________________
( ९४ )
सादर्श:
[ प्रथमाकार के
अन्यादृशप्रत्यक्ष स्थलीयप्रतिबन्धकतया च न त्वन्मते निर्वाह:- अन्यत्रान्यविधप्रत्यक्षेच्छानामुत्तेजकतया तादृशेच्छायामसत्यां चौपदर्शितविशिष्टवैशिष्ट्यataraarthच्छा बलादुपदर्शित विशिष्टवैशिष्ट्यबोधोपपत्तयेऽन्यादृशविषयताया `एवं प्रतिबध्यतावच्छेदकत्वोपगमावश्यकत्वात् ।
3
· सत्त्वे एव कार्य सत्त्वसंभवादु प्रत्यक्ष कारणामा उक्त प्रत्यक्षोत्पच्यऽसंभवः । तादृशसम भित्र्या'हारघटितसामग्र्या :- 'राज्ञः पुरुषः इतिषष्यन्त राजपदप्रथमान्तपुरुषपद समभिव्याहारघटितसामग्र्याः । तथाविधम् = ' राजस्वत्वाभाववान् पुरुषः सुन्दरः । इत्याकारकम् । तादृशसामग्र्याः=' राज्ञः पुरुषः ' इतिशाब्दबोधसामय्याः । तत्र = उक्तप्रत्यक्षे-उक्तप्रत्यक्षं प्रति ।
ननु विभिन्नविषयकप्रत्यक्षं प्रति शाब्दबोधसामग्र्याः प्रतिबन्धकत्वं क्लृप्तमेवास्तीति नात्र ८ राजस्वत्वाभाववान् पुरुषः सुन्दरः । इत्याकारकप्रत्यक्षं प्रति राज्ञः पुरुषः " इत्याकारक शाब्दबोधसामग्र्या इदानीं नूतनप्रतिबन्धकत्वकल्पनापत्तिरित्याशङ्कयाह- अन्यादृशेति । भन्याप्रत्यक्ष स्थलीयप्रतिबन्धकतया = घटादिप्रत्यक्षनिष्ठप्रतिबध्यतानिरूपितेन ' राज्ञः पुरुषः ' इति - शाब्दबोधसामग्रीनिष्ठेन प्रतिबन्धकत्वेन त्वन्मते = संसर्गतामते नात्र निर्वाहः संभवति । अत्र हेतु - माह - अन्यत्रेति, अयं भाव :- विभिन्नविषयकप्रत्यक्षं प्रति शाब्दबोधसामग्र्याः प्रतिबन्धक - स्वमस्त्येव किं तु यदि प्रत्यक्षं मे जायतामित्याकारा प्रत्यक्षेच्छा जायते तदा तु प्रत्यक्षमेव भवति इच्छाया उत्तेजकत्वाद् यथा दाहप्रतिबन्धकमणौ सत्यामप्युत्तेजकमणिसंनिधाने दाहो भवत्येव तथा च यदा राजपुरुषविषयकस्य ' राज्ञः पुरुषः ' इतिशाब्दबोधस्य सामग्री प्राप्ता घटविषयकस्य च प्रत्यक्षस्य सामग्री प्राप्ता तत्राऽन्यविधप्रत्यक्षेच्छानाम् = घटप्रत्यक्षं मे जायतामित्या करके - च्छाया उत्तेजकतया घटप्रत्यक्षं जायते, यदीदृशीच्छा न भत्रति किं तु राजस्वत्वाभाववान् पुरुषः सुन्दरः' इतिविशिष्टवैशिष्ट्या वगाहिप्रत्यक्षत्वप्रकारकेच्छा जायते तदोक्तस्य राजस्वत्वाभाववान् पुरुषः सुन्दरः ' इत्याकार कविशिष्टवैशिष्ट्यप्रत्यक्षस्योपपत्तये = उत्पत्त्युपपत्तये अन्यादृशविषयतायाः घटादिप्रत्यक्षनिष्ठाया घटादिप्रत्यक्षविषयकेच्छा निरूपिताया एव विषयतायाः प्रतिबयतावच्छेदकत्वं स्वीकार्यम् । घटादिप्रत्यक्षे विषयतापि वर्तते प्रतिबध्यत्वमपि वर्तत इति प्रतिबध्यतावच्छेदकत्वं विषयताया ज्ञेयम् ।
८
6
अर्थात् - ' राज्ञः पुरुषः ' इत्यादिशाब्दबोधसामग्र्यां सत्यामपि घटप्रत्यक्ष सामग्र्यां सत्यां यदि घटप्रत्यक्षेच्छा जायते तदा घटप्रत्यक्षं जायते शाब्दबोधो न जायते किं तु तदापि घटप्रत्यक्षमेव जायते पटादिप्रत्यक्षं तु नैव जायते तथा च घटप्रत्यक्षेच्छा त्रिरहविशिष्टशाब्दबोधसामग्र्या घटप्रत्यक्षं प्रति प्रतिबन्धकत्वं घटप्रत्यक्षस्य च प्रतिबध्यत्वम्. पटप्रत्यक्षेच्छाविरह विशिशाब्दबोधसामग्र्याः पट प्रत्यक्षं प्रति प्रतिबन्धकत्वं पटप्रत्यक्षस्य च प्रतिबध्यत्वम् इत्येवं पृथक् पृथगेव विशिष्य प्रतिबध्यप्रतिबन्धकमावो वक्तव्य इति ' राजस्वत्वाभाववान् पुरुषः सुन्दरः इत्याकारक प्रत्यक्षेच्छा विरह विशिष्टशाब्दबोध सामग्र्या एतत्प्रत्यक्षं प्रति प्रतिबन्धकत्वं एतत्प्रत्यक्षस्य
2
" Aho Shrutgyanam"