________________
यावच्छब्दघटितप्रयोगविचारः] व्युत्पत्तिवादः ।
( ३७९) भावानधिकरणत्वसंबन्धेन स्वावच्छिन्नभेदस्यैव प्रागभावसंबन्धे निवेशनीयत्वात् । स्वाधिकरणनिष्ठाभावप्रतियोगितानवच्छेदकत्वमाप तादृशावच्छेदकत्व. भेदः कृष्णनवमीप्रागभावावच्छिन्नप्रतियोगिकभेदः प्रविष्टस्तस्य तत्र ‘दशमीप्रागभावसंबन्धे स्वावच्छिन्न दशमीप्रागभावावच्छिन्नकृष्णनवमीप्रागभावानधिकरणत्वसंबन्धेनैव निवेशः कर्तव्यस्तथा चाश्विनकृष्णाष्टम्यादिषु दशमीप्रागभावावच्छिन्नभाद्रकृष्णनवमीप्रागभावानधिकरणत्वस्य सत्त्वेपि दशमीप्रागभावावच्छिन्नाश्विनकृष्णनवमीप्रागभावाधिकरणत्वमप्यस्तीत्याश्विनकृष्णाष्टम्यादयो न प्राह्या अभिप्रेताश्विनकृष्णनवम्यादिषोडशतिथिषु तु दशमीप्रागभावावच्छिन्नकृष्णनवमीप्रागभावानधिकरणत्वमस्त्येवेत्येतादृशसंबन्धेन तासु स्वावच्छिन्नभेदः कृष्णनवमीप्रागभावावच्छिनप्रतियोगिकभेदः संभवतीति तादृशभेदसंबन्धेन तासु स्वाधिकरणत्वम्-दशमीप्रागभावाधिकरणत्वं संभवत्येव, तासु पूजासंबन्धस्य च सत्त्वात् पूजायां तादृशषोउशतिथिव्यापकत्वमप्यस्त्येवेति न कोपि दोषः । यद्यप्यभिप्रेतषोडशतिथिष्वपि कार्तिककृष्णनवमीप्रागभावाधिकरणत्वमस्ति तथापि दशमीपदेनाश्विन शुक्लदशमीग्रहणात् तादृशदशमीप्रागभावाधिकरणत्वं तु कार्तिककृष्णनवम्यां नास्त्येवेति तादृशदशमीप्रागभावाधिकरणभूता कृष्णनवमी आश्विनकृष्णनवम्येव ग्रहीतुं शक्यते । भाद्रादिकृष्णनवमीपरिहारोपायस्त्वनुपदमेवोक्तः ।
ननु यदुक्तम्- “ व्यापकत्वं च स्वाधिकरणतिथिनिष्ठाभावप्रतियोगितानवच्छेदकपूजाविशेषस्ववत्त्वम् " इति तत्र नञोऽत्यन्ताभाववद् भेदबोधकत्वमप्यस्तीत्यनवच्छेदकपदेन ' पूजावे स्वाधिकरणतिथिनिष्ठाभावप्रतियोगितावच्छेदकत्वं नास्ति' इत्याकारकास्यन्ताभावो ग्राह्यः किं वा 'पूजात्वं स्वाधिकरणतिथिनिष्ठाभावप्रतियोगितावच्छेदकं न ' इत्याकारकभेदो ग्राह्य इत्याश
क्य भेदग्रहणेन परिष्करोति- स्त्राधिकरणनिष्ठेति, स्वं दशमीप्रागभावः । व्यापकत्वलक्षणे यत "स्वाधिकरणतिथि निष्ठाभावप्रतियोगितानवच्छेदकत्वम् " इत्युक्तं तदपि तत्रापि नआ मेद एव ग्राह्यः स च भेदः तादृशावच्छेदकत्वसंबन्धेन दशमीप्रागभावाधिकरणतिथिनिष्ठाभावप्रतियोगितावच्छेदकत्वसंबन्धेन स्वावच्छिन्नस्य-दशमीप्रागभावावच्छिन्नस्य भेदो ग्राह्य इत्यन्वयः, तथा च दशमीप्रागभावाधिकरणाभिप्रेतषोडशतिथिषु पूजाया अभावो नास्तीति पूजात्वे दशमीप्रागभावाधिकरणाभिप्रेततिथिनिष्ठाभावप्रतियोगितावच्छेदकत्वं नास्त्येव. गगनस्य चावृत्तिपदार्थत्वात् ताहशतिथिष्वऽभावोरत्येवेति गगनत्वे दशमीप्रागभावाधिकरणतिथिनिष्ठाभावप्रतियोगितावच्छेदकत्वमस्त्येवेति तेन संबन्धेन गगनखे दशमीप्रागभावोपि संभवतीति गगनत्वस्योक्तसंबन्धेन दशमीप्रागभावावच्छिन्नत्वं प्राप्तमित्युक्तसंबन्धेन स्वावच्छिन्नस्य दशमीप्रागभावावच्छिन्नस्य गगनत्वस्य भेद उक्तपूजाविशेषत्वेऽस्त्येवेति तादृशमेदवत्त्वमेव पूजात्वेऽभावप्रतियोगितानवच्छेदकत्वं ज्ञेयं तथा च ‘दशमीप्रागभावाधिकरणतिथि निष्ठाभावप्रतियोगितावच्छेदकरवसंबन्धेन दशमीप्रागभावावच्छिन्नं न ' इत्याकारकभेदवत्त्वमेव पूजात्वे व्यापकतावच्छेदकत्वं लब्धमित्यर्थः । एवं भेदनि
"Aho Shrutgyanam"