________________
भदाययव दः] व्युत्पत्तिवादः।
(८७) मधिकमिति वाच्यम्, उक्ताऽभेदान्वयबोधे तथाविधानुपूर्वीज्ञानहेतुतायां पर्यायश: ब्दान्तरघटितानुपूर्वीज्ञानजन्यतथाविधान्वयबोधे व्यभिचारवारणाय तादृशानुपूर्वी. ज्ञानानन्तर्यस्य कार्यतावच्छेदककोटाववश्यं निवेशनीयतया तंत्र विषयनिवेशे प्रयोजनाभावेन तादृशकार्यतावच्छेदकस्यैव भेदान्वयबोधसाधारण्येनानुपूर्वीज्ञानस्य भेदान्वयबोधे हेतुताया अनाधिक्यात्। - एवम् 'तण्डुलं पचति ' इत्यादावपि पाकादिरूपधात्वर्थे कर्मत्वादिसंबन्धेन तण्डुलादेरन्वयबोधः स्वीकर्तुमुचितः । कर्मत्वस्य पाकाशे प्रकारत्वे तत्र तत्र 'राजपुरुषः । इत्यत्र राजाकारकपुरुषविशेष्यकाभेदान्वयबोधं प्रति तथाविधानुपूर्वीज्ञानहेतुतायाम-राजपदाव्यवहितोतरपुरुषरदानुपूर्वीज्ञानस्य हेतुत्वे यत्र । नृपपुरुषः ' ' नृपतिनरः । इत्यादौ राजपुरुषपदपर्यायशब्दान्तरघटितानुपूर्वीज्ञानेनाभेदान्वयचोधो भवति तत्र राजपदाव्यवहितोत्तरपुरुषपदज्ञानस्यासत्वाद् अभेदान्त्रयबोधरूपकार्यस्य च सत्त्वाद् व्यभिचारः प्राप्त इति तादशव्यभिचारवारणाय तत्तदानुपूर्वीज्ञानानन्तर्यस्य कार्यतावच्छेदककोटौ निवेशः कर्तव्यो पथा-- राजपदाव्यवहितोत्तरपुरुषपदानुपूर्वीज्ञानोत्तरत्वविशिष्टराजप्रकारकपुरुषविशेष्यकाभेदान्वयबोधं प्रति राजपदाव्यवहितपुरुषपदानुपूर्वीज्ञानस्य हेतुत्वम् . नृपतिपदाव्यवहितो. चरनरपदानुपूर्वीज्ञानोत्तरत्वविशिष्टराजप्रकारकपुरुषविशेष्यकाभेदान्वयबोधं प्रति नृपतिपदाव्यवहितोत्तरनरपदानुपूर्वीज्ञानस्य कारणत्वमित्यादि, एवं हि कार्यतावच्छेदककोटी तत्तदानुपूर्वीज्ञानानन्तयस्य निवेशे कृते विषयनिवेशे संबन्धरूपविषय निवेशस्य प्रयोजनं नास्त्येव कारणानन्तर्यनिवेशेन तादृशशान्दबोधं प्रत्येव तादृशानुपूर्वीज्ञानस्यैव हेतुत्वप्राप्तौ व्यभिचारासंभवाद् व्यभिचारवारणार्थमेव विषयनिवेशस्यावश्यकत्वात् तथा च राजपदाव्यवहितोत्तरपुरुषपदानुपूर्वीज्ञानानन्तरजायमानराजप्रकारकपुरुषविशेष्यकशाब्दबोधं प्रति राजपदाव्यवहितोत्तरपुरुषपदानुपूर्वीज्ञानस्य हेतुत्वमित्येवं “भेदान्वयबोधाऽभेदान्वयबोधसाधारणं" कार्यकारणभावं वक्ष्याम इति न भेदान्वयबोधं प्रत्युक्तानुपूर्वीज्ञानस्य पृथग् हेतुत्वकल्पनापेक्षेति नाधिक्यमित्यर्थः । तादृशकार्येति, राजप्रकारकपुरुषविशेष्यकशाब्दबोधत्वस्य कार्यतावच्छेदकस्म भेदान्वयबोधसाधारण्यात्- 'राजा पुरुषः । इत्यत्र भेदान्वयबोधो वा भवत्वमेदान्वयबोधो वा भवतु .राजप्रकारकपुरुषविशेष्यकबोधस्योभयत्रैव जायमानत्वाद् राजप्रकारकपुरुषविशेश्यकबोधत्वस्योभयविधबोधसाधारणत्वात्ताहशोभवबोधसाधारणराजप्रकारकत्वपुरुषविशेष्यकत्वं प्रत्येव राजपदाव्यवहितोत्तरपुरुषपदानुपूर्वीज्ञानस्य हेतुस्वकल्पनानाधिक्यम् । __ यथा ' राज्ञः पुरुषः' इत्यत्र स्वत्वस्योक्तरीत्या संसर्गत्वमेव युक्तं न प्रकारत्वं तथा 'तण्डुलं पचति' इत्यत्र द्वितीयार्थकर्मत्वस्यापि संसर्गत्वमेवोचित न तु प्रकारत्वमित्याह- एवमित्यादिना । तथा चात्र कर्मत्वसंबन्धेन पाकादिधात्वर्थे तण्डुलाद्यन्वयः कर्तव्य इत्यर्थः । विपक्षे बाधकमाहकर्मत्वस्येति, कर्मत्वस्य प्रकारत्वस्वीकारे हनुपस्थितस्य प्रकारतया भानं न भवति. उपस्थितिश्च
"Aho Shrutgyanam"