________________
(९२) सादर्शः
[ प्रथमाकारकेबोधदशायाम् 'पुरुषो न राज्ञः' इत्यादिवाक्यादाप शाब्दबोधापत्तेः-स्वत्वाभा. वबुद्धौ स्वत्वसंसर्गकज्ञानस्य विरोधित्वे मानाभावात् ।
वृत्त्यनियामकसंबन्धस्याभावप्रतियोगितावच्छेदकत्वेपि राज्ञः पुरुषः' इत्यादी राजस्वत्वादेः प्रकारताभ्युपगमः समुचितः, अन्यथा- तादृशसमभिव्याहारज्ञानघटितशाब्दसामग्रीकाले 'राजस्वत्वाभाववान् पुरुषः सुन्दरः' इत्याकारकविस्वत्वाभावेति, यथा ' धटवद् भूतलम् ' ' पटाभाववद् भूतलम् । इतिवाक्यद्वयजन्यज्ञानयोर्न परस्परं विरोधो भिन्नविषयत्वात् समानप्रकारकसमानसंसर्गकज्ञानस्यैव विरोधित्वात् तथा स्वत्वाभावबुद्धौ-आश्रयतासंबन्धावच्छिन्नस्वत्वत्वावच्छिन्नप्रतियोगिताकामावबुद्धौ, ' राज्ञः पुरुषः ' इत्यत्र हि तव मते स्वत्वसंसर्गको बोधो भवति- 'स्वत्वसंबन्धेन राजवान् पुरुषः ' इति. 'पुरुषो न राज्ञः '.इत्यत्र च तव मते स्वत्वस्य प्रकारत्वमेव-- 'आश्रयतासंबन्धेन स्वत्वाभाववान् पुरुषः' इति बोधः संसर्गप्रकारयोश्च परस्परं भेदेनोक्तबोधयोरपि भेदात् 'राज्ञः पुरुषः, इत्यत्र संसगभूतस्वत्वसत्त्वस्य प्रतीयमानत्वात् ' पुरुषो न राज्ञः ' इत्यत्र च प्रकारीभूतस्वत्वासत्त्वस्य प्रतीयमानत्वात् परस्परं प्रतिबध्यप्रतिबन्धकमावो न स्यादिति — राज्ञः पुरुषः । इतिवाक्यजन्यबोधकालेपि 'पुरुषो न राज्ञः ' इतिप्रयोगापत्तिः स्यादेव तत्तु न युक्तमित्यर्थः । ___ ननु वृत्त्यनियामकसंबन्धस्य प्रतियोगितावच्छेदकत्वं न भवतीति नात्र श्रुतिरस्ति येन 'पुरुषो न राज्ञः । इत्यत्र वृत्त्यनियामकस्य स्वत्वस्य पुरुषे राजाभावप्रतियोगितावच्छेदकसंबन्धत्वं न स्यात्तथा च'पुरुषो न राज्ञः' इत्यत्र स्वत्वस्यैवाभावप्रतियोगितावच्छेदकत्वेन संसर्गत्वमेवेति नोक्तसवजनानुभवस्यापलापापत्तिस्तथाच वृत्त्यनियामकस्यापि स्वत्वस्य प्रतियोगितावच्छेदकसंबन्धत्वस्वीकारेण 'पुरुषो न राज्ञः' इत्यस्य स्वत्वसंबन्धेन राजाभाववान् पुरुष इति बोधः 'राज्ञः पुरुषः । इत्यस्य च स्वत्वसंबन्धेन राजवान् पुरुष इतिबोधः. अनयोश्च बोधयोर्भावाभावविषयकत्वेन परस्परं विरोधात् ' राज्ञः पुरुषः । इतिवाक्यजन्याऽप्रामाण्यज्ञानानास्कन्दितबोधदशायां न 'पुरुषो न राज्ञः' इतिवाक्यस्य शान्दबोधापत्तिः प्रयोगापत्तिश्च- स्वत्वसंप्सर्गकराजाभाववत्त्वबुद्धिं प्रति स्वत्वसंसर्गकराजवत्त्वबुद्धेः प्रतिबन्धकत्वादित्येवमुक्तदोषद्वयस्य परिहारमभ्युपगम्यापि संसर्गतामते दोषमाह- वृत्त्यनियामकेति, वृत्त्यनियामकस्य स्वत्वस्याभावप्रतियोगितावच्छेदकसंबन्धत्वस्वीकारेपि तस्य स्वत्वस्य प्रकारत्वमेव युक्तं न संसर्गत्वमित्यर्थः । विपक्षे बाधकमाह- अन्यथेति, विभिन्नविषयकप्रत्यक्ष प्रति शाब्दबोधसामग्र्याः प्रतिबन्धकत्वमुभयवादिसिद्धमस्ति. 'राज्ञः पुरुषः' 'राजस्वत्वाभाववान् पुरुषः सुन्दरः' इतिज्ञानयोः परस्परं विभिन्न विषयत्वमप्यस्ति ‘राजस्वत्वामायवान् पुरुषः सुन्दरः । इति च राजस्वत्वाभावविशिष्ट पुरुषे सुन्दरत्ववैशिष्टयमिति विशिष्टवैशिष्टयावगाहि प्रत्यक्षम्, तत्र तादृशसमभिव्याहारज्ञानघटितसामग्रीकाले=' राज्ञः पुरुषः । इत्याकारक. षष्ठयन्तराजपदप्रथमान्तपुरुषपदसमभिव्याहारज्ञानघटितयोग्यतासत्तिज्ञानादिरूपशाब्दबोधसामग्रीकाले राजस्वत्वाभाववान् पुरुषः सुन्दरः' इत्याकारकविशिष्टवैशिष्ट्यावमाहिप्रत्यक्षं नेष्टमिति तद्वार
"Aho Shrutgyanam"