________________
अभिविध्यर्थकयावच्छब्दः ] व्युत्पत्तिवादः।
(३८१) अभिविध्यर्थों यावच्छब्दः ' कार्तिकमारभ्य चैत्र यावच्छीतं भवति ' इत्यादा 'काशीतः पाटलिपुत्रं यावद् वृष्टो देवः' इत्यादौ च । अभिविधिः-तत्पर्यन्ताभिव्याप्तिः । एवं च प्रथमे कार्तिकपूर्वकालोत्तरचैत्रोत्तरकालपूर्वकालव्यापकत्वं चैत्रोत्तरकालाऽवृत्तित्वसहितं शीतभवने. द्वितीये च काशीपश्चिमदेशपूर्वपाटलिपु. त्रपूर्वदेशपश्चिमदेशव्यापकत्वं पाटलिपुत्रपूर्वदेशावृत्तित्वसहितं वृष्टौ यावत्पदेन प्रत्याय्यते, विशेषः पूर्ववत् । यावच्छब्दसमानार्थकाऽऽशब्दस्थलेपि दर्शितैव रीतिरवसेया, तद्योगे च पञ्चमी साधुः ।।
'यज्ञमनु प्रावर्षत्' इत्यादावऽनुशब्दार्थः कारकत्वरूपं हेतुत्वम्-"अनुर्लक्षणे" इत्यत्र कर्मप्रवचनीयसंज्ञाविधायकसूत्रे लक्षणपदस्य कारकहेतुपरत्वात्, तत्र च यज्ञान्वितस्याधेयत्वरूपद्वितीयार्थस्याऽन्वयः, हेतुतायाश्च निरूपकत्वसंबन्धेन गन्तव्या । किं वा पूर्ववदेवात्राप्यवधित्वं प्राचीनमतेनाऽवधिमत्त्वं च नवीनमतेन द्वितीयार्थ इत्यनुसन्धेयम् ।
भभिविध्यर्थकयावच्छब्दमुदाहरति-अभीति । तेन सहाभिविधिः। 'चैत्रं यावत् । इतिकालरूपाभिविध्युदाहरणम्, 'पाटलिपुत्रं यावत् ' इति देशरूपाभिविष्युदाहरणम् । अभिविधिस्वरूपमाह-अभिविधिरिति, निष्कर्षमाह-एवं चेति । प्रथमे प्रथमोदाहरणे, कार्तिकपूर्वकालोत्तर कार्तिकपूर्वकाल आश्विनकालस्तदपेक्षयोत्तरकालः कार्तिकारम्भकालस्तं कालमारभ्य चैत्रोत्तरकालपूर्वकाल चैत्रोत्तरकालो धैशाखारम्भकालस्तदपेक्षया पूर्वकालश्चैत्रसमाप्तिकालस्तादृशकालव्यापकत्वं वैशाखव्यापकत्वं शीतेनास्तीति चैत्रोत्तरकालावृत्तित्वसहितं शीतभक्ने शीतसत्तायां यावत्पदेन प्रत्याय्यते इत्यन्वयः । द्वितीये-द्वितीयोदाहरणे च काशीपश्चिमदेशपूर्व काश्या यः पश्चिमदेशस्तदपेक्षया पूर्वदेशः पश्चिमायां काश्यारम्भदेशस्तं देशमारभ्य पाटलिपुत्रपूर्वदेशपश्चिमदेश-पाटलिपुत्रापेक्षया यः पूर्वदेशस्तदपेक्षया पश्चिमदेशः पूर्वस्यां पाटलिपुत्रनगरसमाप्तिदेशस्तादृशदेशव्यापकत्वं पाटलिपुत्रापेक्षया यः पूर्वदेशस्तदऽवृत्तित्वसहितं वृष्टौ यावत्पदेन प्रत्याय्यते इत्यन्वयः । यावच्छब्दसमानार्थकाऽऽशब्दप्रयोगस्थलेपि= 'आबालं हरिमक्तिः , ' कार्तिकमारभ्याऽऽचैत्रम् ' ' काशीत आपाटलिपुत्रम् , इत्यादावप्युक्तयावच्छब्दरीतिरेव विज्ञेया। तद्योगे-आशब्दयोगे " पञ्चम्यऽपाऽऽपरिभिः " इतिसूत्रेण पञ्चम्यपि भवति यथा-'भा मुक्तेः संसारः । इति ।
अनुशब्दसममिव्याहृतद्वितीयार्थमनुशब्दार्थ चाह-यज्ञमिति । कारकहेतुपरत्वादिति-उक्तं च महाभाष्ये " अनुहेंताविति , "लक्षणेन हेतुरपि व्याप्तो न ह्यवश्यं तदेव लक्षणं भवति येन पुनः पुनर्लक्ष्यते किं तर्हि ? यत् सकृदपि निमित्तत्वाय कल्पते तदपि लक्षणं भवति " इत्यादि । तथा चात्रानुशब्देन हेतुत्वबोधकेन यज्ञे वृष्टिरेतुत्वं बोध्यते-यज्ञहेतुका दृष्टिरित्यर्थः । तत्र अनुशब्दार्थहेतुत्वे आधेयत्वरूपद्वितीयार्थस्य-वृत्तित्वरूपद्वितीयार्थस्थान्वयः, हेतुत्वस्य च
"Aho Shrutgyanam"