________________
कर्मप्रवचनीयप्रतिपदप्रयोगाः । व्युत्पत्तिवादः ।
( ३८३) संज्ञकप्रत्यादिशब्देषु प्रथमे परिचायकत्वरूपं लक्षणत्वं परिचेयत्वरूप: लक्ष्यत्वं वा कर्मप्रवचनीयार्थः, वृक्षप्रकाशेन विद्युद्विद्योतनज्ञानाद् वृक्षस्य परिचायकता, द्वितीयार्थश्चाऽऽधेयत्वं निरूपितत्वं वा । द्वितीये साधुत्वम् प्रियकारित्वं साधुत्वघटकक्रियान्वयी संबन्धः कर्मप्रवचनीयार्थः, संबन्धान्वयिप्रतियोगित्वं तन्निरूपकत्वं वा द्वितीयार्थः । तृतीये भागः-स्वत्त्वाश्रयः प्रत्याद्यर्थः, तदन्वयी संबन्धो द्वितीयार्थः, इत्थं चाऽस्मत्संबन्धी यो भाग स्यादिति बोधः। चतुर्थे कर्मण्येव द्वितीया षत्वबाध एव संज्ञाफलं प्रतिश्च निरर्थकः-'गृहे गृहेऽश्वाः' इत्यादाविव व्यापकताया द्विरुक्तिबललभ्यत्वात् । प्रतिशब्दस्य व्यापकतार्थकावे उक्तार्थकत्वेन "गृहं व्याप्नुवतेऽश्वाः' इत्यादाविव द्विरुक्तिरेव न स्यात् । तानिरूपितज्ञाप्यताश्रयविद्योतनव्यापारवती विद्युत् इत्यादिश्च शाब्दबोधः । पक्षान्तरमाहपरिचयत्वरूपमिति, परिचेयत्वरूपम्--परिचयकर्मत्वरूपं लक्ष्यत्वं प्रतेरर्थः, अत्र पक्षे निरूपि. तत्वं द्वितीयार्थः-वृक्षनिरूपितलक्ष्यत्ववती विद्युद्विद्योतते इत्यर्थः । द्वितीये 'मातरं प्रति साधुः' इत्यत्र साधुत्वं प्रियकारित्वमेव तत्र साधुत्वघटका-प्रियकारित्वघटका ह्यनुकूलाचरणरूपा या क्रिया तादृशक्रियान्वयी तादृशक्रिया निरूपितो यः सेवकत्वादिरूपः संबन्धः स प्रत्यादिकर्मप्रवचनीयस्याथः, तादृशसंबन्धप्रतियोगित्वं मातरीति प्रतियोगित्वं द्वितीयार्थस्तथा च मातृप्रतियोगिकोक्तसंबन्धाश्रय इत्यर्थः प्राप्तः । किं वा तादृशसंबन्धनिरूपकत्वं मातरि वर्तते इति निरूपकत्वं द्वितीयार्थस्तथा च मातृनिरूपितोक्तसंबन्धवानित्यर्थः प्राप्तः । तृतीये-'यो मां प्रति स्यात्' इत्यत्र स्वत्वाश्रयो भाग एवं कर्मप्रवचनीयप्रत्याद्यर्थः, तदन्वयी=भागान्वयी यः संबन्धः स्वस्वसंवन्धः स द्वितीयार्थ इत्यर्थः । वाक्यार्थस्वरूपमाह-इत्थमिति, अत्र 'दीयताम् ' इत्यादिशेषः । चतुर्थे='वृक्ष वृक्षं प्रति सिञ्चति' इत्यत्र कर्मण्येव द्वितीयेति कर्मत्वं द्वितीयार्थस्तथा च सकलवृक्षकर्मकं सेचनमिति शाब्दबोधः । नन्वत्र वृक्षस्य कर्मत्वं तु सिञ्चतिक्रियापदयोगादपि संभवतीति प्रतिशब्दस्य कर्मप्रवचनीयसंज्ञाविधानस्य किं फलमित्याशङ्क्याह-षत्वबाध एवेति, अत्र “ उपसर्गात्सुनोति " इतिसूत्रेण उपसर्गसंज्ञकप्रतिशब्दयोगे सिचः सकारस्य षत्वं प्राप्नोति तत्र " लक्षणेत्थंभूत " इति सूत्रेण प्रतेः कर्मप्रवचनीयसंज्ञया उपसर्गसंज्ञाबाधात् पत्वबाधो जातः स एव प्रतेः कर्मप्रवचनीयसंज्ञाफलम्, तदुक्तम्-" अत्रोपसर्गत्वाभावान्न षत्वम्" इति, इत्यर्थः । 'गृहे गृहेऽश्वाः' इत्यत्र यथाऽश्वानां गृहव्यापकत्वं द्विरुक्या लभ्यते तथा 'वृक्ष वृक्ष प्रति सिञ्चति ' इत्यत्रापि सेचनस्य वृक्षव्यापकता द्विरुक्तयैव लम्यते इति प्रतिशब्दो निरर्थक एवं न वीप्सार्थक इत्याह-प्रतिश्चेति । विपक्ष बाधकमाह-प्रतिशब्दस्येति, यथा 'गृहं व्याप्नुवतेऽश्वा::' इत्यत्र व्याप्नुवते इति पदेनैव व्यापकताया उक्तत्वाद् गृहपदद्विरुक्तिन भवति-उक्तार्थानामप्रयोग इति नियमात तथा ' वृक्षं प्रति' इत्यत्रापि यदि प्रतिशब्दो व्यापकताबोधकः स्यात् तदा व्यापकताबोस्य
सं वृक्ष
"Aho Shrutgyanam'