादिसामग्रीवशादेव स्वीकारें क्षतिविरहात . राजा पुरुष: ' इत्यत्र सन्तराजपदाभावेन 'राज्ञः पुरुषः' इत्यत्रत्यसामग्र्यभावात् स्वत्वसंसर्गकराजप्रकारकपुरुषविशेष्यकशाब्दबोधापत्तिर्न संभवतीति उक्तव्युत्पत्तिः=नामार्थप्रकारकभेदान्वयबोधं प्रति प्रत्ययजन्योपस्थितिः कारणमिति व्युत्पत्तिनियुक्तिका-पृथक्पृथगाकाक्षादिघटितविलक्षणसामग्रीवशादेव पृथक्पृथक्स्वरूपशाब्दबोधोत्पत्तिनियमसंभवाद् व्यथैवेत्यर्थः । एवं विशेषणवाचकपदोत्तरवर्तमान विभक्तेरिव सर्वविभक्तीनाम्-विशेष्यवाचकपदोत्तरवर्तमानविभक्तीनामपि साधुत्वमात्रार्थकत्वौचित्यासंबन्धादिवाचकत्वमपि नियुक्तिकम्- तत्र तत्र जायमानताशसंबन्धादिविषयकशाब्दबोधं प्रति तत्र तत्र वर्तमानाकाङ्क्षादिघटितसामग्रीवियस्पैन कारणव स्वीकारे तादृशसामग्र्यभावानान्यत्र तादृशशाब्दबोधातिप्रसङ्गो गया' नीलो घाट: ' इत्यत्रत्यायाः प्रेषमान्तनीलपदघटपदाकाङ्क्षाया विरहात् 'नीलस्य घटः । इत्यादौ न नीलघटयोरमेदाचयबोधापत्तिरित्यर्थः । तत्रत्यशान्दबोधविशेषं प्रति तत्रत्यसामग्री विशेषस्य कारणत्वमित्येकस्यैव कार्यकारणभावस्य सकलशाब्दसाधारणत्वेन लाघवात् । पृथक्पृधग् व्युत्पत्तीनां
"Aho Shrutgyanam"