________________
अभेदान्वयवि० ] व्युत्पत्तिवादः।
(६५) च्छिन्नसमवायादिसंसर्गावच्छिन्नमकारतानिरूपितविशेष्यतानिरूपितसमवायादिसंसर्गावच्छिन्नावच्छेदकतावच्छेदकत्वादिसंबन्धेन शाब्दबुद्धौ एकत्वत्व द्वित्वत्वादिभेदस्य,
एवम् ‘कर्म गच्छति' इत्यादौ च कर्मत्वत्वाद्यवच्छिन्ने आधेयतासंबन्धेन स्वावच्छिन्ने एकव्यक्तिभूतवटादौ एकपदोत्तरप्रथमार्थेकत्वरूपसंख्याया भेदान्वयः स्यादित्यत्रोद्देश्यतावच्छेदकविधेययोरैक्येन एकत्वावच्छिन्ने एकत्वस्य यो भेदान्वयबोधः प्राप्तस्तस्यानुदयात्=ताह. शभेदान्वयबोधोत्पत्तेरनिष्टत्वात् तद्वारणायेदानी एकत्वत्वनिष्ठेन एकत्वत्वावच्छिन्नसमवायसंबन्धाव. च्छिन्नप्रकारतानिरूपित विशेष्यतानिरूपितसमवायसंबन्धावच्छिन्नावच्छेदकतावच्छेदकत्वलक्षणसंबन्धेन शाब्दबोधं प्रति एकत्वत्वभेदस्य पृथग् हेतुत्वकल्पनापेक्षा नास्ति- उक्तनियमेनैवोक्तशाब्द. बोधवारणसंभवात्, एकत्वत्वस्य परस्परं भेदाभावात् । वस्तुतस्तु शाब्दबोधसंबन्धस्यैव एकत्वत्वान्यवृत्तित्वं नास्ति-एकत्वत्ववृत्तित्वादेवेति नात्र एकत्वावच्छिन्नव्यक्तौ प्रथमार्थैकत्वस्य समवायेनान्वयबोधापत्तिः, भवति च 'एकः' इतिप्रयोग इति संख्यावाचकैकादिपदोत्तरवर्तमानविभक्तनिरर्थकत्वमेव(इदं चाग्रेसंख्यान्वयविचारस्थलेद्रष्टव्यम् तथा च प्रकृतिभूतैकपदेनैवैकत्वेन रूपेण घटादिव्यक्तरुपस्थितिर्भवतीति विज्ञेयम् । एवम् 'द्वौ' इत्यत्रापि उद्देश्यतावच्छेदकं द्वित्वं विधेयमपि द्वित्वं विभक्त्यर्थः 'द्वित्ववान् द्वित्ववान्' इत्यर्थस्तत्रोद्देश्यतावच्छेदकविधेययोरैक्येन द्वित्वावच्छिन्ने व्यक्तिद्वये द्विवचनार्थद्वित्वसंख्याया यो भेदान्वयबोधः प्राप्तस्तस्यानुदयात्=तादृशभेदान्वयबोधोत्पत्तेरनिष्ट स्वात् तद्वारणाय द्वित्वत्वनिष्ठेन द्वित्वत्वावच्छिन्नसमवायसंबन्धावच्छिन्नप्रकारतानिरूपितविशेष्यतानिरूपितसमवायसंबन्धावच्छिन्नावच्छेदकतावच्छेदकत्वलक्षणसंबन्धेन शाब्दबोधं प्रति द्वित्वत्वभेदस्य पृथग् हेतुत्वकल्पनापेक्षा नास्ति- उक्तनियमेनैवोक्तशाब्दबोधवारणसंभवात्, द्वित्वत्वस्य परस्परं भेदाभावादेकत्वादिति नात्र द्वित्वावच्छिन्नव्यक्तौ द्विवचनार्थद्वित्वस्य समधायेनान्वयबोधापत्तिः, भवति च 'द्वौ ' इति प्रयोग इति द्विवचनं निरर्यकमेव तथा च प्रकृतिभूतद्विपदेनैव द्वित्वेन रूपेण द्वित्वविशिष्टरूपेण वा घटादिव्यक्तरुपस्थितिर्भवति । एकत्वत्वेति- एकत्वत्वावच्छिन्ना तथा समवायसंबन्धावच्छिन्ना या विभक्त्यर्थैकत्वनिष्ठा प्रकारता ताहशप्रकारतानिरूपिता या एकपदवाच्यव्यक्तिनिष्ठा विशेष्यता तादृशविशेष्यतानिरूपिता तथा समवायसंबन्धावच्छिन्ना या एकरवनिष्ठा अवच्छेदकता ( उक्तविशेष्यतावच्छेदकता ) तदवच्छेद. कत्वं एकत्वत्वे इत्येकत्वत्वनिष्ठं यद्विशेष्यतावच्छेदकतावच्छेदकत्वं तेन संबन्धेनेत्यन्वयः । एवम् 'द्वौ ' इत्यत्र एकपदस्थाने द्विपदं निवेश्यान्वयो विज्ञेयः । " एकत्वत्वद्वित्वत्वादिभेदस्य " इत्यस्य " हेतुत्वान्तरकल्पनमनादेयमेव ॥ इत्यग्रिमवाक्येन सहान्वयः।।
'ग्रामं गच्छति । इत्यत्र शाब्दबोध इष्टस्तत्र ग्राम आधेयतासंबन्धेन द्वितीयार्थकर्मतायां प्रकारः, प्रकारतावच्छेदकं प्रामत्वम्, कर्मता विशेष्यं विशेष्यतावच्छेदक कर्मतास्वम् । प्रामस्य कर्मपदार्थत्वेन कर्मपदवाच्यत्वेपि 'कर्म गच्छति । इति प्रयोगस्तु नेष्ट इत्याशयेनाह- एवमिति,
"Aho Shrutgyanam"