________________
अभेदान्वयविचारः ]
व्युत्पत्तिवादः ।
( ६३ )
एवं च घटत्वाद्यवच्छिन्नप्रकारतानिरूपितविशेष्यतावच्छेदकता संबन्धेन शादबोधं प्रति घटत्वाद्यन्य वृत्तिविषयता संबन्धेन ज्ञानत्वाद्यवच्छिन्नस्य व्यापकतथा घटत्वादौ तादृशविषयतासंबन्धेन ज्ञानत्वावच्छिन्नोत्पादक सामग्रीविरहेण न तत्र चादृशविशेष्यतावच्छेदकतासंबन्धेन शाब्दबोधापत्तिः ।
'द्रव्यं घटः " इत्यत्र घटत्वे शाब्दबोधे जननीये तद्धर्मपदेन घटत्वान्यद् द्रव्यत्वं ग्राह्यमऽन्यपदेन द्रव्यत्वान्यद् घटत्वं ग्राह्यम् । विषयतापदेन च शाब्दबोधाधिकरणीभूतपदार्थे यादृशी विषयता स्यात् सा ग्राह्मा यथा - विशेष्यतारूपा विशेष्यतावच्छेदकतारूपा विशेष्यतावच्छेदकतावच्छेदकतारूपा इत्यादि तथा प्रकारतारूपा प्रकास्तावच्छेदकतारूपा प्रकारतावच्छेदकतावच्छेदकतारूपा इत्यादितथा च 'द्रव्यं घटः' इत्यत्र घटत्वान्यद् यद् द्रव्यत्वं तस्मिन् तन्निष्ठविशेष्यतावच्छेदकताख्यविषयतासंबन्धेन शाब्दबोधे जननीये तद्धर्मभेदस्य घटत्वमेदस्य हेतुत्वं प्राप्तमऽस्ति चात्र घटत्वद्रव्यत्वयोर्भेद इत्यभेदान्वयबोधे न काप्यनुपपत्तिः । तथा प्रकारतावच्छेदकताख्य विषयता संबन्धेन घटत्वेप्यभेदान्वयबोधेऽनुपपत्तिर्नास्ति - द्रव्यत्वघटत्वयोर्भेदात् । 'घटो नीलघट : ' इत्यत्रापि घटत्वनी
योर्भेदस्वीकारे त्वभेदान्वयबोधोऽनेन नियमेनापि संभवति भेदास्वीकारे पूर्व शाब्दबोधप्रकार उपपादित एव । 'घटो घट:' इत्यत्र घटत्वेऽभेदान्वयबोधस्तु न संभवति तद्धर्मभेदाभावात् - घटस्वस्यैव प्रकारतावच्छेदकत्वाद् विशेष्यतावच्छेदकत्वाच्चेति सर्वे सुस्थम् ।
स्वयमपि 'घटो घटः' इत्यत्रोक्तनियमेनाभेदान्त्रयबोधापत्त्यभावमाह एवं चेति । एवं च "तद्धर्मान्यवृत्तिविषयतासंबन्धेन" इति नियमे कृते । 'घटो घटः' इत्यत्र घटस्यैव प्रकारत्वाद् विशेष्यत्वाच घटत्वावच्छिना या घटनिष्ठा प्रकारता तन्निरूपिता या घटनिष्ठा विशेयता तदवच्छेदकत्वं घटत्वे इति घटत्वनिष्ठविशेष्यतावच्छेदकतासंबन्धेन शाब्दबोधे जननीये शाब्दबोधव्यापकस्य ज्ञानखावच्छिन्नज्ञानस्य सामग्री अपेक्षिता भवति सा च सामग्री तद्धर्मभेद एव, 'घटो घट:' इत्यत्र च तद्धर्मभेदरूपा सामग्री नास्तीति नाऽभेदान्वयबोधापत्तिरित्यर्थः । यत्र घटत्वे विशेष्यतावच्छेदकता मंबन्धेन शाब्दबोध आपादनीयस्तत्र घटत्वे घटत्वान्यत्वमेव नास्ति येन तद्धर्मान्यवृत्तिविषयतायाः संबन्धत्वं तादृशसंबन्धेन शाब्दबोधश्व स्यादिति भावः । तादृशविवयता संबन्धेन वदस्वान्यवृत्तिविषयतासंबन्धेन । ज्ञानत्वावच्छिन्नोत्पादकसामग्री - तद्धर्ममेदः, ज्ञा नाधिकरणीभूतार्थे तदन्यत्वं चेति । तत्र = 'घटो घटः ' इत्यत्र | तारशविशेष्यतावच्छेदकतासंबन्धेन घटत्वनिष्ठ विशेष्यतावच्छेदक संबन्धेन ।
'तद्धर्मान्प्रवृत्तिविषयता संबन्धेन शाब्दबोधं प्रति तद्धर्मभेदस्य कारणत्वम्' इत्युक्ते 'घटो घटः ' इत्यत्र तद्धर्मान्यवृत्तिविषयतासंबन्धेन शाब्दबोधस्येष्टत्वाभावात् तद्धर्मभेदाभावेपि पुनरप्यमेवसबोधापत्तिः स्यादेवेति शाब्दबोधव्यापकीभूतज्ञानं प्रति तद्धर्ममेदस्य हेतुत्वमुक्तं तथा च व्याप्यकार्य प्रति व्यापककार्यसामग्र्या अपेक्षानियमात् 'घटो घट:' इत्यत्राभेदान्वयबोधे जननीये तद्धर्मान्य वृत्तिविषयत (संबन्धेन व्यापकीभूतज्ञानस्य सामन्या अपेक्षा प्राप्ता सा च सामन्यत्र ना
"Aho Shrutgyanam"