________________
'भेदान्वयविचारः ]
व्युत्पत्तिवादः ।
(६७)
भेदान्aratara प्रातिपदिकार्थधात्वर्थयोः प्रत्ययार्थेन कचिन्निपातार्थेन च
नापेक्षा नास्ति । अत्र हेतुमाह - तद्धर्मभेदस्येति, तद्धर्मभेदनिष्ठया एककारणतयैव = " तद्धर्मान्यवृत्तिविषयता संबन्धेन ज्ञानं प्रति तद्धर्ममेदस्य हेतुत्वात् " इत्युक्तेनैकेनैव कार्यकारणभावेन सकलातिप्रसङ्गानाम्=' घटो घटः दण्डवान् दण्डवान् इत्यादौ शाब्दबोधापत्तीनां वारणसंभवादित्यर्थः ।
76
॥ इत्यभेदान्वयव्युत्पत्तिवादादर्शः समाप्तः ॥
“
अभेदान्वयबोधप्रकारं निरूप्य संप्रति मेदान्वयबोधप्रकारं वक्तुमुपक्रमते- भेदान्वयेत्यादिना । भेदसंसर्गावच्छिन्ननामार्थनिष्ठप्रकारता निरूपित विशेष्यतासंबन्धेन शाब्दबुद्धित्वावच्छिन्नं प्रति विभक्तिनिपातान्यतरजन्योपस्थितिः कारणं तथा च 'राज्ञः पुरुषः' इत्यत्र राजपुरुषयोर्भेदलक्षणः स्वस्वाभाव: संबन्धः किं वा राज्ञः पुरुषे भेदलक्षणः स्वत्वसंबन्ध इति भेदसंबन्धावच्छिन्नराजत्वा - वच्छिन्नप्रकारतानिरूपितपुरुषत्वावच्छिन्नविशेष्यताकशाब्दबोधं प्रति उविभक्तिजन्य तदर्थोपस्थितिः कारणमस्ति अत एव राजा पुरुषः ' इत्यत्र इसऽभावेन तदर्थोपस्थित्यभावान्न तादृशो भेदसंसर्गकः शाब्दबोधः । एवम् 'घटो न पटः इत्यत्र घटपटयोः प्रतियोग्यनुयोगिभावलक्षणो भेदसंबन्धोस्ति, किं वा घटे पटस्य स्वप्रतियोगिकभेदविशिष्टत्वं संबन्धरित पटप्रतियोगिक भेदवान् घट इति स्वार्थस्तथा चात्र भेदसंबन्धावच्छिन्न पटत्वावच्छिन्नप्रतियोगिताकभेदत्वावच्छि प्रकारतानिरूपितघटत्वावच्छिन्नविशेष्यताकशाब्दबोधं प्रति नञ्पदजन्यतदर्थोपस्थितिः कारणमस्तीति कार्यकारणभावमभिप्रेत्याह- प्रातिपदिकेत्यादिना ।
3
6
प्रातिपदिकार्थस्य प्रत्ययार्थेन कचिन्निपातार्थेनैव च सह भेदान्वयो जायते यथा- तण्डुलं पचति, इत्यत्र प्रातिपदिकार्ये तण्डुलस्याऽम्प्रत्ययाथैकर्मत्वे आधेयतालक्षणेन भेदसंबन्धेनान्वय आधेयतासंबन्धेन तण्डुलवती कर्मता' इति बोधात् । 'चन्द्र इव मुखम्' इत्यत्र च निरूपितत्वलक्षणेन भेदसंबन्धेन प्रातिपदिकार्थस्य चन्द्रस्य इवनिपातार्थसादृश्येन सहान्वयः, सादृश्यस्य चाधारतासंबन्धेन मुखेन सहान्वयः - चन्द्रनिरूपितसादृश्यवन्मुखमितिबोधात् । एवं धात्वर्थ-प्रत्ययार्थेन चिन्निपातार्थेनैव च सह भेदान्वयो जायते यथा- 'तण्डुलं पचति ' इत्यत्र धात्वर्थपाकस्यानुकूलता संबन्धेनाख्यातार्थ ( प्रत्ययार्थ ) कृत्या सहान्वयः पाकानुकूला कृतिरितिबोधात, तादृशप्रत्ययार्थकृतेश्वाधारता संबन्धेन कर्त्रा सहान्वयः - पाकानुकूलकृतिमान् देवदत्त इति । न कलअं भक्षयेत् ' इत्यत्र च धात्वर्थभक्षणे विध्यर्थभूतं यद्वलवदनिष्टाननुबन्धित्वविशिष्टेष्टसाधनत्वं तदभावस्य निपातनमर्थस्यानुयोगितासंबन्धेनान्वयः - बलवदनिष्टाननुबन्धित्वविशिष्टेष्टसाधनत्वाभाववत्कलञ्जभक्षणमिति बोधात् । गुरुमते तु - कलजभक्षणाभाववत् postपूर्वमुत्पादयेदिति बोधः । नत्वऽन्येन = प्रत्ययनिपातार्थातिरिक्तेन प्रातिपदिकार्थेन धात्वर्थेन चेत्यर्थः । विभक्त्यर्थमन्तराकरणं विना प्रातिपदिकार्थयोः साक्षाद् भेदान्वयो न भवति किं
6
"Aho Shrutgyanam"