________________
तृतीयायाः कृत्यर्थकत्वम् ] व्युत्पत्तिवादः।
(३८९) इत्यादौ तथाकृत्यन्वयाबोधात् । ' चैत्रेण ज्ञायते. गम्यते ' इत्यादौ तृतीयाया आधेयत्वार्थकत्वं क्लप्तमेवेति न तत्कल्पनमऽधिकमिति, तन्न-'चैत्रेण पक्क' इत्यादौ तृतीयायाः कृत्यर्थकताया आवश्यकत्वात्-तत्र कृत्यर्थकाख्यातविरहेम कृतश्च कर्तृकर्मवाचकत्वेन कृत्यर्थकताविरहात् ।
यदि च कर्तृकृतः कृतावेव शक्तिर्न तु विशिष्ट ‘ज्ञाता ' इत्यादौ त्वाश्रयार्थकतायाः कृतः क्लप्तत्वेन तत्र कृत्यन्वयादेव कर्तृलाभसंभवादित्युच्यते ? तथापि कर्मकृतः कृत्यर्थत्वमप्रसक्तमेव । उक्तप्रत्ययस्य क्वचित् कर्तृवाचकत्वपि ' चैत्रेण पाच्यः' 'दुष्पचश्चैत्रेणौदनः ' 'चैत्रेणौदनस्य पाकः' इत्यादौ कृतां न आधेयत्वार्थकत्वकल्पनमधिकं स्यात तेन च गौरवं स्यादित्याशझ्याह- चैत्रेणेति, 'चैत्रेण ज्ञायते । इत्यत्र ' चैत्रवृत्तिज्ञानम् , ' चैत्रेण गम्यते । इत्यत्र च ' चैत्रवृत्तिसंयोगानुकूलव्यापारः । इतिबोधोदयात् तृतीयाया आधेयत्वार्थकत्वं क्लृप्तमेवेति नाधिककल्पनापत्तिरित्यर्थः । तत्कल्पनम् आधेयत्वार्थकत्वकल्पनम् । उक्तमतं परिहरति- तन्नेति, ' चैत्रेण पकम् ' इत्यत्राख्यातमेव नास्ति यस्यार्थः कृतिः स्यात् कृत्प्रत्ययस्य च कर्मवाचकत्वेन कृतिवाचकत्वं न संभवतीत्यत्र विवशं तृतीयाया एव कृतिवाचकत्वं स्वीकार्य तथा चात्र तृतीयायाः कृतिवाचकत्वे प्राप्ते 'चैत्रेण पच्यते ' इत्यादावपि तृतीयाया एव कृतिवाचकत्वं युक्तं नाख्यातस्येत्यर्थः । - ननु ' चैत्रेण पक्कम् ' इत्यादौ कर्मकृतः कृतिवाचकत्वाभावेपि कर्तृवाचककृत्प्रत्ययस्य तु कृतावेव शक्तिः स्वीकार्या लाघवात् कृतौ शक्तौ कृतित्वमेकमेव शक्यतावच्छेदकं कर्तरि सक्ती तु कृतेः शक्यतावच्छेदकत्वं स्यात् कृतीनां च नानात्वाद् गौरवं स्यादिति न विशिष्ट-कृतिविशिष्ट कर्तरि शक्तिर्येन कर्तृकृतः कर्तृवाचकत्वेन तृतीयायाः कृतिवाचकत्वं प्रसज्येत तस्मात् तृतीयार्थ आधेयत्वमेवेति यदुक्तं तदेव युक्तमित्यर्थः । नन्वेवं कर्तृलाभः कथं स्यादित्याशः क्याह-ज्ञातेति, ' ज्ञाता ' इत्यत्र 'ज्ञानाश्रयः । इतिबोधोदयादाश्रयार्थकत्वं कृत्प्रत्ययस्य क्लृप्तमेव तथा च कर्तृकृतां कृतावाश्रये च शक्तिरिति प्राप्तं तत्र प्रत्ययार्थाश्रये प्रत्ययार्थकृतेरन्व. यादेव कर्तृलाभः कर्तृविषयकबोधः संभवत्येव-कृत्यन्वयिन आश्रयस्यैव कर्तृपदार्थत्वादिति कर्तकृतां कृतावेव शक्तिः । तथा च ' पक्ता ' इत्यत्र ' पाककृत्याश्रयः । 'गन्ता' इत्यत्र 'गमनकृत्याश्रयः ' इत्येवं बोधः उन्नेय इत्याशङ्क्याह-यदीति । उत्तरमाह-तथापीति, कर्तृकृप्रयोगस्थले उक्तरीत्या कर्तृलामसंभवेन कर्तृकृतः कृतिवाचकत्वसंभवेपि कर्मवाचककृल्पस्ययस्य तु कृतिवाचकत्वं कथमपि न संभवतीति 'चैत्रेण कृतम् । इत्यादिकर्मकृत्सममिव्याहारस्थले तृतीयाया एव कृतिवाचकत्वं स्वीकार्यमित्यर्थः । कर्तृकृतः कचित् कर्तृवाचकत्वेनो. तलाघव पुरोधात् कृतिवाचकत्वमभ्युपगम्यापि तृतीयायाः कृतिवाचकत्वावश्यकतामाह-उक्तेति, उक्तप्रत्ययस्य कृत्प्रत्ययस्य कचित् = कर्ता पक्ता ' इत्यादौ कर्तृवाचकत्वे प्राप्ते लाघवात् कृतिवाचकत्वे स्वीकृते तृतीयायाः कृत्यवाचकत्वे प्रसक्तेपि ' चैत्रेण पाच्यः । इत्यादिस्थले कृतप्र
"Aho Shrutgyanam"