________________
( ३८०)
सादर्श:- [द्वितीयाकारकद्वितीयखण्डेसंबन्धेन स्वावच्छिन्नस्य भेदः, अतस्तादृशावच्छेदकत्वत्वावच्छिन्नाभावनिवेशे यकिंचिदशमीप्रागभावाधिकरणनिष्ठाभावप्रतियोगितावच्छेदकत्वमादायाऽम. सिद्धिवारणाय विशिष्य तत्तत्प्रागभावरूपस्वपदार्थस्य संबन्धमध्ये प्रवेश्यतया. ऽननुगम इति निरस्तम् ।
देशरूपा सीमाः च 'काशीतः कौशिकी यावद् याति ' इत्यादौ, तत्र कौशिक्या गमनसीमात्वं प्रतीयते तच्च काशीपूर्वकौशिकीपश्चिमदेशव्यापकगमनानधिकरणत्वम् । यावत्पदेन च कौशिक्यनधिकरणत्वे सति काशीपूर्वकौशिकीपश्चिमदेशव्यापकत्वं गमने प्रत्याय्यते । तत्र द्वितीयार्थोऽवधित्वमवधिमत्त्वं वा प्रतीच्याद्यान्वयि । निष्कर्षः पूर्ववत् स्वयमूहनीयः ।। वेशस्य फलमाह- अत इति, उक्तव्यापकत्वलक्षणे अनवच्छेदकेतिपदघटितनमाऽत्यन्ताभावनहणतात्पर्येण तादृशावच्छेदकत्वत्वावच्छिन्नाभावनिवेशे नाम यदि दशमीप्रागभावाधिकरणतिथिनिष्ठाभावप्रतियोगितावच्छेदकत्वाऽत्यन्ताभावस्य निवेशः स्यात् तदा यत् किंचिदशमीप्रागभावाधिकरणभूता श्रावणादिदशमीप्रागभावाधिकरणभूता या तिथिस्तस्यां पूजाया अभावादेव तादृशतिथिनिष्ठाभावप्रतियोगितावच्छेदकत्वमेव पूजावे प्राप्तं न तु तादृशतिथिनिष्ठाभावप्रतियोगितावच्छेदकत्वाभाव इति तादृशतिथिनिष्ठाभावप्रतियोगितावच्छेदकत्वेन पूजात्वे व्यापकतावच्छेदकत्वस्याऽप्रसिद्धिरेव स्यात्- अत्यन्ताभावनिवेशे तादृशतिथिनिष्ठाभावप्रतियोगितावच्छेदकत्वाभावस्यैव व्यापकत्वपदार्थत्वात् तस्य चाभावस्य पूजात्वे उक्तरीत्या बाधात् । एतद्दोषपरिहाराय यदि स्वाधिकस्मेत्यत्र स्वपदार्थस्य दशमीप्रागभावस्य तत्तद्दशमीप्रत्गमावरूपेण निवेशः कृतः स्यात्तदाऽऽश्विन शुक्लदशम्या एव ग्रहणेन यत्किंचिद्दशमीग्रहणासंभवाद् उक्त दोषे निवृत्तेपि तत्तदशमीप्रागभावस्य संबन्धमध्ये प्रवेशेनाऽननुगमः स्यादिति दोषः स्यादिति निरस्तम्- उक्तव्यापकत्वलक्षणे उक्तनजोकभेदस्य ग्रहणेनाऽत्यन्ताभावस्थाऽग्रहणात् । ना भेदग्रहणे च दशमीप्रागभावाधिकरणतिथिनिष्ठाभावप्रतियोगितावच्छेदकत्वसंबन्धेन यावद्दशमीप्रागभावावच्छिन्नमगनत्वस्थ भेदः पूजात्वे प्राप्स्यत्येवेति न पूजात्वे व्यापकतावच्छेदकत्वाप्रसिद्धिशङ्कापि संभवति- तादृशभेदवत्त्वस्यैवात्र व्यापकतावच्छेदकत्वेनाभिमतत्वादित्यर्थः । एवकारस्य तृतीयान्तसंबन्धनेतिपदेनान्वयः । . देशरूपसीमाबोधकयावच्छन्दमुदाहरति-देशरूपेति । तत्र इत्यत्र । तच्च सीमात्वं च । तेन विना सीमा भवतीति कौशिकी यावद् गमनका काशीतः कौशिकीपश्चिमदेशपर्यन्तमेव गन्तव्यमिति कौशिकीपश्चिमदेशव्यापकगमनाऽनधिकरणत्वमेव कौशिक्यां सीमात्वं प्राप्तमित्यर्थः । यावत्पदबोध्यमाह-यावत्पदेनेति, तेन विना सीमा भवतीति सीमाभूतकौशिक्यऽनधिकरणत्वं गमने प्राप्तम् । कौशिकीपदोत्तरद्वितीयार्थमाह-तत्रेति, अवधित्वमऽवधिमत्त्वं चाश्रयतासंबन्धेन कौशिकीपश्चिमदिशि विज्ञेयमित्यर्थः । कौशिकी च काशीतः पूर्वदिश्यऽभ्युप
"Aho Shrutgyanam"