________________
सादर्श:
[ तृतीयाकारकेविशेषणत्वाभावेन तद्घटितधर्मस्याऽन्वयितावच्छेदकत्वाभावादिति वाच्यम्, कियाविशेषघटितधर्मस्यान्वयितानवच्छेदकत्वेपि तदवच्छिन्नत्वविशिष्टविशेषणताया अभावसंसर्गतया भानसंभवेन सामनस्यात् ।
इत्यादिकर्मप्रत्ययस्थले 'मैत्रवृत्तिकृतिजन्यपाकजन्यव क्लित्याश्रयस्तण्डुलः' इत्याकारकबोधोदयेन कृतेरेव क्रियायां विशेषणत्वेन कृतौ क्रियाया विशेषणत्वामात् तद्घटितधर्मस्य-पाकादिक्रियाविशेषितकृतित्वस्याऽन्वयितावच्छेदकत्वाभावात् तथा च 'मैत्रेण न पच्यते' इत्यत्र वर्तमानकालिककृतिसामान्येपि मैत्रवृत्तिस्वाभावस्यान्वयो न संभवति- मैत्रे पाककृतेरसंभवेपि कृत्यन्तरस्य बाधाभावात् वर्तमानकालिकपाकानुकूलकृतावपि मैत्रवृत्तित्वाभावस्यान्वयो न संभवति- कृतावुक्तरीत्या पाकक्रियाया विशेषणत्वाभावेन पाकक्रियावच्छिन्न (विशेषित ) कृतित्वस्याऽन्वयितावच्छेदकत्वाभावादिति यदुक्तम्- " आधेयत्वस्य तृतीयार्थत्वे चाधेयत्वाभावबोध एव कृतावङ्गीक्रियते ३९०" इति तन्नोपपद्यते । अस्मन्मते च तृतीयावाच्यमैत्रवृत्तिकृतौ पाकानुकूलत्वाभावबोधने किंवा वक्ष्यमाणदिशा पाके मैत्रवृत्तिकृतिजन्यत्वाभावबोधने न काप्यनुपपत्तिीरत्यर्थः । पूर्वपक्षी परिहरतिक्रियाविशेषति उक्तरीत्या क्रियाविशेषघटितधर्मस्य पाकक्रियाविशेषितकृतित्वस्यान्वयितानवच्छेदकत्वेपि तदवच्छिन्नत्व विशिष्टविशेषणतायाः पाकक्रियावच्छिन्नत्वसमानाधिकरणस्वरूपस्य अभावसंसर्गतया मैत्रवृत्तित्त्वाभावसंसर्गतया भानसंभवेन समञ्जस्यात्, भयं भावः- यद्यपि शाब्दबोधकाले कर्मप्रत्ययस्थले कृतेरेव क्रियायां विशेषणत्वेन पाकक्रियायाः कृतौ विशेषणत्वाभावात् पाकक्रियावच्छिन्नकृतित्वस्यान्वयितावच्छेदकत्वं न संभवतीति पाकक्रियावच्छिन्न कृतित्वावच्छेदेन मैत्रवृ. त्तित्वाभावस्यान्वयोपि न संभवति तथापि अभावो हि स्वरूपसंबन्धेत्यपरपर्यायेण विशेषगतासंबन्धेन सर्वत्रान्वितो भवतीत्यत्र मैत्रवृत्तित्वाभावस्य स विशेषणतासंबन्धः तदवच्छिन्नत्वविशिष्टः ( पाकक्रियावच्छिन्नत्वसमानाधिकरणः ) ग्राह्यः-- कृतौ तादृशः स्वरूपलक्षणः संबन्धोप्यस्त्येव चैत्रवृत्तिकृतेः पाकजनकत्वेन वस्तुगत्या कृतावनुकूलतासंबन्धेन पाकक्रियान्वयस्य सत्त्वेन कृतौ तदपच्छिन्नत्वम्-पाकक्रियावच्छिन्नत्वमस्त्येव शाब्दबोधे तस्य भानं न संभवतीत्यन्यदेतत् तथा च पाकक्रियावच्छिन्नत्वसमानाधिकरणस्वरूपसंबन्धेन चैत्रादिवृत्तिपाककृतावेव मैत्रवृत्तित्वामावस्यान्वयः संभवति न कृतिसामान्ये इति नोक्तदोष इति न 'मैत्रेण न पच्यते इति प्रयोगानुपपत्तिः, न वा “आधेयत्वस्य तृतीयार्थत्वे चाधेयत्वाभावबोध एव कृतावङ्गीक्रियते" इत्युक्तस्यानुपपत्तिः। पाकक्रियावच्छिन्नत्वस्य संसर्गकोटौ प्रवेशेन तदुपस्थित्यपेक्षापि नास्तीति सर्व समञ्जसमिति ।
नन्धन्वयितावच्छेदकावच्छिन्नत्वमेव विशेषणस्य संबन्धे भासते 'न तु तदन्यधर्मावच्छिन्नत्वमपि यथा - घटवद् भूतलम्' इत्यत्र भूतले घटसंयोगोप्यस्ति भूतलत्वमप्यस्तीति विशेषणस्य घटस्य संबन्धे संयोगे भूतलत्वावच्छिन्नत्वमेव भासते नान्यधर्मावच्छिन्नत्वं तथा च 'मैत्रेण न पच्यते' इत्यत्र यदुक्तम् .. 'तदवच्छिन्नत्वविशिष्टविशेषगतासंबन्धेन कृतौ मैत्रवृत्तित्वामावस्यान्वय उपेयते' इति
"Aho Shrutgyanam"