________________
( ६६ )
सादर्श:
[ प्रथमाकार के
anistarataवारणाय कर्मत्वत्वाद्यवच्छिन्नावच्छेदकता काऽऽधेयतासंबन्धावचित्रकारतानिरूपितधर्मितावच्छेदकता संबन्धेन शाब्दबोधे कर्मत्वत्वादिभेदस्य, * घटो न घट:' इत्याद्यनुमितेः शाब्दबोधस्य च वारणाय घटत्वावच्छिन्नभेदमकारतानिरूपितधर्मितावच्छेदकता संबन्धेनानुमितौ शाब्दबोधे च घटत्वादिभेदस्य हेतुत्वान्तरकल्पनमनादेयमेव तद्धर्मभेदस्यैककारणतयैव सकलातिप्रसङ्गवारण संभवादिति कृतं पल्लवितेन ॥ इत्यभेदव्युत्पत्तिवादः ॥
$
-
'कर्म गच्छति' इत्यत्र प्रकृतिभूतकर्मपदस्य कर्मत्वावच्छिन्ने शक्तिः कर्मपदोत्तरलुप्त द्वितीयायाः कर्मस्वत्वावच्छिन्ने कर्मत्वे शक्तिस्तथा च प्रत्ययार्थस्य प्राधान्यात कर्मत्वत्वावच्छिने द्वितीयार्थकर्मुखे आधेयतासंबन्धेन ( कर्मत्वे आत्रेयत्वमस्ति ) लद्वतः कर्मत्ववतः कर्मत्वावच्छिन्नकर्मपदवाच्यकर्मपदार्थस्य मेदान्वयबोधवारणाय कर्मत्वत्वावच्छिन्नाव-छेदकता काधेयता संबन्धावच्छिन्नप्रकारतानिरूपितधर्मितावच्छेदकतालक्षणसंबन्धेन कर्मत्वत्वनिष्ठेन शाब्दबोधं प्रति कर्मत्वस्वभेदस्य पृथग् हेतुत्वकल्पनापेक्षा नास्ति - उक्तनियमेनैवोक्तशाब्दबोधवारणसंभवात् शाब्दबोधाश्रयत्वेनाभिमतधर्मितावच्छेदकस्य कर्मत्वत्वस्य प्रकारतावच्छेदकतावच्छेदकस्य च कर्मत्वत्वस्यैक्येन भेदाभावात् । यथा एकः ' इत्यत्रोद्देश्यतावच्छेदकस्य विधेयस्य चैकत्वस्यैक्यानोक्तशाब्दबोध इष्टस्तथात्र विशेष्यतावच्छेदकस्य प्रकारतावच्छेदकतावच्छेदकस्य कर्मत्वत्वस्यैक्येन भेदाभावादुक्तशाब्दबोधापत्तिवारणं कृतम् । कर्मत्वश्वेति- कर्मश्वत्वावच्छिन्ना या कर्मत्वनिष्ठाऽवच्छेदकता तादृशावच्छेदनावच्छिन्ना याssधेयत्व संबन्धावच्छिन्ना कर्मनिष्ठा प्रकारता तादृशप्रकारतानिरूपिता या ..कता निष्ठा धर्मिता तादृशधर्मितानिरूपिता या कर्मतास्वनिष्ठा भवच्छेदकता तादृशावच्छेदकतासंबन्धेन ( कर्मता शाब्दबोधे जबनीये ) इत्यन्वयः । " कर्मत्वत्वादिमेदस्य " इत्यस्यापि हेतुत्वान्तरकल्पनमनादेयम्" इत्यग्रिमवाक्येन सहान्वयः ।
"
£6
घटो न वटः ' इत्यत्र धर्मी घटस्तत्र प्रकारो घटभेदः प्रकारतावच्छेदको घटः प्रकारतावच्छेदकतावच्छेदकं घटत्वं धर्मितावच्छेदकमपि घत्वमेव । घटे समवायेन घटत्वं प्रकार : घटभेदे घटत्वावच्छिन्नप्रतियोगिताकत्वसंबन्धेन घटः प्रकारः स च भेदः स्वरूप संबन्धेन घंटे विशेष्ये प्रकार इतिपदार्थनिर्देशः । घटे च घटभेदो न भवतीत्यत्र शाब्दबोधस्यानुमितेश्च ( घंटे घटमेदानुमितेः ) वारणाय घटत्वनिष्ठेन घटत्वावच्छिन्न मेदनिष्ठप्रकारता निरूपितधर्मितावच्छेदकता लक्षणसंबन्धेन शाब्दबोधं प्रति घटत्वभेदस्य पृथग् हेतुत्वकल्पनापेक्षा नास्ति - उक्त नियमेनैव वारणसंभवाद् धर्मितावच्छेदकं प्रकारतावच्छेदकतावच्छेदकं चैकं घटत्वमेव घटखे च घटत्वभेदाभावात् तद्धर्मान्यवृत्तिविषयतासंबन्धेन ज्ञानसामान्यं प्रति तद्धर्मभेदस्य हेतुत्वादनुमितेरपि वारणं जातमि - त्यर्थः । घटत्वावच्छिन्नेति - घटत्वावच्छिन्नभेदः - घटत्वावच्छिन्न प्रतियोगिताकमेदस्तन्निष्ठा या प्रकारता तादृशप्रकारता निरूपिता या घटनिष्ठा धर्मिता तादृशधर्मितावच्छेदकं घटत्वं घटत्वनिष्ठा यैषा धर्मितावच्छेदकता तादृशसंबन्धेनेत्यन्वयः । हेतुत्वान्तरकल्पनमनादेयम् = पृथक् हेतुस्वकरूप
"Aho Shrutgyanam"