________________
भेदान्ययविचारः] व्युत्पत्तिवादः।
(६९) विभक्त्यर्थमन्तराकृत्य तयोरप्यन्वयबोधात् साक्षादिति । निपातातिरिक्तत्वादिविशेषणात्- ‘भूतले न घटः' 'घटो न पटः ' इत्यादौ घटादेर्नअर्थाभावेन, ‘मुखं चन्द्र इव ' इत्यादौ मुखचन्द्रादीनामिवार्थसादृश्यादिना, न कलशं भक्षयेत् ' इत्यादौ नैयायिकमते नझुपस्थाप्येन बलवदनिटाननुबन्धित्वविशिष्टेष्टसाधनत्वादिरूपविध्यर्थाऽभावेन धात्वर्थभक्षणादेरनुयोगितया. गुरुमते तु विध्यर्थाऽपूर्वाशे विशेषणतयान्वितेन नत्रुपस्थाप्याभावेन धात्वथेभक्षणादेः प्रतियोगितयान्वयेपि न क्षतिः । इत्यादौ स्वत्त्वादिसंबन्धेन शाब्दबोधवारणाय, क्रियेत्यादिव्युत्पत्तिश्च 'तण्डुलः पचति । इत्यादौ कर्मत्वादिसंबन्धेन शाब्दबोधवारणाय, तथा च निपातातिरिक्तप्रातिपदिकार्थयोर्द्वयोः परस्परं साक्षाद् भेदेनान्वयो न भवति यथा- 'राजा पुरुषः' इत्यत्र राजपुरुषयोः स्वत्वसंबन्धेन साक्षादन्वयो न भवति । क्रिया धात्वर्थः । तादृशः निपातातिरिक्तः । धात्वर्थनिपातातिरिक्तप्रातिपदिकार्थयोरपि परस्परं साक्षाद् भेदसंबन्धेनान्वयो न भवति यथा- तण्डुलः पचति ' इत्यत्र तण्डुलपाकयोः कर्मत्वसंबन्धेनान्वयो न भवतीत्यर्थः ।
स्वत्वादिसंबन्धबोधकङसादिप्रत्ययसत्त्वे तूपस्थिततदर्थद्वारा भेदसंबन्धेनान्वयो भवत्येवेति साक्षादित्युक्तं तदेवाह- विभक्त्यर्थेति । तथा च ' राज्ञः पुरुषः ' इत्यत्र सर्थ स्वत्वमन्तराकृत्य तद्वारा राजपुरुषयोर्मेदसंबन्धेनान्वयो भवत्येव राज्ञो निरूपितत्वसंबन्धेन स्वत्वे स्वत्वस्याधारतासंबन्धेन पुरुषेऽन्वयः- राजनिरूपितस्वत्ववान् पुरुष इति । एवम् ' भूतले घटः ' इत्यत्र । 'तण्डुलं पचति ' ' चैत्रेण पच्यते । इत्यादावपि विभक्त्यर्थद्वारा धात्वर्थप्रातिपदिकार्थयोर्मेदसंबन्धेनान्वयो भवत्येव ।
निपातातिरिक्तेतिविशेषणसार्थक्यमाह- निपातातिरिक्तत्वेति, निपातातिरिक्तप्रातिपदिकार्थयोर्निपातातिरिक्तप्रातिपदिकार्थधात्वर्थयोश्च भेदेन साक्षादन्वयबोधस्याऽव्युत्पन्नत्वेपि निपातार्थप्रातिपदिकार्थयोर्धात्वर्थनिपातार्थयोश्च तु भेदसंबन्धेन साक्षादन्ययो भवत्येवेत्यर्थः । तथाहि: भूतले न घटः' इत्यत्र नार्थाभावेन घटस्य स्वप्रतियोगिकत्वसंबन्धेनान्वयः- नमोनिपातत्वात्, घटप्रतियोगिकामावो भूतलवृत्तिरित्यर्थः । ' घटो न पटः ' इत्यस्य पटप्रतियोगिकभेदवान् घट इत्यर्थः,अत्र च स्वानुयोगिकत्वसंबन्धेन घटस्य स्वप्रतियोगिकत्वसंबन्धेन च पटस्यामावेन साक्षादेवान्वयः । इवपदस्यापि निपातत्वात् ' मुखं चन्द्र इव ' इत्यत्रेवार्थसादृश्येन मुखचन्द्रयोः साक्षादेवान्ययो भवति तत्र चन्द्रस्य स्वप्रतियोगिकत्वसंबन्धेन मुखस्यस्वानुयोगिकरवसंबन्धेन चान्वयः, चन्द्रप्रतियोगिकसादृश्यानुयोगि मुखमितिबोधः । एवं निपातार्थप्रातिपदिकार्थयोर्भेदसंबन्धेन साक्षादन्वयमुक्त्वा धात्वर्थनिपातार्थयोर्भेदसंबन्धेन साक्षादन्वयमुदाहरति- द कलखेति, 'न कलशं भक्षयेत्' इत्यत्र नैयायिकमते बलवदनिष्टाऽननुबन्धित्वविशिष्टेष्टसाधन त्वरूपविध्यर्थाsभावेन नत्रुपस्थाप्येन सह धात्वर्थभक्षणस्यानुयोगित्वेन रूपेण साक्षादेवान्वयः- 'कलजकमर्क
"Aho Shrutgyanam"