________________
भेदान्वयवादः ]
व्युत्पत्तिवादः ।
(९३)
शिष्टवैशिष्ट्या वगाहिप्रत्यक्षवारणाय तत्र तादृशसामय्याः प्रतिबन्धकता कल्पनाविक्येन गौरवात् । अस्मन्मते तादृशसमभिव्याहारघटितसामय्याः राजस्वस्वाभाववान् पुरुष:' इत्यादिबाधाभावघटिततया तत्सत्त्वे विशेष्यतावच्छेदकादिप्रकारकनिश्चयरूपकारणविरहादेव तथाविधविशिष्टवैशिष्टचावगाहिप्रत्यक्षीत्पत्यसंभवेन तादृशसामग्र्यास्तत्र प्रतिबन्धकत्वस्याऽकल्पनात् ।
णाय तत्र उक्तविशिष्टवैशिष्टयावगाहिप्रत्यक्षे = उक्तविशिष्टवैशिष्ट्यावगाहिप्रत्यक्षं प्रति तादृशसा
मग्र्याः = राज्ञः पुरुषः इत्याकारकषष्ठ्यन्तराजपदप्रथमान्तपुरुषपदसमभिव्याहारज्ञानघटित
राज्ञः
योग्यतासत्तिज्ञानादिरूपशाब्दबोधसामग्र्याः प्रतिबन्धकत्वकल्पनाधिक्येन संसर्गतामते गौरवम् । उक्तशाब्दबोधप्रत्यक्षयो विभिन्न विषयकत्वेपि परस्परं विरोधो नास्ति यतः - 'राज्ञः पुरुषः' इत्यनेन स्वत्व संबन्धेन राजवान् पुरुष इतिबोधो जायते प्रत्यक्षं च < राजस्वत्वाभाववान् पुरुषः.. सुन्दर: ' इत्याकारकमिति उक्तशाब्दबोधस्यापि सामग्री संपन्ना उक्तप्रत्यक्षस्यापि सामग्री संपनेति तत्र तत्कार्यभूतशाब्दबोधप्रत्यक्षयोरापत्तिः समानबलत्वेन प्राप्तेत्युक्तप्रत्यक्षवारणाय पुरुषः ' इत्यत्रत्यशाब्दसामग्र्याः प्रतिबन्धकत्वं संसर्गतावादिना कल्पनीयमितिगौरवम् । यद्युक्तशाब्दबोधप्रत्यक्षयोः परस्परं विरोधः स्यात्तदा शाब्दबोधसामय्याः प्राबल्येन प्रत्यक्षसामग्रीसंत्तिरेव न स्यादिति प्रत्यक्षकारणाभावादेव प्रत्यक्षं स्वयमेव निवर्तेतेति तद्वारणाय शाब्दसामय्याः प्रतिबन्धकत्वकल्पनं न स्यादपि न चैवमस्ति संसर्गतामते उक्तशाब्दबोधप्रत्यक्षयोः परस्परे विरोधाभावादित्यर्थः ।
6
"
14
नन्दिं गौरवं प्रकारतामतेपि स्यादित्याशङ्कय प्रकारतावादी स्वमते उक्तगौरवाभावमुपपादयति - अस्मन्मते इति, स्वत्वस्य प्रकारतास्वीकारे तु 'राज्ञः पुरुषः' इत्यनेन राजनिरूपितस्वत्ववान् पुरुष इतिशाब्दबोधो जायते इति शाब्दबोधे राजस्वत्यवत्त्वस्य विषयत्वाद् उक्तविशिष्टवैशिष्ट्या - वगाहिप्रत्यक्षे च राजस्वत्वाभाववत्त्वस्य विषयत्वादुक्तशाब्दबोधप्रत्यक्षयोः परस्परं विरोधोस्त्येव. अथ च राज्ञः पुरुषः इतिवाक्यजन्यशाब्दबोधसामग्री योग्यतारूपेण ‘ राजस्वत्वाभाववान् - पुरुषः ' इत्याकारक बाधस्याभावेन घटितास्ति तथा व तत्सत्त्वे = ' राजस्वत्वाभाववान् पुरुषः ' इत्याकारको यो बाधस्तदभावघटितषष्ठ्यन्तराजपदप्रथमान्तपुरुषपदसमभिव्याहारज्ञानघटितयो - ग्यताज्ञानादिरूपसामग्रीसत्त्वे, 'राजस्वत्वाभाववान् पुरुषः सुन्दरः । इत्याकारकविशिष्टवैशिष्ट्य - प्रत्यक्षं प्रति च तद्विशेषणीभूतस्य ' राजस्वत्वाभाववान् पुरुषः' इत्याकारकविशिष्टस्य यज्ज्ञानं तस्य कारणत्वमस्ति विशेष्यतावच्छेदकस्य राजस्वत्वाभावस्य चात्र निश्चयो नास्त्येव शाब्दसाम्याः 'राजस्वत्वाभाववान् पुरुषः ' इत्याकारकबाधस्याभावेन घटितत्वात् तथा चोक्तप्रत्यक्षकारणस्य राजस्वत्वाभाववान् पुरुषः : इत्याकारकस्य विशेष्यतावच्छेदकप्रकारकनिश्चयस्याभावादेवोक्तविशिष्टवैशिष्ट्यावगाहिप्रत्यक्षस्योत्पत्तिः स्वयमेव न संभवतीति नोक्तप्रत्यक्षं प्रत्युक्तशाब्दबोधसान या प्रतिबन्धकत्वं कल्पनीयमिति न तत्कल्पनाप्रयुक्तं प्रकारतामते गौरव मित्यर्थः । कारण
9
3
"Aho Shrutgyanam"