________________
( ८६ )
सादर्श:
[ प्रथमाकारके -
<
भिर्भेदान्वयबोधे एव तादृशानुपूर्वीविशेषज्ञानस्य हेतुतायाः कल्पनीयत्वात् । न चोभयमते एव राजसंबन्धिनि राजपदस्य स्वारसिकलक्षणाग्रहण राज-पुरुषः" इत्यत्र राजसंबन्धिपुरुषयोरभेदान्वयबोधो भवति, इयांस्तु विशेषः- यदस्मन्मतेऽसौ समासः षष्ठीतत्पुरुषो भवन्मते कर्मधारय इति. एवं च पुरुषविशेष्यकाऽभेदसंसर्गकराजसंबन्धिप्रकारकबोधे राजपदाऽव्यवहितोत्तरवर्ति पुरुषपदत्वप्रकारकज्ञानत्वेन हेतुत्वमुभयवादिसिद्धमेव भेदान्वयबोधे तादृशानुपूर्वीज्ञानहेतुताकल्पन
पदपुरुषपदयोरव्यवहितानुपूर्व्यऽभावादेवाऽभेदान्वयबोधापत्तिर्न स्यात्. ) तथा च यथावया तथाविधानुपूर्वी विशेषज्ञानस्य ' राजपुरुषः ' इत्यत्राभेदान्वयबोधं प्रति कारणत्वं कल्प्यते तथा मया भेदान्वयबोधं प्रत्येव कारणस्वं कल्पते तथा च मेान्यवोपकारणस्य तादृशानुपूर्वीविशेषज्ञानस्य राजपदाव्यवहितपुरुषपदानुपूर्वी विशेषज्ञानस्य ' राजपुरुषः' इत्यत्र सत्त्वाद् मेदान्वयबोध एवं स्वीकार्यो नाऽभेदान्वयबोधस्तत्र राजपदस्य राजसंबन्धिनि लक्षणापत्त्या गौरवादित्यर्थः । न चैवम् ' राज्ञः पुरुषः ' इत्यत्र भेदान्वयबोधो न स्याद् भेदान्वयकारणीभूतोक्तराजपदाव्यवहितपुरुषपदानुपूर्वी विशेषज्ञानस्याभावात् षष्ठ्या व्यवधानादिति वाच्यम्, उक्तकार्यकारणभावस्य समासस्थलार्थमेव कल्पितत्वात्. असमासस्थले ' राज्ञः पुरुषः ' इत्यादौ तु भेदान्वयबोधं प्रति षष्ठधन्तराजादिपदसमभिव्याहारस्य वा विरुद्धविभक्त्यन्त पदयोः समभिव्याहारज्ञानस्य वा कारणस्वादिति न काप्यनुपपत्तिरिति सूचितम् - " समासजन्यबोधे " इत्यनेन ।
पुनः सिद्धान्ती ' राजपुरुष:' इत्यत्र मेदान्वयबोधरवीकर्तृपूर्वपक्षिमते गौरवं प्रदर्शयति- न चेत्यादिना । 'राजपुरुषः' इत्यत्र राजपदस्य यदि कस्यचित् राजसंबन्धिनि स्वारसिकलक्षणाग्रह: स्यात्तदा राजपदालक्षणयोपस्थित राजसंबन्धिनः पुरुषेऽभेदान्वयस्य ममेव तवापि स्वीकारावश्यकरवाद मेदान्वयबोधं प्रति राजपदाव्यवहितोत्तरवर्ति पुरुषपद स्वप्रकारकं यदानुपूर्वीज्ञानं तस्य कारणत्वमुभयवादि ( तव मम च ) सिद्धमेव त्वया तु तादृशाव्यवहितानुपूर्वीज्ञानस्य राजपदस्य राजसंबन्धिनि लक्षणा महाभावकाले भेदान्वयबोधं प्रत्यपि कारणत्वं कल्पनीयमिति गौरवमित्यर्थः । किं च लक्षणाग्रहनिवेश विना कारणत्वस्वीकारे भेदान्वयबोधाभेदान्वयबोधयोर्विनिगमनाविरहः, लक्षणाग्रहनिवेशे ततोप्यधिकं गौरवम्, केवललक्षणाया एवाभेदान्वयबोधनियामकत्वे मदीयमत स्वीकारापत्तिरित्यवधेयम् । राजपुरुषः इत्यत्र राजपदस्य राजसंबन्धिनि स्वार सिकलक्षणाग्रहकालिकः स्वस्य प्रतिवादिनश्च यावान् भेदस्तमाह- इयांस्त्विति, पुरुष : " इत्यत्र लक्षणाग्रहे सत्यमेदान्वयबोधकालेऽसौ समासो मममते षष्ठीतत्पुरुषः 'राज्ञः पुरुषः' इति विग्रहस्वीकारात् ङसन्तराजपदस्य राजसंबन्धविशिष्ट लक्षणास्वीकारात्, तव मते चासौ समासः कर्मधारय एव राजा चासौ पुरुषो राजपुरुषः • इतिविग्रहस्वीकारात् प्रथमान्तराजपदस्यैव राजसंबन्धिनि लक्षणास्त्रीकारात् राजसंबन्धित्व पुरुषत्वेति विभि-नप्रवृत्तिनिमित्तधर्माभ्यां पदाभ्यामेकधर्मिबोधनादित्यर्थः । पूर्वपक्षी परिहरति- उक्तेति,
L
'
राज
L
" Aho Shrutgyanam"
T