________________
(६४)
सादर्शः
| प्रथमाकारकेएवं च घट्वान् घटवान्' इत्यादिशाब्दबोधवारणानुरोधेन धर्मितावच्छेदकतावच्छेदकादिनिष्ठप्रत्यासत्या कारणत्वान्तरमपि न कल्प्यते ।
समुद्देश्यतावच्छेदकविधेययोरैक्येन 'एक' 'दौ' इत्यादिवाक्यादेकत्वादिवाद्यवच्छिन्ने एकत्वद्वित्वादीनां भेदान्वयबोधानुदयाद् एकत्वत्वद्वित्वत्वाद्यवस्त्येवेति नाऽभेदान्वयबोधापत्तिः। तद्धर्मान्यवृत्तिविषयतासंबन्धेन हानसामग्री च न केवलं तद्धर्मभेद एव किं तु संबन्धभूतविषयतायास्तद्र्र्मान्यवृत्तित्वमपीति ज्ञेयम् । अयं भावः- तद्धर्मान्यत्तिविषयतासंबन्धेन ज्ञानं प्रति केवलतभेदस्य सामग्रीस्वस्वीकारे यत्र तद्धर्मान्यवृत्तिविषयतासंबन्धेन ज्ञानमापादनीयं भविष्यति तत्रैव तद्धर्मभेदस्य हेतुत्वं भविष्यति यथा- 'द्रव्यं घटः' इत्यादी. 'घटो घटः । इत्यत्र तु तद्धर्मान्यवृत्तिविषयतासंबन्धेन झानमापादनीयमेव नास्ति येनाऽभेदान्वयबोधानुपपत्तिः स्यात्. किं तु तद्धर्मवृत्तिविषयतासंबन्धेनैद ज्ञानमापादनीयमस्तीति 'घटो घटः' इत्यत्राऽभेदान्वयबोधं प्रति तद्धर्मभेदस्यापेक्षाभावात् तद्धर्मभेदाभावेप्यभेदान्वयबोधः स्यादेवेति तदापत्तिपरिहाराय ज्ञानसंबन्धभूताया विषयतायास्तद्धर्मान्यवृत्तित्वमपि सामग्रीकुक्षौ निवेशनीय तथा च 'घटो घटः' इत्या घटत्वे एवं ज्ञानमापादनीयं घटत्वनिष्ठावाश्च विशेष्यतावच्छेदकताख्ययत्ता : ज्ञानसंबन्धभूतायास्तद्धर्मान्यवृत्तित्व हेतुभूतं नास्त्येव- प्रकारतावच्छेदकघटत्ववृतित्वेन
भावादिति नात्र ज्ञानस्य तद्व्याप्याऽभेदान्वयबोधस्य चापत्तिः । उक्तनियमेन लाघवान्तरमाह-एवं चेति । एवं च तद्धर्मान्यवृत्तिविषयतासंबन्धेन ज्ञानं प्रति तद्धर्मभेदत्वेन हेतुत्वाङ्गीकारे च 'घटवान् घट्वान्' इत्यत्राभेदान्वयबोधवारणायाभेदान्वयबोधं प्रति तद्धर्मभेदस्य पृथग् हेतुत्वकल्पनापेक्षा नास्ति,- अत्र हि घटवानेव विशेष्यः प्रकारच, तत्र घटवान् 'धर्मी धर्मितावच्छेदको संटः धर्मितावच्छेदकतावच्छेदकं घटत्वमिति धर्मितावच्छेदकतावच्छेदकं यद् घटत्वं तनिष्ठा या धर्मितावच्छेदकंतावच्छेदकतारूपा प्रत्यासत्तिः संबन्धस्तेन घटत्वे शाब्द. बोधे जननीये तद्धर्मभेदस्य हेतुत्वमस्ति नास्ति चात्र तद्धर्मभेद एकस्य घटत्वस्यव विशेष्यता (धर्मिता ) वच्छेदकतावच्छेदकत्वात् प्रकारतावच्छेदकतावच्छेदकावाञ्चेत्यर्थः । एवम् 'दण्डवान् दण्डवान्' इत्यत्रापि दण्डत्वे विशेष्यतावच्छेदकतावच्छेदकतावच्छेदकत्वप्रत्यासस्या शाब्दबोधे जननीये तद्धर्मभेदस्य हेतुत्वमस्ति नास्ति चात्र तद्धर्मभेदः- एकस्य दण्डत्वस्यैव विशेष्यतावच्छेदकतावच्छेदकतावच्छेदकत्वात् प्रकारतावच्छेदकतावच्छेदकतावच्छेदकत्वाचेत्यर्थः ।
एवमिति- 'एकः' इत्यत्रैकपदवाच्या एकत्वेन घटादिव्यक्तिरेव एकपदोत्तरवर्तमानविभक्तेरप्येकत्वमर्थ इति विभक्तेः सार्थकत्वे 'एकः' इत्यस्य 'एकत्यवान् एकत्ववान्' इत्यर्थः स्यात् ( प्रथम एकत्ववानिति प्रकृतेरों द्वितीय एकत्ववान् इति विभक्तरर्थः ) तत्रैकत्ववती घटव्यक्तिमुद्दिश्यकत्वविधानाद् उद्देश्या एकव्यक्तिरुद्देश्यतावच्छेदकमेकावं विधेयमप्येकत्वमेव स्यात् तथा चात्रोदेश्यतावच्छेदकस्य विधेयस्य चैत्य प्राप्त उद्देश्यभूतव्यक्तावेवादिसंख्याया अन्वयश्च समवायसंबन्धेन भवति समवायश्च भेदसंबन्ध एव. एवं च एकः' इतिवाक्यात् प्रकृतिभूतैकपदवाच्ये एक.
"Aho Shrutgyanam"