________________
( ८४ )
सादर्श:
[ प्रथमकारके
न हि तत्र तथाविधान्वयबोधोपगमे तत्स्थलीयसामग्रीबलात् ' राजा पुरुषः ' इत्यादिष्वपि तथाविधान्वयबोधप्रसङ्गः संभवति - तत्स्थलीयसामय्याः षष्ठयन्त- राजपदत्वाद्यवच्छिन्नधर्मिक पुरुषादिपदसमभिव्याहाररूपाकाङ्क्षाज्ञानघटिततया तदभावादेव तत्र तादृशसामय्या अभावात् ।
एवं च ' राजपुरुषः ' इत्यादिसमासे राजादिपदस्य राजसंबन्ध्यादिलक्षणा'स्वीकारोपि व्यर्थः- तत्र भेदान्वयबोधस्वीकारेपि क्षतिविरहात् । न च तत्र भेदान्वयबोधाभ्युपगमे तत्स्थलीयसामग्रीबलात् ' राजा पुरुषः ' इत्यादावपि ताहशान्वयबोधापत्तिरिति वाच्यम्, तत्स्थलीय शाब्दबोधे राजपदाव्यवहितोत्तरपुरुषाकार्यकारणभावनियामकत्वे ह्यनेककार्यकारणभावानां स्वीकारापत्त्या गौरवाचेत्यर्थः । स्वाभि प्रायं प्रकटयति- नहीति । तत्र - 'राज्ञः पुरुषः इत्यत्र । तत्स्थलीयसामग्रीबलात् = राज्ञः पुरुष:' इत्यत्रत्रर्तमानङसन्तराज पदप्रथमान्तपुरुषपदघटितसामग्रीबलात् तथाविधान्वयबोधोपगमे= निरूपितत्व संबधेन राजविशिष्टस्वत्वप्रकारकपुरुषविशेष्यकबोधस्त्री कारेपि 'राजा पुरुषः' इत्यत्र उक्तस्वत्वप्रकारकपुरुषविशेष्यकबोधापत्तेरभावात् षष्ठ्यन्तराजपदाभावात्, एतदेवाह -- तत्स्थलीयेति ! तत्स्थलीय सामन्याः = ' राज्ञः पुरुषः' इत्यत्रत्यसामग्र्याः षष्ठयन्तं यद्राजपदं तद्विशेष्यकं यत् पुरुषपदसमभिव्याहाररूपाकाङ्क्षाज्ञानं तद्घटितत्वेन, तत्र = ' राजा पुरुषः' इत्यत्र च तदभावात् पष्ठयन्तराजपदत्वावच्छिन्नविशेष्यकपुरुषपदसमभिव्याहाररूपाकाङ्क्षाज्ञानाभावादेव तादृशसामग्र्या:
स्वत्वप्रकारकपुरुषविशेष्यकशाब्दबोधजनकसामग्र्या अमावान्न स्वत्वप्रकारकपुरुषविशेष्यकशाब्दबोधापत्तिरित्यर्थः ।
एवं चेति - यथा 'राज्ञः पुरुषः' इत्यत्र भेदान्वयबोधो भवति तथा 'राजपुरुष:' इत्यत्रापि भेदान्वयबोधः स्वीकर्तव्यः- यतोत्र राजपदस्य राजसंबन्धिनि लक्षणां स्वीकृत्याभेदान्वयबोधे राजपुरुषयोर्यः स्वस्वामिभावसंबन्धः प्रतीयते तस्य भेदान्वयबोधस्वीकारेप्यनुपपत्तिर्नास्तीति राजपदस्य राजसंबन्धिनि लक्षणास्त्रीकारो व्यर्थो गौरवादित्यर्थः । ननु यदि 'राजपुरुषः' इत्यत्र मेदान्चयः स्वीक्रियेत तदात्र मेदान्वयं प्रति षष्ठ्यन्तत्वम निवेश्य केवलं राजपदपुरुषपदयोः सममिव्याहार रूपाकाङ्क्षाज्ञानस्थ कारणत्वं वक्तव्यं तथा च राजपदपुरुषपदसमभिव्याहाररूपाकाङ्क्षाज्ञानस्य 'राजा पुरुषः' इत्यत्रापि सत्त्वात् 'राजपुरुष:' इतिदृष्टान्तेन 'राजा पुरुषः' इत्यत्रापि मेदान्वयबोधापत्तिः स्यादिति तद्वारणाय 'राजपुरुषः' इत्यत्र न भेदान्वयबोधः स्वीकार्यः किं तु राजपदस्य राजसंबन्धिनि लक्षणाद्वारा मेदान्वयबोध एव स्वीकार्य इत्याशङ्क्याह - न चेति । तत्र' राजपुरुषः ' इत्यत्र । तत्स्थलीयसामग्रीबलात - 'राजपुरुषः ' इत्यत्रवर्तमानसामग्रीसदृशसामग्रीबलात् । तादृशान्वयबोधापत्तिः = भेदान्वयबोधापत्तिः । परिहारहेतुमाह - तत्स्थलीयेति, राजपुरुषः " इत्यत्र भेदान्वयस्वीकारेपि तादृशभेदान्वयबोधं प्रति राजपदाव्यवहितोत्तरपुरुषपदसमभिव्याहाररूपाकाङ्क्षाज्ञानस्य हेतुत्वं वक्ष्याम एतादृशाकाङ्क्षाज्ञानम् 'राजा पुरुषः' इत्यत्र तु
"Aho Shrutgyanam"