________________
(६८)
सादर्श:
[ प्रथमाकारकेसममेव जायते न त्वऽन्येन । सत्यपि पदार्थोपस्थितियोग्यताज्ञानादिरूपकारणकलापे 'राजा पुरुषः' 'भूतलं घटः' इत्यादौ पुरुषघटाद्यंशे राजभूतलादेः स्वत्वाधेयतासंबन्धेन, ' तण्डुलः पचति ' 'चैत्रः पच्यते ' इत्यादौ कर्मत्वकर्तृत्वादिसंबन्धेन तण्डुलचैत्रादौ पाकादेः, स्वकर्मकत्वस्वकर्तृकत्वादिसंबन्धेन पाकाधंशे वा तण्डुलचैत्रादेरन्वयाऽबोधान्निपातातिरिक्तप्रातिपदिकार्थयोः क्रियातादृश
प्रातिपदिकार्थयोश्च भेदेन साक्षादन्वयबोधस्याऽव्युत्पन्नत्वात् । त्वमेदान्वय एव यथा- 'नीलो घटः ' इत्यत्र । विभक्त्यर्थमन्तराकृत्य तु मेदान्वयोपि भवति यथा- 'राज्ञः पुरुषः ' इत्यत्र उसथस्वत्वमन्तराकृत्य राजपुरुषयोः । एवं विभक्त्यर्थमन्तराकरणं विना प्रातिपदिकधात्वर्थयोरपि साक्षाद् भेदान्वयो न भवति किं त्वमेदान्वय एव यथा'स्तोकं पचति ' इत्यत्र स्तोकपाकयोरभेदान्वयः- स्तोकाभिन्नः पाक इति । विभक्त्यर्थमन्तराकृत्य तु भेदान्वयोपि भवति यथा-' तण्डुलं पचति ' इत्यत्र विभक्त्यर्थकर्मत्वद्वारा कर्मणस्तण्डुलस्य पाके स्वकर्मकत्वसंबन्धेनान्वयः ।
विपक्षे बाधकमाह- सत्यपीति । ' राजा पुरुषः । इत्यत्र राजपदजन्यराजोपस्थितिपुरुषपदजन्यपुरुषोपस्थितियोग्यताज्ञानादिसत्त्वेपि ङस्प्रत्ययाभावेन तदर्थोपस्थित्यमावात् पुरुषविषयकराजनिरूपितस्वत्वसंबन्धान्वयबोधो न भवति । 'भूतलं घटः' इत्यत्र भूतलपदजन्यभूतलोपस्थितिघटपदजन्यघटोपस्थितियोग्यताज्ञानादिसत्त्वेपि डिप्रत्ययाभावेन तदर्थोपस्थित्यभावाद् घटविषयकभूतलनिरूपिताधेयतासंबन्धान्वयबोधः (आधेयतासंबन्धेन भूतलवान् घट इतिबोधः ) न भवति । 'तण्डुलः पचति' इत्यत्र तण्डुलपदजन्यतण्डुलोपस्थितिधातुपदजन्यपाकोपस्थितियोग्यताज्ञानादिसत्त्वेपि कर्मत्वबोधकाऽम्प्रत्ययाभावेन तदर्थोपस्थित्यभावात् कर्मत्वसंबन्धेन तण्डले पाकान्वयो न भवति, अम्प्रत्ययसत्त्वे तु तदर्थोपस्थितिसंभवाद् भवत्येव यथा- 'तण्डुलं पचति । इत्यत्र । ' चैत्रः पच्यते ' इत्यत्र चैत्रपदजन्यचैत्रोपस्थितिधातुपदजन्यपाकोपस्थितियोग्यताज्ञानादिसत्त्वेपि कर्तृत्वबोधकतृतीयाविभक्त्यभावेन तदर्थोपस्थित्यभावात् कर्तृत्वसंबन्धेन चैत्रे पाकान्वयो न भवति, तृतीयासत्त्वे तु भवत्येव यथा- ' चैत्रेण पच्यते । इत्यत्र । स्वकमकत्वेति- 'तण्डुलः पचति । इत्यत्रोक्तोपस्थितियोग्यताज्ञानादिसत्त्वेपि द्वितीयाविभक्तिजन्यतदर्थोपस्थित्यभावात् स्वकर्मकत्वसंबन्धेन पाके तण्डुलान्त्रयोपि न भवति, द्वितीयासत्त्वे तु भवत्येव यथा-'तण्डुलं पचति ' इत्यत्र । 'चैत्रः पन्यते ' इत्यत्राप्युक्तोपस्थितियोग्यताज्ञानादिसत्त्वेपि तृतीयाविभक्तिजन्यतदर्थोपस्थित्यभावात् स्वकर्तृकत्वसंबन्धेन पाके चैत्रान्वयोपि न भवति, तृतीयासत्त्वे तु भवत्येव यथा- ' चैत्रेण पच्यते । इत्यत्र चैत्रकर्तृकत्वसंबन्धेन चैत्रवान् पाक इत्यन्वयः। ___ एवम् ' राजा पुरुषः । इत्यादौ भेदलक्षणेन स्वत्वादिसंबन्धेनान्वयबोधानुत्पत्तेर्भेदान्धयबोधामावनियामकस्वरूपमाह- निपातातिरिक्तेति, निपातातिरिक्तेतिव्युत्पत्तिः 'राजा पुरुषः,
"Aho Shrutgyanam"