________________
( ३७८ )
सादर्श:
[ द्वितीयाकारकद्वितीयखण्डेधिकरणत्वमादाय नाऽप्रसिद्धि: - तथा सत्यपि तत्तदशमीप्रागभावोधिकरणकालस्य स्वाधिकरणकृष्णनवमीप्रागभावावच्छिन्नभेदवत्त्वसंबन्धेन तत्तत्प्रागभावाधिकरणत्वाक्षतेः ।
न चैवमपि व्यवहितपूर्वकृष्ण नवमीप्रागभावावच्छिन्नभेदघटितसंबन्धेनाऽव्यवहितपूर्वकृष्णनवमीपूर्वतिथीनामपि तत्तदशमीप्रागभाववत्त्वात् तदधिकरणतिथिव्यापकत्वं पूजायां न संभवतीति वाच्यम्, स्वावच्छिन्न कृष्णनवमीप्रागषापादकत्वासंभवात् तत्सामान्यभेदनिवेशे तादृशस्य सामान्यरूपस्य कृष्णनवमीप्रागभावावच्छि नभेदस्य निवेशेऽप्रसिद्धिः अभिप्रेतषोडशतिथिषु दशमीप्रागभावाधिकरणत्वस्याऽप्रसिद्धिरेव स्यात् तासु भाविकृष्णनवमीप्रागभावस्यैव सत्त्वेन भाविकृष्णनत्रमीप्रागभावावच्छिन्नमेदस्य दशमीप्रागभावसंबन्धभूतस्याऽसत्त्वात्, सा चाप्रसिद्धिरेतेन = उक्तरूपेण दशमीप्रागभावाविकरणत्वस्य संबन्धपरिष्कारेण नास्तीत्यन्चयः, अप्रसिद्ध्यभावे हेतुमाह - तथा सत्यपीति, तथा सत्यपि= संबन्धस्वरूपपरिष्कारे दशमीप्रागभावाऽनिवेशे उक्तरीत्या षोडशतिथिषु दशमीप्रागभावाधिकरणत्वाऽप्रसिद्धावपि दशमीप्रागभावनिवेशेनाऽप्रसिद्धिर्नास्तीति भावः - तथा हि तत्तद्दशमीप्रागभावाधिकरणत्वं दशमीपूर्वमा वितिथिकूटकाले एव संभवतीति स्वाधिकरण= दशमीप्रागभावाधिकरणीभूत कृष्ण नवमीप्रागभावावच्छिन्नभेदवत्त्वसंबन्धेन तत्तद्दशमी प्रागभावाधिकरणकालस्य== अभिप्रेतषोडशतिथिकालस्य तत्तत्प्रागभावाधिकरणत्वम् = दशमीप्रागभावाधिकरणत्वमक्षतमेव, अत्र च यद्यपि दशमीप्रागभावाधिकरणत्वं कृष्णनवमीपूर्व भाव्यष्टम्यादिष्वस्ति तथापि तत्र कृष्णनवमीप्रागभावस्यैव सत्त्वेन कृष्णनवमी प्रागभावावच्छिन्नभेदवत्त्वं नास्तीति न तासां विवक्षितदशमी प्रागभावाधिकरणत्वं प्राप्नोति, दशमीप्रागभावाधिकरणत्वे सति कृष्णनवमीप्रागभावानधिकरणत्वं चाभिप्रेतषोडशतिथिष्वेवास्ति । तत्र च पूजासंबन्धस्य सत्त्वात् पूजायां तादृशतिथिकूटव्यापकत्वं प्राप्तमेवेत्यर्थः ।
नन्वेवमपि = उक्तरीत्या स्वाधिकरणत्वसंबन्धकोटौ दशमीप्रागभावाधिकरणी भूतकृष्णनवमीप्रागभावावच्छिन्नभेदस्य निवेशे कृतेपि आश्विन शुक्ल दशमीप्रागभावाधिकरणत्वं व्यवहितपूर्वकृष्णनवम्याम्=भाद्रपद कृष्णनवम्यामपि संभवति तादृशभाद्रपद कृष्णनवमी प्रागभावश्चाश्विन कृष्णप्रतिपदादितिथिषु नास्तीति तत्र व्यवहितपूर्वकृष्ण नवमीप्रागभावावच्छिन्नभेदोस्त्येवेति तादृशभेदघटितकालिकसंबन्धेनाऽव्यवहितपूर्वकृष्णनवमी पूर्वतिथीनाम् = आश्विन कृष्णप्रतिपदादितिथीनामपि तत्तदशमीप्रागभाववत्त्वमस्ति पूजाधिकरणत्वं च नास्तीति कथं पूजायां दशमीप्रागभावाधिक• रणकृष्ण नवमीप्रागभावानधिकरणतिथिकूटव्यापकत्वं स्यात् उक्तरूपाक्रान्तास्वाश्विन कृष्णप्रतिपदादिषु पूजाया अभावात्. कृष्णनवमीपदेन भाद्रपद कृष्णनवम्या अपि ग्रहणसंभवादित्याशङ्क्याह-न चैवमपीति । कृष्णनवमीपदेन पूर्वकृष्णनवमी ग्रहणमात्रप्रसक्तदोषं परिहरति-स्वावच्छिनेति, उक्ते प्रागभावसंबन्धे = दशमीप्रागभावाधिकरणत्वस्य संबन्धपरिष्कारे यः खलु स्वावच्छिन्न
" Aho Shrutgyanam"