________________
(९०)
सादर्श:
[प्रथमाकारके- अत एव स्वामित्वादिकं परित्यज्य स्वत्वादेः षष्ठयर्थत्वं नवीनाः स्वीकुर्वन्ति-- स्वामित्वादेः षष्ठयर्थत्वे तस्य निरूपकतासंबन्धेन पुरुषांशेऽन्वयसंभवेपि ताहशसंवन्धस्य वृत्त्यनियामकतया संसर्गाभावप्रतियोगितानवच्छेदकत्वेन तत्सं. बन्धावच्छिन्नाभावस्य नञा प्रत्यायनासंभवात् । आश्रयतासंबन्धाधवच्छिनाभावबोधस्यैताहशसमभिव्याहारस्थलेऽभ्युपगमे चैत्रादिसंबन्धिनि धनेप्याश्रयतासंबन्धावच्छिन्नप्रतियोगिताकचैत्रवृत्तिस्वामित्वाभावसत्त्वात् । नेदं चैत्रस्य' इति प्रयोगापत्तिः। ___ न च नसमभिव्याहारस्थलानुरोधेन षष्ठयादेः स्वत्वादिवाचकत्वेपि — राज्ञः पुरुषः' इत्यादौ षष्ठयाद्यर्थस्य संसर्गमर्यादया भानमुचितम्- तस्य प्रकारत्वो। अत एव कृत्यनियामकसंबन्धस्य प्रतियोगितावच्छेदकसंबन्धवाभावादेव । यदि स्वामित्वं षष्ठपर्थः स्यात्तदा पुरुषस्य स्वामित्वनिरूपकत्वाद् निरूपकत्वसंबन्धेन स्वामित्वस्य पुरुषेऽन्वयसंभवाच ' राज्ञः पुरुषः' इत्यत्र निरूपकतासंबन्धेन राजनिष्ठस्वामित्ववान् पुरुष इति पुरुषविशेष्यकबोधसंभवेपि तादृशसंबन्धस्य-निरूपकतासंबन्धस्य वृत्यनियामकत्वेन संसर्गाभावप्रतियोगिताधम्छेदकसंबन्धत्वासंभवात् 'पुरुषो न राज्ञः' इत्यत्र नत्रा तत्संबन्धावच्छिन्नाभावस्य निरूपकत्वसंबन्धावच्छिनप्रतियोगिताकस्वामित्वाभावस्य प्रतीतिर्न संभवतीति न स्वामित्वं षष्ठयर्थः, स्वत्वस्य षष्ठयर्थत्वे तु स्वत्वं हि पुरुषे आश्रयतासंबन्धेन वर्तते,आश्रयतासंबन्धश्च वृत्तिनियामक एवेति भाश्रयतासंबन्धेन पुरुषे राजस्वत्वाभावप्रतीतिः संभवत्येव- आश्रयत्वसंबन्धावच्छिन्न प्रतियोगिताकराजनित पितस्वत्वाभाववान् पुरुष इतिबोधसंभवादित्यर्थः । ननु स्वामित्वमेव षष्ठ्यर्थ एतादृशसमभिव्याहारस्थडे-'पुरुषो न राज्ञः' इति नसमभिव्याहारस्थले आश्रयतासंबन्धावच्छिन्नप्रतियोगिताकामावस्येव बोधो भवतीति स्वीकरिष्यामः- आश्रयतासंबन्धस्य वृत्तिनियामकत्वेन संसर्गाभावप्रतियोगितावच्छेदकत्वसंभवादित्याशङ्कयाह-- आश्रयतेति, एवं हि भाश्रयतासंबन्धेन स्वामित्वस्य पुरुषे सदैवाऽभावाद् राजपुरुषेपि 'पुरुषो न राज्ञः' इतिप्रतीतिः स्यादेव तथा चैत्रसंबन्धिन्यपि धने आश्रयतासंबन्छन स्वामित्वस्यासत्वात् नेदं चैत्रस्य ' इति प्रतीत्यापत्तिः किं वा प्रयोगापत्तिः स्यादेव । न ह्याश्रयतासंबन्धेन स्वकीये धनपुरुषादौ स्वामित्वं वर्तते किं तु स्वामिन्येव । तथा च निरूपकतासंबन्धेन धनपुरुषादौ नसत्त्वे स्वामित्वाभावो वक्तव्यः निरूपकतासंबन्धस्य च संसर्गामावप्रतियोगितावच्छेदकत्वं न संभवति वृत्त्यनियामकत्वादिति न स्वामित्वं षष्ठयर्थः किं तु स्वत्वमेक्त्यर्थः । . न चेति-स्वामित्वस्य षष्ठ्यर्थत्वे — पुरुषो न राज्ञः ' इत्यत्र निरूपकत्वसंबन्धेनापि पुरुषे स्वामित्वाभावो नना न प्रत्याययितुं शक्यते निरूपकत्वसंबन्धस्य वृत्त्यनियामकत्वात्. आश्रयतासंबन्धस्य वृत्तिनियामकत्वेन तेन स्वामित्वाभावः प्रत्याययितुं तु शक्यते किं तूक्तरीत्या. चैत्रध. नेपि — नेदं चैत्रस्य । इति प्रयोगः स्यादिति यदि षष्ठयर्थः स्वामित्वं न संभवति मसमभिव्याहारस्थलानुरोधेन तदा स्वत्वमेवास्तु षष्ठ्यर्थः किं तु षष्ठयर्थस्यापि स्वत्वस्य संसर्गत्वमेवोचितं न
"Aho Shrutgyanam"