________________
॥ अथ तृतीया ॥
कारकविभक्तितृतीयायाः क्रियान्वयि कर्तृत्व करणत्वं चार्थ:- “ कर्तृकरण. योस्तृतीया " इत्यनुशासनात् । कर्तृत्वं च मुख्यं क्रियानुकूलकृतिरेव, सा च काख्यातसमभिव्याहृते 'चैत्रः पचति' इत्यादौ क्रियाविशेष्यतयाऽऽख्यातेन प्रतिपाद्यते । 'चैत्रेण पच्यते तण्डुलः' ' चैत्रेण शय्यते' इत्यादिकर्मभावाख्यातस्थले च क्रियायां विशेषणतया तृतीयया सा प्रत्याय्यते ।
यत्तु तत्राप्याख्यातार्थ एवं कृतिः, तृतीयार्थश्चाधेयत्वम्, तस्य चाख्यातार्थकृतिविशेषणतयाऽन्वयः, कृतेश्च क्रियाविशेषणतया । तथाकृतिबोधने चात्मनेपर्दरूपाख्यातस्य यगादिसमभिव्याहारज्ञानमपेक्षितम्- ‘पचति । ' पचते'
कारकद्वितयग्रन्यविशेषार्थविदां नृणाम् ।
इतः क्लेशकरं स्वल्पं ज्ञातव्यमवशिष्यते ॥ तृतीयाविभक्त्यर्थनिरूपणमारमते- कारकेति । उक्त प्रमाणमाह- कर्तकरणयोरिति । कर्तत्वस्वरूपमाह-कर्तृत्वमिति । सा=कृतिः । समभिव्याहृते समभिव्याहारे । क्रियाविशेष्यतपेति‘पचति । इत्यादी 'पाकानुकूल कृतिमान् ' इतिबोधोदयात् कृतेः क्रियाविशेष्यत्वं प्राप्तम् । आख्यातेन कर्ताख्यातेन । “चत्रेण पच्यते तण्डुलः । इति कर्माख्यातप्रयोगः, - चैत्रेण शंप्यते । इतिभावाख्यातप्रयोगः- शीधातोः कर्माभावात् । सा=कृतिः । विशेषणतयेति'पच्यते । इत्यत्र कृतिजन्यपाकजन्यविक्लित्त्याश्रयस्तण्डुलः ‘शय्यते ' इत्यत्र च कृतिजन्यशयनव्यापार इति बोधोदयात् कृतेः क्रियाविशेषणत्वमेव प्राप्तम् । क्रियाविशेषणतया चात्र कृतिः तृतीयया प्रतिपाद्यते नत्वाख्यातेन-- अन्यथा तृतीयाया नैरर्थक्यं स्यात् “ कर्तृकरणयोः" इति सूत्रेण च तृतीयाया कर्तृत्वार्थकत्वानुशासनात्. कर्तृत्वं च कृतिरेवेत्यर्थः ।
परिहाराय मतान्तरमनुवदति- यत्त्विति । तत्रापि= पच्यते , ' शय्यते । इत्युक्तकर्माख्यातभावाख्यातस्थलयोरपि । आख्यातार्थ एवं कृतिर्न तृतीयार्थ इत्यर्थः । उक्तस्थलीयतृतीयाया अर्थमाह- तृतीयार्थश्चेति । तस्य तृतीयार्थभूताधेयत्वस्य । तथा च ' चैत्रेण पच्यते' इत्यत्र चैत्रवृत्तिकृतिजन्यपाकजन्यविक्लित्याश्रयस्तण्डुलः ' चैत्रेण शय्यते' इत्यत्र च चैत्रवृत्तिकृतिजन्यशयनव्यापार इति बोधोदयाद् व्यापारे कृतेः कृतौ चाधेयत्वस्य-वृत्तित्वस्य विशेषणत्वं प्राप्तम् । " क्रियाविशेषणतया " इत्यत्र ‘अन्वयः । इति शेषः । तथाकृतिबोधने=' चैत्रवृत्तिकृतिजन्यव्यापारः ' इत्येवं क्रियाविशेषणतया कृतिबोधने । उक्ते हेतुमाह- पचतीति । तथाकृत्यन्वयाबोधात् कृतेः क्रियायां विशेषणतया शाब्दबोधाविषयत्वात् । नन्वेवं ततीयाया
"Aho Shrutgyanam"