________________
कर्मप्रवचनीयप्रतिपदप्रयोगाः ] व्युत्पत्तिवादः ।
( ३८५) नअतिरिक्तभानस्य व्युत्पत्तिविरुद्धत्वात्, "नामूढस्येतरीत्पत्तेः', "नानुपमृद्य प्रादुर्भावात्" इत्यादौ नार्थमात्रस्य पञ्चम्यर्थहेतुतायां विशेषणत्वेन प्रकृत्यर्थस्य च विशेष्यत्वेनाऽन्वयातू, तस्मात् प्रतिरनर्थक एव । द्विरुक्तान्वये तात्पर्यबलाच सेचनकर्मत्वे वृक्षादेव्यापकत्वं संसर्गतयैव भासते ।। __ यदि च ' वृक्षं प्रति षिञ्चति । इत्यादावुपसर्गस्य प्रतेर्वाच्यो द्योत्यो वा कश्चिदन्योऽर्थः ? तदाऽस्तु स एवात्रापि तदर्थः । अत एव तस्येवाऽस्यापि प्रतिशब्दस्य प्रयोगो नानर्थः। वस्तुत:- अनर्थकयोः कर्मप्रवचनीयाऽधिपरि
शब्दयोः प्रयोगवत् तादृशपतेरपि प्रयोगस्य प्रयोजनान्तरानुपपत्तिश्चिन्त्या । स्याश्रयतासंबन्धेन सेककर्मत्वेपि व्यापकताप्रत्यायकत्वं न संभवतीत्यर्थः । उक्त हेतुमाह- प्रकत्यर्थेति, व्यापकतायाः सेककर्मत्वेऽन्वये हि कर्मत्वविशेषणीभूक्तव्यापकतायाः कर्मत्वापेक्षया पूर्व प्रवेशेन प्रकृत्यर्थभूतो यो वृक्षः सुबर्थभूतं च यत्कर्मत्वं तयोर्मध्यपतित्वं प्राप्नुयाद् न चैतद् युक्तम्- प्रकृत्यर्थसुबर्थयोर्मध्ये नीतिरिक्तपदार्थभानस्य व्युत्पत्तिविरुद्धत्वादित्यर्थः । प्रकृत्यर्थसुबर्थयोर्मध्ये नर्थमात्रस्य भानं भवतीत्यस्योदाहरणमाह- नामूढस्येति, इदं च चतुर्थाध्यायप्रथमाह्निकन्यायसूत्रद्वयम्, मोहहीनस्य रागद्वेषौ न भवत इतिप्रथमसूत्रार्थस्तत्र मोहाभावे रागद्वेषोत्पत्त्यमायहेतुत्वं प्रतीयते इति पञ्चम्यर्थहेतुतायां नर्थाभावस्य विशेषणत्वेन प्रकृत्यर्थ ( उत्पत्ति ) विभक्त्यर्थ ( हेतुत्व ) योर्मध्यपतितत्वेन भानं भवति, एवं नानुपमृद्येत्यस्य बीजादेरुपमर्दम् विनाशं विनाऽङ्कुरादिप्रादुर्भावो न भवतीत्यर्थस्तत्रोपमर्दाभावे प्रादुर्भावाभावहेतुत्वं प्रतीयते इति न प्रादुर्भावादित्यत्र पञ्चम्यर्थहेतुतायां नअर्थाभावस्प विशेषणत्वेन प्रकृत्यर्थभूतप्रा. दुर्भाव-विभक्त्यर्थभूतहेतुत्वयोर्मध्यपतितत्वेन मानं भवतीत्यर्थः । उपसंहरति- तस्मादिति, यस्मात् प्रतिशब्देन सेकसेककर्मत्ववृक्षाणां विशेषणत्वेन व्यापकताबोधनं न संभवति तस्मात् प्रतिशब्दोत्र निरर्थक एवेत्यर्थः । नन्वेवं द्विरुक्त्यापि व्यापकत्वबोधनं न स्यादित्याशङ्कयाहद्विरुक्तेति । वृक्षादेरिति षष्ठयों निरूपितत्वम् । वृक्षादिनिरूपितं सेचनकर्मत्वनिष्ठं व्यापकत्वं द्विरुक्तितात्पर्यबलात संसर्गमर्यादया भासते, संसर्गमर्यादया भाने च न कोपि दोषः, उक्तदोषाणां प्रतिशब्दोपस्थापितव्यापकत्वस्य प्रकारतया भाने एव संभवादित्यर्थः ।
पक्षान्तरमाह-यदि चेति, अन्यः व्यापकत्वभिन्नः कर्मत्वादिरूपः । सः व्यापकत्वमिन्नः । अत्र='वृक्षं वृक्षं प्रति सिञ्चति' इत्यत्र । तदर्थः प्रतिशब्दार्थः । कर्मत्वस्य प्रतिशब्दार्थत्वे द्वितीया साधुत्वार्था निरर्थकैव विज्ञेयेति भावः । अतएव नाम ' वृक्ष प्रति ' 'वृक्ष वृक्ष प्रति इत्युभयत्रापि प्रतिशब्दस्य समानार्थत्वादेव । तस्येव= वृक्षं प्रति' इत्यत्रत्यप्रतिशब्दस्येव । अस्य= 'वृक्ष वृक्षं प्रति' इत्यत्रत्यप्रतिशब्दस्य । स्वाभिप्रायमाह--वस्तुत इति, तादृशप्रतेः कर्मप्रवचनीयप्रतेः । यथा 'कुतोऽध्यागच्छति कुतः पर्यागच्छति' इत्यत्रानर्थकयोरप्यऽधिपारशब्दयोः प्रयोगस्य प्रयोजनान्तरानुपपत्तिर्नास्ति "गतिर्गतौ" इतिनिघाताभावस्यैव प्रयोजनत्वोपपत्तस्तथा 'वृक्षं वृक्ष
"Aho Shrutgyanam"