________________
(३७६)
सादर्शः-
[ द्वितीयाकारकद्वितीयखण्डे
व्याप्यकालसमुदाये सजातीयत्वविशेषणात् पूजायामुक्तविशेषणद्वयाक्रान्तदण्डादिसमुदायाऽव्यापकत्वेपि न बाधः, अन्वयितावच्छेदकरूपेण साजात्यस्य विवक्षणात्. उक्तस्थले च तिथिम् ' इत्यस्याध्याहारेण दशमीपदार्थतावच्छेदकस्य तिथिवघटितत्वेन वा यावत्पदार्थान्वयितावच्छेदकतया तिथित्वभानात्, तेन रूपेण दण्डादेर्दशमीसजातीयत्वाभावात् । तिथिश्चाऽखण्डकालविशेषरूपा न तु चन्द्रमण्डलकलारम्भाद्यनुगुणक्रियाप्रचयरूपा- पूजायास्तावकियावृत्तित्वासंभवात् ।
अत्र च प्रागभाव एव यावत्पदार्थः। द्वितीयार्थः प्रतियोगित्वमनुयोगित्वं वा,
ननूतपूजा षोडशतिथीनां कस्मिंश्चित् प्रातरादौ समये एवं क्रियते नाऽहर्निशमिति कथं पूजायाः षोडशतिथिव्यापकत्वं स्यादित्याशङ्क्याह-व्याप्यकालेति, व्याप्यकालसमुदाये-पूजाव्याप्यकालसमुदाये किं वा षोडशतिथ्यात्मककालापेक्षया व्याप्यकालसमुदाये पूजाधिकरणे काले सजातीयत्वम् तिथित्वेन रूपेण दशमीसजातीयत्वं स्वसजातीयेत्युक्तसीमावलक्षणनिक्षिप्तविशेषणेन विवक्षि. तमस्तीति दण्डादिसमुदाये विशेषणद्वयस्य समभिव्याहृतकाल ( कृष्णनवमी) प्रागभावानधि. करणत्वस्य स्वप्रागभावा( दशमीप्रागभावा )धिकरणत्वस्य च सत्त्वेपि तिथित्वेन दशमीसजातीयस्वाभावात् पूजायां तादृशदण्डादिसमुदायाव्यापकत्वेपि न व्यापकत्वस्य बाधः-तिथित्वेन दशमीसजातीयासु षोडशतिथिषु पूजायाः सत्त्वेन व्यापकत्वाक्षतेरित्यर्थः । उक्त हेतुमाह--अन्वयितेति, पूजायाः षोडशतिथ्यात्मककालेऽन्वयोस्तीति पूजान्वयी षोडशतिथ्यात्मककालस्तस्यावच्छेदकं च तिथित्वमित्यन्वयितावच्छेदकं यत् तिथित्वं तेन रूपेण साजात्यस्य विवक्षणाद् दण्डादेश्च तिथिस्वानाक्रान्ततया तिथित्वेन रूपेण सजातीयत्वाभावादित्यर्थः। ननु कथमत्र तिथित्वमन्वयितावच्छेदकं स्यादित्याशङकायामाह- उक्तस्थले इति, उक्तस्थले=" आरभ्य तस्यां दशमी तु यावत् ।" इत्यत्र द्वितीयान्ततिथिपदस्याध्याहारेण · दशमी तिथिं यावत् ' इतिजातमिति दशमीपदार्थतावच्छेदकं तिथित्वमिति प्राप्तम्, अध्याहारस्वीकारामावे च दशम्यास्तिथिरूपत्वाद् दशमीपदार्थतावच्छेदकं तिथित्वघटितम् देशमीतिथित्वमेव प्राह्यमिति सीमारूपयावत्पदार्थान्वयिनी या दशमी तदवच्छेदकतया तियित्वं भासते एवेत्यन्वयितावच्छेदकत्वं तिथित्वे प्राप्तमेव तेन च तिथित्वरूपेण दण्डादेर्दशमीसजातीयत्वाभावात्तत्र दण्डादौ पूजाया अभावेपि न पूजायां व्यापकत्वक्षति:-तिथिस्वेन सजातीयासु षोडशतिथिषु पूजायाः सत्त्वादेवेत्यथः । तिथिस्वरूप. माह-तिथिश्चेति, तिथिश्च ज्योतिश्शास्त्रानुमताऽखण्डकालरूपैव ग्राह्या न तु चन्द्रमण्डल कलारम्भानुगुणक्रियासमूहरूपा. अन्यथा पूजायाः प्रातरादौ काले एव सत्त्वेन तादृशक्रियाश्रयीभूतप्रत्येकक्षणेष्वऽभावात् तिथिव्यापकत्वं न स्यादित्यर्थः ।
" आरभ्य तस्याम् " इत्युक्तोदाहरणं स्वयं नैयायिकरीत्या परिष्करोति-अत्रेति । तत्र द्वितीयार्थे प्रतियोगित्वादौ । तत्प्रकृत्यर्थदशम्याः द्वितीयाप्रकृयर्थदशम्याः । एतापर्यन्तं
"Aho Shrutgyanam"