________________
भेदान्वयवादः ]
व्युत्पत्तिवादः ।
(९१)
पगमे तत्संबन्धस्याधिकस्य मानकल्पनेन गौरवात् । नञ्समभिव्याहारस्यैव तत्प्रकारकबोध नियामकत्वाभ्युपगमेन सामग्रीविरहात् तत्प्रकारकबोधस्य तदसम भिव्याहारस्थलेऽसंभवादितिवाच्यम्, एवं सति नञ्पदं बिना यादृशसमभिव्याहारस्थले यत्र धर्मिणि येन संबन्धेन यस्य विशेषणतया भानं तत्र नञ्समभिव्याहारे तंत्र धर्मिणि तत्संबन्धावच्छिन्न प्रतियोगिताकतदभावः प्रतीयते इति सर्वजनानुभवस्याऽपलापापत्तेः । 'राज्ञः पुरुषः इतिवाक्यजन्याऽप्रामाण्यज्ञानानास्कन्दिततु प्रकारत्वमित्यर्थः । स्वत्वस्य प्रकारत्वे बाधकमाह- तस्येति तर = स्वत्वस्य प्रकारत्वे तत्संबन्धस्याप्यधिकस्य भानापत्त्या गौरवात् यथात्र पुरुषे स्वत्वमाश्रयतासंबन्धेन भासेत । राजनिरूपितवत्वाश्रयः पुरुष इति, प्रकारीभूतपदार्थस्य संबन्धान्तरं विना भानासंभवात् । संसर्गभूतपदार्थमानार्थं तु संबन्धान्तरस्यापेक्षाभावात् तस्य स्वयमेव संसर्गत्वाद् प्रथात्र स्वत्रसंबन्धेन राजवान् पुरुष इति संसर्गतामते बोध इत्यर्थः । नन्येवं नञ्समभिव्याहारस्थलेपि स्वत्वस्यैव प्रतियोगितावच्छेदकसंबन्धवं वक्तव्यं तचोक्तरीत्या न संभवति स्वत्वस्य वृत्त्यनियामकत्वादित्याराक्याह- नसमभिव्याहारस्येति, पुरुषो न राज्ञः इत्यादि नञ्समभिव्याहारस्थले स्वत्वस्य संसर्गवं नोपपद्यते इति प्रकारत्वमेव, नञःसमभिव्याहारस्थले राज्ञः पुरुषः' इत्यादौ तु स्वत्वस्य संसर्गत्वमेव तथा च नञ्समभिव्याहारस्यैव स्वत्वप्रकारक बोध नियामकतया नञसममिव्याहारस्थले ' राज्ञः पुरुषः इत्यादी सामग्रीविरहात् = नञ् पदसमभिव्याहाराभावात् तत्प्रकारकबोधस्य= स्वत्वप्रकारक बोधस्यासंभवात् स्वस्वसंसर्गकबोधोपपत्त्या स्वत्वस्य संसर्गत्वमेवो - चितमित्यर्थः ।
"
"
+
८
८
परिहरति- एवं सतीति, ' राज्ञः पुरुषः ' इत्यत्र स्वत्वस्य संसर्गत्वम् ' पुरुषो नराः इत्यत्र च स्वत्वस्य प्रकारत्वमिति वैषम्यं न सभवति यतः प्रतियोग्यमावान्त्रयों तुल्ययोगक्षेमौ भवतः । नञ्पदं विनेति - यथा-' घटवद् भूतलम् ' इत्यत्र यत्र धर्मिणि भूतले येन संबन्धेन= संयोगसंबन्धेन यस्य = वटस्य विशेषणतया भानं भवति तत्र तत्स्थले ' घटवद् भूतलम् ' इति . वाक्ये नञ्समभिव्याहारे भूतलं न घटवत्' इत्यत्र तत्र धर्मिणि तत्संबन्धावच्छिन्नप्रतियोगिताकतदभावः = संयोगसंबन्धावच्छिन्नप्रतियोगिताकघटाभावः प्रतीयते, एवं प्रकृतेपि यदि 'राज्ञः पुरुष:' इत्यत्र नत्र समभिव्याहारे पुरुषे स्वत्वसंबन्धेन राजपदार्थस्य विशेषणतया मानं स्यात्तदा ' पुरुषो न राज्ञः ' इत्यत्र न समभिव्याहारेपि पुरुषे स्वत्वसंबन्धेन राजपदार्थामात्रस्यैवस्वत्वसंबन्धावच्छिन्नराजत्वावच्छिन्नप्रतियोगिताका भावस्यैव मानं स्यात् तच्च न संभवति-- स्वत्वस्थ वृत्त्यनियामकत्वेन प्रतियोगितावच्छेदकत्वासंभवात् । ' राज्ञः पुरुषः १ इत्यत्र स्वत्वस्य संसर्ग - त्वम् ' पुरुषो न राज्ञः ' इत्यत्र च स्वत्वस्य प्रकारत्वमिति वैषम्ये दोषान्तरमाह - राज्ञः पुरुष: ' इति, त्वन्मते 'राज्ञः पुरुषः' इतिवाक्यजन्यो योऽप्रामाण्यज्ञानाऽनास्कन्दितो बोधस्ताraateeशायामपि पुरुषो न राज्ञः' इतिवाक्यादपि शाब्दबोधः स्यादेव अत्र हेतुमाह -
L
6
"Aho Shrutgyanam"
>