________________
तृतीयायाः कृत्यर्थकत्वम् ] व्युत्पत्तिवादः ।
( ३९१ )
न च तथा सति मैत्रचैत्रोभयकर्तृकपाकस्थले चैत्रीयपाककृतौ मैत्रवृत्तित्वा भावसखात् ' मैत्रेण न पच्यते ' इतिप्रयोगापत्तिरिति वाच्यम्, 'मैत्रेण न पच्यते ' इत्यत्र वर्तमानपाकानुकूलकृतित्वावच्छेदेन मैत्रवृत्तित्वाभावबोधनाद उक्तस्थले च तादृशकृतित्वसामानाधिकरण्येन मैत्रवृत्तित्वसत्त्वात् तादृशवाक्याप्रामाण्यात् । वर्तमानत्वस्य कृतिविशेषणतया च ' चैत्रेण पक्ष्यतेऽपच्यत न तु पच्यते ' इत्युपपद्यते । क्रियाविशेषस्य तथात्वाद् यदा मैत्रेणान्यत् क्रियते न तु पच्यते तदा ' मैत्रेण न पच्यते ' इति प्रयोगश्च ।
न चाख्यातेन कालस्य कृतिविशेषणतया बोधनात् कालविशेषविशेषितकृतित्वस्यान्वयितावच्छेदकतया तदवच्छेदेन नञाऽभावः शक्यते बोधयितुं न तु कालक्रियाविशेषोभयविशेषितकृतित्वावच्छेदेन कर्मप्रत्ययस्थले क्रियायाः कृति
८
' पच्यते न मैत्रेण ' इत्यत्र पाकानुकूलकृतावाssधेयत्वस्य = मैत्रवृत्तित्वस्याभाव आश्रयतासंबन्धेन प्रात: पाकानुकूला कृतिमैत्रवृत्तिर्न ' इति, अत्र च न कोपि दोष इत्याधेयत्वमेव तृतीयार्थे इत्यर्थः ।
"
ननु तथा सति = आधेयत्वस्य तृतीयार्थत्वं स्वीकृत्य कृतौ मैत्रवृत्तित्वाभावस्वीकारे चैत्रमैत्रो - भयकर्तृकपाकस्थलेपि चैत्रकृतौ मैत्रवृत्तित्वाभावस्य सत्त्वेन तद्बोधकस्य ' मैत्रेण न पच्यते इति प्रयोगस्यापत्तिः स्यादित्याशङ्क्याह-न चेति । परिहारमाह- मैत्रेणेति, ' मैत्रेण न पच्यते' इति वाक्येन वर्तमानकालिकायामेव पाकानुकूलकृती मैत्रवृत्तित्वाभावः प्रत्याय्यते उक्तस्थले== चैत्रमैत्रोभयकर्तृकपाकस्थले च तादृशकृतित्वसामानाधिकरण्येन=वर्तमानपाकानुकूलकृतित्वसामानाधिकरण्येन=वर्तमानायां पाकानुकूलायां कस्यचित् (मैत्रसमवेतायाम् ) कृतौ मैत्रवृत्ति - स्वस्यापि सत्त्वादेव तदभावबोधकस्य ' मैत्रेण न पच्यते ' इतिवाक्यस्याप्रामाण्यमेवेति न प्रयोगापत्तिरित्यर्थः । कृतौ वर्तमानत्वविशेषणनिवेशस्य फलमाह - वर्तमानत्वस्येति, न तु पच्यते ' इत्यनेन वर्तमानपाकानुकूलकृतावेव चैत्रवृत्तित्वाभावात् भूतभविष्यत्पाकानुकूलकृतौ च चैत्रवृत्तित्वस्यैव सत्त्वात् ' चैत्रेण पक्ष्यतेऽपच्यत न तु पच्यते ' इतिप्रयोग उपपद्यते एवं मैत्रकर्तृकान्यक्रियाकाले क्रियाविशेषस्य तादृशान्यक्रियाया एव तथात्वात् वर्तमानकृ• तिजन्यत्वात् पाकानुकूलक्रियायाश्च वर्तमानकृतिजन्यत्वाभावात् ' मैत्रेण न पच्यते ' इति प्रयोगवोपपद्यते इत्यर्थः ।
喜
शङ्कते - न चेति, 'मैत्रेण न पच्यते' इत्यत्र कालविशेषो वर्तमानकालः स चाख्यातेन कृतिविशेषणतया बोध्यते, मैत्रवृत्तित्वाभावस्य कृतावऽन्वयादन्वियिनी कृतिः, अन्वयितावच्छेदकं च कृतिश्वम्, तदवच्छेदेन= वर्तमानकालावच्छिन्नकृतित्वावच्छेदेन हि कृतौ अभावः = मैत्रवृत्तित्वाभावो बोधयितुं शक्यते यथा - 'वर्तमानकालावच्छिन्ना कृतिमैत्रवृत्तिर्न' इति, न स्वति - कालक्रियो - भयविशेषेण विशेषितकृतित्वावच्छेदेन तु नञाऽभावो न बोधयितुं शक्यते- 'मैत्रेण पश्यते'
"Aho Shrutgyanam"