________________
भेदान्वयवादः ]
व्युत्पत्तिवादः। तत्स्थलीयसामग्रीबलात् ‘पच्यते चैत्रः ''पाकश्चैत्रः' इत्यादौ तथाविधान्वयबोधापत्तरप्युक्तरीत्या वारणसंभवादिति ।
मैवम्- 'राज्ञः पुरुषः' इत्यादौ षष्ठयादेः स्वत्वादिवाचकत्वमावश्यकम्, अन्यथा- 'पुरुषो न राज्ञः ' इत्यादौ पुरुषे राजस्वत्वाद्यभावबोधानुपपत्तेः । न हि तत्र स्वत्वादिसंबन्धावच्छिन्नप्रतियोगिताकराजाद्यभाव एव प्रतीयते न तु राजस्वत्वाद्यभाव इति संभवति- स्वत्वादिसंबन्धस्य वृत्त्यनियामकतया प्रतियोगितानवच्छेदकत्वेनं तत्संबन्धावच्छिन्न प्रतियोगिताकाऽभावाऽप्रसिद्धेः।
न्धेन पाकवांश्चैत्रः' इतिबोधः । उक्तरीत्या वारणसंभवात् कृतेः संसर्गत्वस्वीकारे उक्तान्वयबोधं प्रति शविकरणविशिष्टाख्यातान्तधातुपदसमभिव्याहारस्य कारणत्वस्वीकारात् 'पच्यते चैत्रः ' इत्यादौ च शविकरण विशिष्टाख्यातान्तधातुपदाभावान्न ‘कृतिसंबन्धेन पाकवांश्चैत्रः' इत्यन्वयनोधापत्तिरित्यर्थः ।
प्रकारतावादी संसर्गतावादं परिहरति- मैत्रमित्यादिना, अनुपस्थितस्य प्रकारतया भानासंभवेन तदुपस्थित्यर्थम् 'राज्ञः पुरुषः । इत्यत्र स्वत्वे षष्ठयाः शक्तिकल्पनं कर्तव्यं षष्ठयाद्यर्थभूतस्वत्वादीनां प्रकारत्वमेवोचितमित्यर्थः। विपक्षे बाधकमाइ- अन्यथेति । अन्यथा स्वत्वादेः संसर्गत्वे
पुरुषो न राज्ञः ' इत्यत्र राजस्वत्वप्रतियोगिकाभावबोधो न स्यात-- स्वत्वस्य संसर्गत्वेन प्रतियोगितावच्छेदकसंबन्धत्वेनैव भानसंभवात् । प्रकारत्वे तु तस्यापि शक्यत्वेन पदार्थत्वात् स्वत्वप्रतियोगिकाभावप्रतीतिः संभवति तथा च 'राज्ञः पुरुषः । इत्यत्र राजनिरूपितस्वत्ववान् पुरुष इत्येव बोधो न तु स्वत्वसंबन्धेन राजवान् पुरुष इतिबोध इत्यर्थः । ननु — पुरुषो न राज्ञः ' इत्यत्र स्वत्वस्य प्रतियोगितावच्छेदकसंबन्धत्येनैव भानं भवति न तु प्रतियोगित्वेन येन स्वत्वस्य प्रकारत्वं स्यादित्याशङ्कयाह- न हीति । तत्र 'पुरुषो न राज्ञः । इत्यत्र । राजस्वत्वायभावः राजनिरूपितस्वत्वप्रतियोगिकाभावः । ' पुरुषो न राज्ञः ' इत्यत्र स्वत्वस्य प्रतियोगितावच्छेदकसंबन्धत्ये बाधकमाह- स्वत्वादीति, आश्रयत्वसंयोगादीनामेव वृत्तिनियामकसंबन्धानां प्रतियोगितावच्छेदकसंबन्धत्वं भवति- येन संबन्धेन यः पदार्थो यत्र वर्तते तेनैव संबधेन तत्रैव तत्पदार्थस्याभावोऽपि ना प्रत्याय्यते स्वत्वसंबन्धेन तु न कस्यचित् पदार्थस्य राजादेः पुरुषादौ स्थितिः संभवति. न हि ' राज्ञः पुरुषः' इत्युक्ते स्वत्वसंबन्धेन राज्ञः पुरुषे स्थितिः प्रतीयते येन स्वत्वस्य वृत्तिनियामकत्वं स्यात्, वृत्तिनियामकत्वाभावेन स्वत्वस्य प्रतियोगितावच्छेदकसंवन्धत्वाभावात् तत् स्वत्वसंबन्धावच्छिन्नप्रतियोगिताकाभावस्य कचिदपि प्रसिद्धत्वामावाच्च न 'पुरुषो न राज्ञः । इत्यत्रापि स्वत्वसंबन्धावच्छिन्नप्रतियोगिताकराजाभावः प्रतीयते किं तु राजस्वत्वाभाव एव, तस्मात् स्वत्वस्य प्रकारत्वमेव युक्तं न संसर्गत्वमित्यर्थः ।
"Aho Shrutgyanam"