________________
( ८८ )
सादर्श:
[ प्रथमाकारके -
द्वितीयादेः शक्तिकल्पने तादृशवाक्यजन्यशाब्दबोधे कर्मत्वादिसंसर्गस्पाधिकस्य विषयता कल्पनेच गौरवात् । ' तण्डुलं पचति ' इत्यादिवाक्यजन्यशाब्दबोधसामग्रीबलात् ' तण्डुलः पचति' इत्यादावपि तथाविधान्वयबोधापत्तिस्तु न संभवति तादृशान्वयबोधे द्वितीयान्ततण्डुल पदत्वाद्यवच्छिन्नधर्मिक पचतीत्यादिसमभिव्याहारज्ञानस्य हेतुतया तण्डुलः पचति ' इत्यादौ तादृशसामय्या अप्रसिद्धेः ।
एवम् ' पचति चैत्र: ' इत्यादावपि कृतिसंबन्धेन पाकादेश्चेत्राद्यंशेऽन्वयबोधस्वीकार उचितः, अन्यथा - उक्तरीत्या गौरवात् । तत्र तादृशान्वयबोधस्वीकारे शक्तिमहं विना न भवतीति तत्र तत्र = कर्मत्वादिषु द्वितीयादिविभक्तीनां शक्तिकल्पनापेक्षा प्राप्ता तया तादृश = ' तण्डुलं पचति ' इत्यादिवाक्यजन्यशाब्दबोधे प्रकारभूतकर्मत्वादेरपि संबन्धस्थाश्रयत्वादिरूपस्य विषयताकल्पना प्राप्तेति गौरवं स्यात्, कर्मत्वस्य संसर्गत्वस्त्रीकारे त्वेतद् गौरवं नास्त्येव - अनुपस्थितस्यापि संसर्गतया मानसंभवेन कर्मत्वादौ द्वितीयादिविभक्तिशक्तिकल्पनापेक्षाभावात्. संसर्गत्वेन भासमानकर्मत्वादीनां संबन्धान्तरस्याश्रयत्वादेः शाब्दबोधविषयत्वकल्पनापेक्षाभावाच्चेति संसर्गतावादे लाघवमित्यर्थः ।
ननु कर्मत्वस्य संसर्गत्वे वृत्त्या तदुपस्थित्यपेक्षाभावेन यथा तण्डुलं पचति ' इत्यत्र कर्मस्वसंबन्धेन पार्क तण्डुलान्वयबोधस्तथा ' तण्डुलः पचति ' इत्यत्रापि बोधः स्यात्. प्रकारत्वस्वीकारे sपस्थितस्य प्रकारतया मानाभावनियमेन ' तण्डुलः पचति ' इत्यत्र कर्मव्यवस्थापकद्वितीयाऽभावादेव न तादृशान्वयबोधः प्रथमायाः कर्मत्वे शक्त्यभावादित्याशङ्कयाह- तण्डुलमित्यादिना । न संभवतीत्युक्ते हेतुमाह- तादृशेति, कर्मत्वसंबन्धेन पाके तण्डुलान्वयबोधं प्रति द्वितीयान्ततण्डुलपदसमभिव्याहारस्य कारणत्वात् तण्डुलः पचति ' इत्यत्र द्वितीयान्ततण्डुलपदाभावाच्च न तादृशान्वयबोधापत्तिरित्यर्थः ।
6
6
L
एवम् ' पचति चैत्रः ' इत्यत्र कृतिसंबन्धेन पाकादेश्चैत्रादावन्वयबोधस्तत्रापि कृतेः संसर्ग त्वमेवोचितं न प्रकारत्वमित्याह - एवमिति । विपक्षे बाधकमाह- अन्यथेति, अन्यथा = कृतेः प्रकारत्वस्त्रीकारे, उक्तरीत्या यथा ' तण्डुलं पचति ' इत्यत्र कर्मत्वादौ द्वितीयादेः शक्तिकल्पनापेक्षा स्यात् प्रकारत्वे तथात्रापि कृतावाख्यातस्य शक्तिकल्पनापेक्षा स्यात् प्रकारीभूतकृतेश्वाश्रयतारूपसंबन्धकल्पनापेक्षा स्यादिति गौरवम् । कृतेः संसर्गत्वस्वीकारे चतादृशं गौरवं नास्तिअनुपस्थितस्यापि संसर्गतया भानसंभवात् कृतावाख्यातस्य शक्तिकल्पनापेक्षाभावाद् संसर्गभूतकृतिप्रतीत्यर्थं संबन्धान्तरापेक्षाभावादाश्रयतासंबन्धकल्पनाभावाचेत्यर्थः । ननु कृतेः संसर्गत्वे तदुपस्थित्यपेक्षाभावेन तदुपस्थापकापेक्षाभावात् ' पच्यते चैत्रः ' 6 पाकचैत्र: ' इत्यादावपि कृतिसंबन्धेन पाकादेश्चैत्रादावन्वयबोधः स्यात्, प्रकारत्वस्वीकारे त्वऽनुपस्थितस्य प्रकारत्वासंभवात्तदुपस्थापकशविकरण विशिष्टाख्यातस्यात्राभावान्न ' कृतिसंबन्धेन पाकवांश्चैत्रः ' इति बोधापत्तिरित्याशङ्कयाह- तत्रेति । तत्र = ' पचति चैत्र:' इत्यत्र । तादृशान्त्रयबोधः = ' कृतिसंब
-
"Aho Shrutgyanam"