________________
यावच्छब्दघटितप्रयोगविचारः] व्युत्पत्तिवादः ।
(३७७) तत्र तत्प्रकृत्यर्थदशम्या अन्वयः, तावता दशमीप्रतियोगिकपागभावलाभः, तस्य स्वप्रतियोग्यऽवृत्तित्वविशिष्टव्यापकतासंबन्धेन पूजारूपसमभिव्याहृतक्रियायामन्वयः । व्यापकत्वं च स्वाधिकरणतिथिनिष्ठाभावप्रतियोगितानवच्छेदकपूजाविशेषत्ववत्वम् । स्वाधिकरणत्वं च स्वाधिकरणकृष्णनवमीप्रागभावावच्छिन्नभेदविशिष्टकालिकविशेषणतासंबन्धेन, एतेन कृष्णनवमीप्रागभावाधिकरणप्रतियोगिकभेदस्याऽव्यावर्तकतया तत्सामान्यभेदनिवेशे भाविकृष्णनवमीमागभावायल्लब्धं तदाह-तावतेति । तावता एतावता ' दशमी यावत् ' इत्यस्य दशमीप्रतियोगिकप्रागभाव इत्यर्थः सिद्ध इत्यर्थः । तस्य दशमीप्रतियोगिकप्रागभावस्य, स्वं दशमीप्रागभावस्तत्प्र. तियोगिभूता या दशमी तदवृत्तित्वसमानाधिकरणं यद् व्यापकत्वं तेन संबन्धेन पूजारूपक्रियायामन्वयः-पूजायां दशमीवृत्तित्वं नास्ति तदतिरिक्तषोडशतिथिव्यापकत्वं चास्त्येव. एतेनाश्विनकृष्णनवमीमारभ्य दशमीप्रागभावाधिकरणपोडशतिथिवृत्तिस्वं पूजायां प्राप्त दशम्यां च दशमीप्रागभावो न भवतीति दशम्यऽवृत्तित्वमपि प्राप्तम् । संबन्धघटकव्यापकत्वस्य स्वरूपमाहव्यापकत्वमिति, स्वं दशमीप्रागभावस्तदधिकरणीभूतनवम्यादितिथिषु पूजाया अभावो नास्तीति तन्निष्टाऽभावप्रतियोगितानवच्छेदकं यत्पूजाविशेषत्वं तद्वत्त्वमेव पूजायां व्यापकत्वमस्तीत्यर्थः । ननु दशमीप्रागभावाधिकरणभूतास्तु भाद्रपदतिथयोपि भवन्ति तासु पूजासंबन्धस्याभावात् कथं पूजायां स्वाधिकरणतिथिव्यापकत्वं स्यादित्याशय स्वाधिकरणत्वं परिष्करोति-स्वाधिकरणत्वमिति, स्वं दशमीप्रागभावस्तदधिकरणीभूता याऽऽश्विनकृष्णनवमी तत्प्रागभावावच्छिन्ना या माश्विनकृष्णनवमीपूर्वभूता अष्टम्यादयस्तिथयस्तासां यो भेदः कृष्णनवमीप्रागभावावच्छिन्ना न इत्याकारकभेदस्तादृशभेदविशिष्टेन कालिकविशेषणतासंबन्धेन कालिकसंबन्धेन दशमीप्रागभावाधिकरणत्वं ग्राह्य तथा च कृष्णनवमीपूर्वभाव्याटम्यादितिथिषु कृष्णनवमीप्रागभावस्यैव सत्त्वात् कृष्णनवमीप्रागभावावच्छिन्ना नेति भेद एवं नास्ति येन. तादृशाष्टम्यादीनां तादृशभेदघटितसंबन्धेन दशमीप्रागभावाधिकरणत्वं स्यात् तथा च तादृशाष्टम्यादिषु पूजाया असत्त्वेपि न व्यापकत्वक्षतिः, कृष्णनवमीप्रागभावावच्छिन्ना नेति भेदः कृष्णनवम्यादिषु भवतीति तादृशभेदधटितसंबन्धेन तासा दशमीप्रागभावाधिकरणत्वमप्यस्ति पूजाधिकरणत्वमप्यस्तीति पूजायां व्यापकत्वं प्राप्तमित्यर्थः । स्वाधिकरणत्वपरिष्कारे दशमीप्रागभावनिवेशस्य फलमाह-एतेनेति, यदि 'स्वाधिकरणत्वं च कृष्णनवमीप्रागभावावच्छिनभेदविशिष्टकालि कविशेषणतासंबन्धेन ' इत्येवोच्येत तदा कृष्णनवमीपदेन भाविकृष्णनेवमीग्रहणसंभवाद् भाविकृष्णनवमीप्रागभावाधिकरणस्वमादाय भाविकृष्णनवमीप्रागभावावच्छिन्ना नेति भेदस्याभिप्रेतषोडशतिथिष्वऽसत्त्वात् ( तत्र भाविकृष्णनवमीप्रागभावावच्छिन्नत्वस्यैव सत्त्वात् ) तेन संबन्धेन तासां षोडशतिथीनां दशमीप्रागभावाधिकरणत्वमेव न संभवतीति कृष्णनवमीत्रागभावाधिकरणप्रतियोगिकमेदस्य कृष्णनवमीप्रागभावावच्छिन्नभेदस्याव्यावर्तकतया अभिप्रेतषोडशतिथीनां तदन्यतिथीनां च परस्परं विशे
"Aho Shrutgyanam"