________________
(३८४)
सादर्शः- द्वितीयाकारकद्वितीयखण्डेन च प्रतिशब्दस्यापि व्यापकतार्थकत्वम् ‘प्रतिदिनमधीते ' इत्यादौ क्लतं द्विरुक्तेरपि 'वृक्षं वृक्षं सिञ्चति ' इत्यादौ क्लप्तमिति प्रकृते "संभेदनान्यतस्वैयर्थ्यम् " इतिन्यायाद् द्वयोरेव व्यापकताबोधकत्वमऽवर्जनीयमिति वाच्यम्, 'प्रतिमासमधीते' इत्यादावऽव्ययीभावे हि प्रथमातिरिक्तविभक्तरसाधुत्वेन प्रतिशब्देन मासान्वितव्यापकत्वं क्रियायां बोध्यते विभक्तिः साधुत्वार्था । 'वृक्ष वृक्ष प्रति सिञ्चति । इत्यत्र तु सेके द्वितीयार्थकर्मत्वावरुद्धप्रकृत्यर्थवृक्ष. विशेषितव्यापकता बोधयितुं न शक्यते- एकविशेषणत्वेनोपस्थितस्यान्यत्र विशेषणत्वे व्युत्पत्तिविरोधात्. कर्मत्वसंबन्धस्यैव च व्यापकताघटकत्वेन स्वीक. रणीयतया वृत्त्यनियामकस्य तस्य तथात्वासंभवाच्च । तस्य सेककर्मवे आश्र. यतासंबन्धघटितव्यापकताप्रत्यायनमपि न युज्यते- प्रकृत्यर्थसुबर्थयोरन्तरा वृक्षपदद्विरुक्तिन स्यात्, उक्तार्थानामप्रयोगात्. अस्ति च द्विरुक्तिरिति तयैव व्यापकतारूपार्थे लब्धे प्रतिशब्दो निरर्थक एवेत्यर्थः ।
शङ्कते-- न चेति । प्रकृते= वृक्षं वृक्ष प्रति सिञ्चति ' इत्यत्र । संमेदेति - एकार्थबोधकयोरेकत्रापि संभेदे संयोगे प्राप्तेऽन्यतरस्य चैयर्थ्य न भवति किं तु द्वयोरेव सार्थक्यमेव भवतीति “वृक्षं वृक्ष प्रति ' इत्यत्र व्यापकताबोधकयोयोरेव द्विरुक्तिप्रतिशब्दयोर्द्वयोरेव सार्थक्यं युक्तमित्यर्थः । परिहारमाह- प्रतिमासमिति, अव्ययीभावसमासोत्तरं साधुत्वार्थ प्रथमैव प्राप्नोति न प्रथमातिरिक्तापि विभक्तिः सा प्रथमापि निरर्थकैव भवति तस्मात् “प्रतिमासम् ' इत्यऽव्ययीभावसमासोस्तीति तदुत्तरं द्वितीयादिविमक्तिरेव न संभवति यया व्यापकत्वबोधनं स्यादिति प्रतिशब्देनैव मासव्यापकत्वमध्ययनक्रियायां बोध्यते इति युक्तं तत्र प्रतापकत्वार्थकत्वम्प्रकारान्तरेण व्यापकत्वलामाऽसंभवात् । ' वृक्षं वृक्षं प्रति , इत्यत्र तु प्रतिशब्दबोध्यव्यापकताया निरूपकत्वसंबन्धेन वृक्षे विशेषणत्वं स्यादेव एवं च सेचनरूपक्रियायां प्रतिशब्देन व्यापकत्वबोधनं न संभवति-- द्वितीयार्थकर्मत्वेनावरुद्धः विशिष्टो यः प्रकृत्यर्थभूतो वृक्षस्तद्विशेषितायाः= वृक्षे विशेषणतां प्राप्ताया व्यापकतायाः सेके विशेषणत्वासंभवात्- एक विशेषणत्वेनोपस्थितस्यान्यत्र विशेषणत्वं न भवतीति व्युत्पत्तिविरोधादित्यर्थः । एवम् ' वृक्षं वृक्षं प्रति । इत्यत्र प्रतिशब्देन वृक्षविशेषणत्वेनापि व्यापकत्वं बोधयितुं न शक्यत इत्याह- कर्मत्वेति, कर्मत्वसंबन्धेनैव प्रतिशब्दप्रतिपाद्यव्यापकताया वृक्षविशेषणत्वं स्वीकार्य तत्र च तस्य कर्मत्वसंबन्धस्य वृत्त्यनियामकतयाऽभावीयप्रतियोगितावच्छेदकत्वं न संभवतीति — न वृक्षं वृक्षं प्रति सिञ्चति । इत्यत्र कर्मत्वसंबन्धेन व्यापकत्वाभावबोधनासंभवेन तस्य कर्मत्वसंबन्धस्य तथात्वासंभवात् व्यापकतासंबन्धत्वमपि न संभवतीत्यर्थः । ननु प्रतिशब्दप्रतिपाद्यव्यापकताया यदि सेचनवृक्षयोपान्वयो न संभवति तदा सेचनकर्मत्वे आश्रयतासंबन्धेनान्ययो भवतु- आश्रयतासंबन्धस्य च इति नियामकत्वेन न व्यापकत्वाभावबोधानुपपत्तिरपीत्याशङ्कयाह- तस्येति, तस्य प्रतिशब्द
"Aho Shrutgyanam