________________
-भेदान्ययवादः ]
व्युत्पत्तिवादः ।
( ८५ )
दिपदत्वरूपानुपूर्वीविशेषज्ञानस्य हेतुतयाऽसमासस्थले पुरुषादिपदस्य विभक्त्या राजादिपदव्यवहितत्वात् तादृशानुपूर्वीविशेषज्ञानाऽसंभवेन तत्र तादृशबोधसा -" मय्या असिद्धेः ।
न च प्रकृतिप्रत्यययोरानुपूर्वीविशेषरूपस्याकाङ्क्षात्वात् प्रातिपदिकद्रयाव्यव' धानघटितोक्तानुपूर्वीविशेषज्ञानस्य हेतुत्वंमेव निष्प्रामाणिकमितिवाच्यम्, भवन्मतोपे ' राजपुरुषः ' इत्यादौ तादृशसामग्रीबलाद् राजपदार्थराज संबन्धिपुरुषपदार्थयोरभेदान्वयबोधः तादृशसामग्रीबलात् 'राज्ञः पुरुषः' इत्यादावपि राजादिपदस्य राजसंबन्ध्यादौ लक्षणाग्रहसच्चे तादृशाऽभेदान्वयबोधप्रसङ्गवारणाय तथाविधानुपूर्वीविशेषज्ञानस्य समासजन्यबोधे हेतुताकल्पनस्यावश्यकत्वात् । अस्मानास्त्येव राजपदपुरुषपदयोर्मध्ये प्रथमाविभक्त्या व्यवधानादिति न ' राजपुरुष:' इत्यस्य दृष्टान्तेन * राजा पुरुष ' इत्यत्र भेदान्वयबोधापत्तिः संभवतीत्यर्थः । तादृशानुपूर्वी - राजपदाव्यवहितोत्तरपुरुषपदत्वरूपानुपूर्वी । तत्र = ' राजा पुरुषः ' इत्यत्र । तादृशबोधसामग्र्या:--भेदान्वयबोधस्योक्तसामग्र्याः ।
ما
.
न चेति । निष्प्रामाणिकमिति- प्रातिपदिकद्वयस्याव्यवधानमेव न सर्वत्र संभवति मध्ये विभक्तिव्यवधानसंभवादिति प्रातिपदिकद्वयाव्यवधानघटितोक्तानुपूर्वीविशेषस्य कथं शाब्दबोधविशेषं प्रति हेतुत्वं स्यात् ? तस्मादव्यवहितप्रकृतिप्रत्ययानुपूर्वी विशेषस्यैव हेतुत्वं वक्तव्यं प्र तिप्रत्यययोः सर्वत्राव्यवधानसंभवात् सर्वत्रानुगतस्यैव च कारणत्वौचित्यात् तथा च- आनु पूर्वीज्ञानस्याऽकारणत्वे ' राजपुरुषः ' इतिसमासे या सामग्री वर्तते सा राजा पुरुष. ' इत्यत्रापि राजपदपुरुषपदजन्योपस्थितिघटितयोग्यताज्ञानादिसामप्यस्तीति 'राजपुरुष:' इत्यत्र भेदान्वयबोधस्वीकारे तद्दृष्टान्तेन 'राजा पुरुषः' इत्यत्रापि राजम कारकस्वत्वसंसर्गक पुरुषविशेष्यकभेदान्वयबोधस्यापत्तिरस्त्येवेति तद्वारणाय आनुपूर्वी विशेषस्य ( राजपदाव्यवहितपुरुषपदत्वानुपूर्वी विशेषस्य ) कारणत्वकल्पनप्रयुक्तं गौरवं पूर्वपक्षिमतेतिरिच्यते ' राजपुरुषः ' इत्यत्रामेदान्वयवादिसिद्धान्तिपक्षे ' स्वनाभेदान्वयस्य राजपदस्य राजसंबन्धिनि लक्षणैव नियामिका तदभावादेव राजा पुरुषः इत्यत्र नाऽभेदान्वयापत्तिरित्यत्राभेदान्वयापत्तिवारणाय राजपदपुरुषपदयोरव्यवधानघटितानुपूर्वीज्ञानस्य कारणत्वकल्पनापेक्षाऽभावेनोक्तगौरवाभावाल्लाघवमितिभाव इतिकृष्णभट्टाभिप्रायः । परेिहरति- भवन्मतेपीति, सिद्धान्तिमतेपि यथा राजपुरुष:' इत्यत्र तादृशसामग्रीबलात् = लक्षणाघटितसामग्रीबलादऽभेदान्वयबोधो जायते तथा ' राज्ञः पुरुषः ' इत्यत्रापि राजपदस्य राजसंबन्धिनि लक्षणाग्रहे जाते तादृशसामग्री बलात्-लक्षणाघटित सामग्री बलादऽमेदान्वयबोधापत्तिरत्येति ' राज्ञः पुरुष' इत्यत्राभेदान्वयबोधापत्तिवारणाय समासजन्यबोधे = ' राजपुरुषः' इतिसमस्तपदजन्याऽभेदान्वयबोधे तथाविधानुपूर्वीविशेषज्ञानस्य = राजपदाव्यवहितोत्तर पुरुषपदानुपूर्वीविशेषरूपाकाङ्क्षाज्ञानस्य कारणत्वकल्पनमावश्यकमेव ( तथा च 'राज्ञः पुरुषः' इत्यत्र राज -
<
?
"
"Aho Shrutgyanam"