________________
अन्तरापदयुक्तद्वितीयार्थः ] व्युत्पत्तिवादः ।
(३८७) 'उपकुम्भे निधेहि ' 'उपकुम्भादागतः' 'उपकुम्भेन कृतः' इत्यादौ च विवक्षितस्याऽधारत्वाऽपादानत्वकर्तृत्वादौ कुम्भसमीपादेराधेयतासंबन्धेनाऽन्वयस्याऽधेयत्वादौ निरूपितत्वसंबन्धेन तदन्वयस्य वा बोधे न कश्चिद् व्युत्पत्तिविरोध इत्युपपद्यन्ते तथा प्रयोगा इति ध्येयम् ।
'त्वां च मां चान्तरा' इत्यादौ " अन्तरान्तरेण युक्त " इतिद्वितीयाया निरूपितत्वमर्थः, तस्यान्तरापदार्थतावच्छेदकमध्यत्वेऽन्वयः । एवमन्यत्रापि
तदर्थस्तूक्तदिशा स्वयं परिच्छेद्यः ॥ ॥ इति द्वितीयाविभक्तयः ॥ भूताया घटाधारताया अप्यन्धयः स्यादिति ' घटवृत्तौ घटः । इत्यपि प्रयोगः स्यात् न चैव प्रयोगौ भवत इति तद्वारणाय ' सप्तम्यर्थाधारतायामाश्रयत्वसंबन्धेनाऽभेदसंबन्धेन वा प्रकृत्यर्थस्यान्वयो न भवति । इतिव्युत्पत्तिः कल्प्या तथा चैतस्याः कल्प्याया व्युत्पत्तेविरोधात् 'प्रतिगृहेऽश्वाः ' इत्यत्राप्यश्वाधारतारूपसप्तम्यर्थे आश्रयतासंबन्धेन प्रकृत्यर्थस्य गृहव्यापकत्वस्य, अभेदसंबन्धेन च व्यापकरूपधर्मिणो वाऽन्वयो न संभवतीति 'प्रतिगृहेऽश्वाः । इतिप्रयोगोपि न भवति । उपकुम्भपदात्तु " दूरान्तिकार्थेभ्यो द्वितीया च " " सप्तम्यधिकरणे च ॥ इति. सूत्राम्यां द्वितीयातृतीयापञ्चमीसप्तम्यो वचनाद् भवन्तीत्यर्थः ।
उपकुम्भेति- 'उपकुम्भे । इत्यत्र सप्तम्यर्थाधारत्वे ' उपकुम्भात् ' इत्यत्र पञ्चम्यर्थाऽपादानत्वे ' उपकुम्भेन । इत्यत्र तृतीयार्थकर्तृत्वे आधेयतासंबन्धेन कुम्मसमीपस्यान्वये (आधारत्वादौ कुम्भसमीपाधेयतायाः सत्त्वात् ) तथाऽऽधेयत्वे= आधारत्वापादानत्वकर्तृत्वादिनिष्ठाधेयत्वे तदन्वयस्य-कुम्भसमीपान्वये न कश्चिद्व्युत्पत्तिविरोधोस्तीति तथाप्रयोगा:-' उपकुम्भे , इत्यायुक्तप्रयोगा उपपद्यन्ते । आधारत्वादिनिष्ठाधेयत्वस्य कुम्भसमीपनिरूपितत्वेन तादृशाधेयत्वे कुम्भसमीपनिरूपितत्वस्य सत्त्वात् तेन संबन्धेन तादृशाधेयत्वे कुम्भसमीपस्यान्वयः । आधारस्वादीनां च कुम्भसमीपवृत्तित्वेनाऽऽधारत्वादावाऽऽधेयत्वं ज्ञेयमित्यर्यः ।।
त्वां चेति- ' त्वां च मां चान्तरा हरिः । इत्यत्र " अन्तरान्तरेण युक्ते " इति सूत्रेण द्वितीया भवति तस्याश्च द्वितीयाया निरूपितत्वमर्थः, तस्य च द्वितीयार्थभूतनिरूपितत्वस्य अन्तरापदार्थतावच्छेदकमध्यत्वेऽन्वयस्तथा च स्वन्मनिरूपितमध्यत्वविशिष्टो हरिरिति शान्दबोधः, आवयोर्मध्येहरिरेवेति भावार्थः । अन्तरापदस्य मध्यपदार्थवाचकत्वाद् मध्यत्वमन्तरापदार्थतावच्छेदकमित्यर्थः। अन्तरेणेतिपदं विनार्थकम् यथा- 'अन्तरेण हरिस्मरणं न सुखम् ' इति । अत्र न निरूपितत्वं द्वितीयार्थः किं तु विनापदोक्तस्थलीयरीतिरूह्येति- हरिस्मरणाभावप्रयोज्यसुखाभाव इति शाब्दबोधः । प्रतियोगित्वं द्वितीयार्थः । द्वितीयाकारकनिरूपणमुपसंहरति- एवमिति । अन्यत्र अन्यद्वितीयोदाहरणेष्वप्येवमेव विज्ञेयम् । तदर्थः तादृशद्वितीयार्थो द्वितीयाप्रोपकशब्दविशेषार्थश्च स्वयमुक्तदिशा परिच्छेद्यः निर्वचनीयः- शास्त्रस्य मार्गमात्रप्रदर्शकत्वादि. त्यर्थः ।।
॥ मतिः श्रान्ता पुरो गन्तुं विरमत्यधिकलेखतः ॥ ॥ इति व्युत्पत्तिवादाऽऽदर्श द्वितीयाकारकं समाप्तम् ॥
"Aho Shrutgyanam"