________________
शरदि पुष्प्यन्ति सप्तच्छदाः ] व्युत्पत्तिवादः ।
( ३९३ )
न चान्वयितावच्छेदकावच्छिन्नत्वमेव विशेषण संबन्धे भासते इतिनियमः, तथा सति शरादे पुष्यन्ति सप्तच्छदाः' इत्यादौ सप्तच्छदपुष्पोत्पत्तित्वादेः शरवृत्तित्वाधन्वयितानवच्छेदकत्वादाऽऽख्यातान्तप्रतिपाद्यतावच्छेदकपुष्पोत्पत्तित्वाद्यवच्छेदेन च शरवृत्तित्वान्वयबाधादऽवच्छेदकावच्छेदेनान्वयानुपपत्तेः । अन्वयितावच्छेदकसामानाधिकरण्यमात्रेण च तदन्वयोपगमे 'शरदि पुष्प्यन्ति सप्तच्छदाः ' 'शरदि पुष्प्यन्ति चम्पकाः' इत्यविशेषेण प्रयोगापत्तिः ।
:
तन्न युक्तं किं तु कृतित्वस्यैवान्वयितावच्छेदकत्वेन केवलकृतित्वावच्छिन्न ( कृतित्वावच्छिन्नत्वसमानाधिकरण ) विशेषणतासंबन्धेनैव कृतौ मैत्रवृत्तित्वाभावस्यान्त्रयः स्वीकार्यः, पाककृतित्वस्य न्यूनवृत्तित्वेनान्वयितावच्छेदकत्वाभावाच्च, कृतित्वावच्छिन्नत्वावच्छिन्न विशेषणतासंबन्धेन कृतौ मैत्रवृत्तित्वाभावान्वये हि कृतित्वावच्छेदेन यावत्कृतौ मैत्रवृत्तित्वाभावान्वय उपलभ्येतेति 'मैत्रेण भक्ष्यते' इत्यादिप्रयोगोपि न स्यात्, कृतित्वावच्छिन्न विशेषगतासंबन्धं परित्यज्य पाककृतित्वावच्छिन्न विशेषणतासंबन्धस्य ग्रहणे चेतन्नियमस्य व्याघातः स्यादित्याशङ्क्याह- न चेति । किं वात्रैवकारस्य 'भासते एव' इत्येवमन्वयः । किं चान्वयितावच्छेदकावच्छिन्नत्वं विशेषणसंबन्धे भासते यदि तदा 'विशेषणान्वयितावच्छेदकावच्छेदेनान्त्रयो भवति' इत्ययमेवार्थः प्राप्तः यत्र विशेषणं भवति तत्रैव विशेषण संबन्धस्यापि संभवादिति विज्ञेयम् । अयं नियम एव नास्ति येनोक्तदोषापत्तिः स्यात् तथा चोक्तवर्त्तमानपाककृतित्वावच्छिन्न विशेषगताया एव संबन्वत्वात् वर्तमानपाककृतावेव चैत्रादिनिष्ठायां मैत्रवृत्तित्वाभावस्यान्त्रयो जायते न तु कृतिसामान्ये इति न 'मैत्रेण पक्ष्यते' 'मैत्रेण गम्यते भक्ष्यते' इत्यादिप्रयोगानुपपत्तिरित्यर्थः । उक्तनियमस्वीकारे बाधकमाह- तथा सतीति, तथा सति = एतन्नियमस्वीकारे हि 'शरदि पुष्प्यन्ति सप्तच्छदाः' इत्यत्र शरद्वृत्तित्वं विशेषणमस्ति तदन्वयितावच्छेदकत्वं सप्तच्छदपुष्पोत्पत्तित्वस्य न संभवति - 'पुष्यन्ति' इत्यनेनोपस्थित्यभावात् किं तु पुष्पोत्पत्तित्वस्यैव. पुष्पोत्पत्तित्वावच्छेदेन च शरवृत्तित्त्रस्यान्वयो न संभवति - सकलपुष्पोत्पत्तिषु शरद्वृत्तित्वस्याऽसंमवादित्यऽवच्छेदका - बच्छेदेन=अन्वयितावच्छेदकावच्छेदेन ( पुष्पोत्पात्तत्वावच्छेदेन ) अन्ययानुपपत्तेः= विशेषणान्वयो न संभवति । अन्वयितावच्छेदकसामानाधिकरण्यमात्रेण = किंचित्पुष्पोत्पत्तौ तदन्वयोपगमे =शरवृत्तित्वस्यान्ययोपगमे च सप्तच्छदपुष्पोत्पत्तौ शरवृत्तित्वान्वयस्य संभवेपि दोहदवशात् किंचित्चम्पकपुष्पोत्पत्तेरपि शरदि संभवेन किंचित् चम्पकपुष्पोत्पत्तावपि शरद्वृत्तित्वसंभवात् 'शरदि पुष्पन्ति सप्तच्छदाः' इतिवत् 'शरदि पुष्प्यात चम्पकाः' इत्यपि प्रयोगः स्यात्, न चैतदिष्टमिति दोष परिहाराय यथा 'शरदि पुष्यन्ति सप्तच्छदाः' इत्यत्र सप्तच्छदपुष्पोत्पत्तित्वावच्छेदेनैव शरवृत्तित्वस्यान्वय उपेयते न तु पुष्पोत्पत्तित्वरूपान्वयितावच्छेदकावच्छेदेन तथैव 'मैत्रेण न पच्यते' इत्यत्रापि वर्तमानपाककृतित्वावच्छेदेनैव मैत्रवृत्तित्वाभावस्यान्वय उपेयते न तु शुद्धान्वयितावच्छेदक कृतित्वावच्छेदेनेत्यर्थः ।
"Aho Shrutgyanam"