________________
( ३८६ )
सादर्श:
,
9
,
[ द्वितीयाकारकद्वितीयखण्डेप्रतेर्यत्र व्यापकतार्थकत्वं तत्र 'प्रतिवृक्षं सिञ्चति । इत्यव्ययीभावसमास एव नियतः - तदर्थकाव्ययस्याऽव्ययीभावसमासविधेर्विभाषाधिकारीयताविरहेण निकृत्यत्वात्, अतो वीप्सया 'प्रतिवृक्षं सिश्चात ' इतिवत् ' वृक्षं प्रति सिश्चति इति न प्रयोगः । यत्र व्यापकत्वार्थकेनाऽव्ययेनाऽव्ययीभावसमासस्तदुत्तरं सर्वत्र प्रथमा विभक्तिरेव । न तु ' उपकुम्भे गच्छति ' इतिवत् ' प्रतिगृहेऽश्वाः इत्यादिरपि प्रयोगः- उक्तयुक्तया तत्र प्रतिनाऽश्वादौ गृहादिव्यापकताया बोधयितुमशक्यत्वात् । तदाधारतादिरूप सप्तम्याद्यर्थे च समासार्थस्य गृहादिव्यापकत्वस्याश्रयतासंबन्धेन तदर्थस्य व्यापकरूपधर्मिणो वाऽभेद संबन्धेनान्वये मेयत्वे घटः घटवृत्तौ घटः' इत्यादिप्रयोगवारणाय कल्प्यायाः सप्तम्यर्थाधारतयामाश्रयत्व संबन्धेनाऽभेद संबन्धेन वा प्रकृत्यर्थाऽनन्वयव्युत्पत्तेर्विरोधात् । प्रति' इत्यत्रानर्थककर्मप्रवचनीयप्रतिशब्दप्रयोगस्य प्रयोजनान्तरानुपपत्तिर्नास्ति - ( ३८३ पृ.) उक्तषत्वाभावस्यैव प्रयोजनत्वोपपत्तेरिति प्रयोजनान्तरानुपपत्तिर्योक्ता सा चिन्त्येत्यर्थः । प्रतेर्यत्रेति, "अव्ययं विभक्ति" इत्यनेन यथाशब्दार्थ काव्ययेन समासः प्राप्तो यथाशब्दार्थाश्च योग्यतावी- "सादयस्तत्र वीप्सैव व्यापकतेति तदर्थकप्रतिशब्देन सह समासे जाते 'प्रतिवृक्षम् ' इति जातम् । तस्मात् ' वृक्षं वृक्षं प्रति' इत्यत्र प्रतिशब्दस्य व्यापकतार्थकत्वेऽव्ययीभावसमास एव स्यात् न चास्ति समास इति नात्र प्रतिशब्दो व्यापकतार्थक इति भावः । नित्यत्वादिति चिन्त्यम् -'वृक्षं वृक्षं प्रति' इत्यसमस्तवाक्यस्याप्यभीष्टत्वात् तदुक्तम्- " प्रतिशब्दस्य वीप्सायां कर्मप्रवचनीयसंज्ञा विधानसामर्थ्यात् तद्योगे द्वितीयागर्भं वाक्यमपि" इति । समासस्य नियतत्वे हेतुमाह - तदर्थकेति, तदर्थकाव्ययस्य = विभक्त्याद्यर्थ काव्ययस्य, निरूपितत्वं षष्ठ्यर्यस्तथा च तदर्थकाव्ययनिरूपितान्ययीभावसमासविधेर्नित्यत्वादित्यर्थः । उक्तसमासनित्यत्वस्य फलमाह- अत इति, वीप्सायाम् "वृक्षं प्रति' इतिप्रयोगो न भवति किंतु 'प्रतिवृक्षम् ' 'वृक्षं वृक्षं प्रति' इति वेत्यर्थः । उक्तसमासस्य विशेषान्तरमाह-- यत्रेति, तथा च 'प्रतिवृक्षम्' इत्यत्र प्रथमायाः "नाव्ययीभावात्” इति सूत्रेणाभावः प्राप्तस्तथा च प्रथमायाः साधुत्वार्थकत्वेन निरर्थकत्वाद् व्यापकत्वं प्रतेरेवार्थ इति भावः । विशेषान्तरमाह - न त्विति, उक्तयुक्त्या "सेके द्वितीयार्थकर्मत्वावरुद्ध" इत्यादियुक्त्या, निरूपकत्व संबन्धेन गृहे विशेषणतां प्राप्ताया व्यापकताया अश्वविशेषणत्वासंभवात् -"एकविशेषणत्वेनोपस्थितस्य" इतिव्युत्पत्तिविरोधादित्यर्थः । तदाधारतादीति, तत्-अश्वः । 'प्रतिगृहेऽश्वाः’ इत्यत्र यद्यश्वाधारतारूपसप्तम्यर्थे आश्रयत्वसंबन्धेन समासार्थस्य गृहव्यापकत्वस्यान्वयः क्रियेत ( अश्वाधारता गृहव्यापकतावती इति ) किं वाऽश्वाधारतारूपसप्तम्यर्थेऽभेदसंबन्धेन तदर्थस्यसमासार्थस्य व्यापकरूपधर्मिण एवान्वयः क्रियेत - अश्वाधारता गृहव्यापिकेत्येवं तदा सप्तम्यर्थघटाधारत्वे आश्रयतासंबन्धेन मेयत्वस्याप्यन्वयः स्यादिति 'मेयत्वे घटः' इत्यपि प्रयोगः स्यात्तथा "घटवृत्तौ घटः' इत्यत्र सप्तम्यर्थो घटाधारता प्रकृत्यर्थोपि घटवृत्तिपदवाच्या घटवृत्तित्वविशिष्टा घटाधारते - घटनिष्ठाधारताया घटवृत्तित्वादिति सप्तम्यर्थघटाधारतायामभेदसंबन्धेन प्रकृत्यर्थ
<
6
"Aho Shrutgyanam"