________________
(३९०)
सादर्श:
[ तृतीयाकारकेकृतिबोधकत्वमिति तत्र कृतिबोधानुरोधेन तृतीयायाः कृतिवाचकत्वमावश्यकम् । एवं च 'चैत्रेण पच्यते' इत्यादावपि तृतीययैव कृतिर्बोध्यते, तत्र चैत्रादेः संबन्ध एवाधेयत्वमित्यत एव निर्वाहे कृतावाऽऽधेयत्वस्य विशेषणतया भानोपगमस्यानुचितत्वात्,तथा सति तत्संसर्गस्यापि विषयताकल्पनाधिक्यात् । तादृशवाक्यज्ञानघटितशाब्दसामय्यामधिकोपस्थितिनिवेशेन च गौरवात् ।
अथ तत्र कृतेस्तृतीयार्थतोपगमे 'चैत्रेण पच्यते न मैत्रेण ' इत्यादौ तृतीयान्तार्थमैत्रीयकृतेरभाव: पाकेऽन्येतीत्युपेयं तस्याश्च समवायसंबन्धावच्छिन्ना; भावो मैत्रकर्तृकपाकेपीत्यतिप्रसङ्गः, जन्यतायाश्च वृत्यनियामकतया तत्संबन्धावच्छिन्नाभावः प्रसिद्धयत्येव न, मैत्रकर्तृकपाककर्मत्वाभावस्य कर्मणि तण्डुलादौ प्रतीतिश्च कर्मवाचकपदासमभिव्याहारस्थले दुर्घटा, आधेयत्वस्य तृतीयार्थत्वे चाधेयत्वाभावबोध एव कृतावङ्गीक्रियते । त्ययस्य कृतिबोधकत्वं नास्ति भवति च कृतेर्बोध इति विवशं तृतीयाया एव कृतिबोधकत्वं स्वीकार्यमावश्यकं चेत्यर्थः । उपसंहरति-एवं चेति, उक्तरीत्या तृतीयायाः कृतिवाचकत्वे सिद्धे ' चैत्रेण पच्यते । इत्यादिस्थलेपि तृतीयाया एव कृतिबोधकत्वं स्वीकार्य न त्वाख्यातस्येत्यर्थः। तथा च तत्र-कृतौ चैत्रादेः संबन्ध एवाधेयत्वम्-चैत्रादेः स्ववृत्तिकृतावाऽऽधेयतासंबन्धेनान्वयो भवतीत्याधेयत्वस्य संबन्धत्वेन रूपेणापि बोधविषयता निर्वाहे संभवति सति तृतीयाया आधेयत्वे शक्तिं स्वीकृत्य तादृशतृतीयार्थभूतस्याधेयत्वस्य कृतौ विशेषणत्वेन रूपेण भानस्वी. कारो नोचित एवेत्यर्थः । विपक्षे बाधकमाह-तथा सतीति, आधेयत्वस्य तृतीयार्थत्वे तेन च विशेषणत्वे स्वीकृते तत्संसर्गस्यापि आधेयत्वसंसर्गस्याप्यधिकस्य शाब्दबोधविषयतापत्त्या गौरवं स्यादित्यर्थः । किं चाधेयत्वस्य विशेषणत्वे विभिन्न विषयकप्रत्यक्ष प्रति शाब्दसामग्र्याः प्रतिबन्धकत्वस्थले आधेयत्वोपस्थितेरपि तादृशशाब्दसामग्र्यां निवेशापत्त्या गौरवं स्यादित्याह-तादृशेति, तस्मात् तृतीयायाः कृतिवाचकत्वमेव युक्तं नाधेयत्ववाचकत्वमित्यर्थः। __ आशङ्कते-अथेति । कृतेस्तृतीयार्थतोपगमे ' चैत्रेण पच्यते न मैत्रेण , इत्यत्र मैत्रेणेति तृतीयान्तार्थो यो मैत्रीयकृतिस्तदभावस्य पाके एवान्वयः स्यात् तस्याः कृतेश्च समवायेनाभाको मैत्रकर्तृकपाकेप्यस्त्येव समवायेन कृतेरात्ममात्रवृत्तित्वादित्यऽतिप्रसङ्गः मैत्रकर्तृकपाकसत्त्वेपि
मैत्रेण न पच्यते । इति प्रयोगापत्तिरूपोतिप्रसङ्गः स्यात्, यदि चैत्रकर्तृकपाके मैत्रकृतेर्जन्यतासंबन्धेनाऽभाव उच्येत तदपि न संभवति--जन्यतासंबन्धस्य वृत्त्यनियामकतयाऽभावीयप्रतियोगितावच्छेदकत्वासंभवादित्याह-जन्यतायाश्चेति । यदि ' चैत्रेण पच्यते न मैत्रेण ' इत्यत्र तण्डुले मैत्रकर्तृकपाककर्मत्वस्याश्रयतासंबन्धेनाभाव उच्यते. तदपि न संभवति कर्मवाचकतण्डुलादिपदाभावे पदानुपस्थिततण्डुलादौ मैत्रकर्तृकपाककर्मत्वाभावप्रतीतेरपि दुर्घटत्वात-तण्डुलोपस्थित्यभावादित्याह-मैत्रेति । तस्मान्न कृतिस्तृतीयार्थः किं त्वाधेयत्वमेव, तथा च ' चैत्रेण
"Aho Shrutgyanam"