________________
( ३८२)
सादर्श:- [द्वितीयाकारकद्वितीयखण्डे-- वृष्टावन्वयः । जन्यत्वं वाऽनुशब्दार्थः, तत्र निरूपितत्वरूपद्वितीयार्थस्य यज्ञान्वितस्यान्वयः, जन्यतायाश्चाऽऽश्रयत्वसंबन्धेन वृष्टावन्वयः। 'अन्वर्जुनं योद्धार' इत्यत्रापकर्षरूपं हीनत्वमनुशब्दार्थः, अर्जुनावधिकत्वं द्वितीयान्तार्थस्तस्य चाप. करेऽन्वयः । अवधित्वस्याऽपादानतारूपत्वेपि क्रियान्वयाभावान्न पञ्चमीप्र. सक्तिः । 'अस्मादयं दीर्घः' इत्यादौ 'भवति' इत्यस्याऽध्याहारेणैव पञ्चम्युप. पादनात् । अतः षष्ट्यपवादतानिर्वाहः ।। ___'वृक्ष प्रति विद्योतते विद्युत्' 'मातरं प्रति साधुः' 'यो मां प्रति स्यात्' 'वृक्ष
वृक्षं प्रति सिञ्चति' इत्यादौ "लक्षणेत्थंभूत" इत्यादिसूत्रानुशिष्टकर्मप्रवचनीयनिरूपकत्वसंबन्धेन दृष्टावन्वय:-यज्ञवृत्तिहेतुताया दृष्टिनिरूपितत्वात् । आधेयत्वस्य निरूपकस्वसंबन्धेन यज्ञेन्वयः, स्वरूपसंबन्धेनाश्रयत्वसंबन्धेन वा हेतुत्वेऽन्वय इत्यर्थः तथा च यज्ञनिष्ठा या वृष्टिहेतुता तादृशहेतुतानिरूपिका वृष्टिरिति शाब्दबोधः । पक्षान्तरमाह-जन्यत्वमिति, तत्र जन्यत्वे । निरूपितत्वं द्वितीयार्थस्तथा च यज्ञनिरूपितजन्यतावती वृष्टिरिति प्राप्तम् । उदाहरणान्तरमाह-अन्वर्जुन मिति, हीनत्वमनुशब्दार्थः, अवधित्वं द्वितीयार्थ इति 'अर्जुनम्' इतिद्वितीयान्तस्याऽर्जुनावधिकत्वमर्थस्तस्य अर्जुनावधिकत्वस्य चापकर्षेऽन्वयः तथा च 'अर्जुनावधिकापकर्षवन्तो योद्धारः ( अर्जुनापेक्षयाऽपकृष्टाः) इत्यर्थः सिद्धः । नन्ववधित्वं ह्यपादानतारूपमेव अपादानत्वे च “अपादाने पञ्चमी'' इत्यनेन पञ्चमी प्राप्नोतीत्यत्राप्यर्जुनपदात् पञ्चमी किं न स्यादित्याशझ्याह-अवधित्वस्येति, पञ्चमी कारकविभक्तिरस्तीति यत्र पञ्चम्यार्थावधित्वस्य क्रियायामन्वयो भवति तत्रैव पञ्चमी भवति नान्यत्र. अत्र चावधित्वस्यापकर्षे एवान्वयो न क्रियायामिति न पञ्चम्यापत्तिरित्यर्थः । नन्वेवम् 'अस्मादयं दीर्घः' इत्यत्रापि पञ्चमी न स्यात् क्रियापदस्याभावादत्राप्यवधित्वस्य क्रियायामन्वयासंभवादित्याशङ्क्याह-अस्मादिति, अत्र 'भवति' इति क्रियापदाच्याहारेण तद्वाच्यक्रियायामेवावधित्वस्यान्वयेन पञ्चम्या युक्तत्वादित्यर्थः । फलमाह-अत इति, उपपदविभक्तिः षष्ठीबाधिकैव भवति न कारकविभक्तिबाधिका, अत्र च पञ्चम्याः प्राप्तिरेव नास्ति येनोपपदविभक्तरत्रत्यद्वितीयायाः पश्चमीबाधकत्वं स्यादिति षष्ठ्यपवादतानिर्वाहो जात इत्यर्थः ।
"लक्षणेत्थंभूताख्यानभागवीप्सासु प्रतिपर्यऽनवः" इतिसूत्रसिद्धप्रयोगानुदाहरति-वृक्षमिति। " लक्षणेत्थम् ॥ इतिसूत्रेण लक्षणाद्यर्थबोधकप्रत्यादीनां कर्मप्रवचनीयसंज्ञा विधीयते ततश्च “ कर्मप्रवचनीययुक्ते द्वितीया " इत्यनेन कर्मप्रवचनीय प्रत्यादियोगे द्वितीया भवति, अनुशिष्टम् अनुशासितम् । प्रथमे='वृक्षं प्रतिविद्योतते विद्युत्' इत्यत्र ‘कृष्णपक्षरात्रावन्तस्थः पुरुषो विद्युतमपश्यन्नपि वृक्षप्रकाशेन विद्युद्विद्योतनमनुमिनोति-प्रकारान्तरेण वृक्षप्रकाशासंभवादिति परिचायकत्वरूपम् ज्ञापकत्वरूपं लक्षणत्वं प्रत्यादिकर्मप्रवचनीयार्थः परिचायकत्वं वृक्षे वर्तते इति आधेयत्वम्-वृत्तित्वं द्वितीयार्थः । वृक्षप्रकाशज्ञाप्या विद्युत् किंवा प्रकाशद्वारा वृक्षवृत्तिज्ञापक
"Aho Shrutgyanam