________________
यवच्छब्दघटितप्रयोगविचारः व्युत्पत्तिवादः ।
( ३७५) इत्यादौ । मर्यादा-सीमा कालरूपा देशरूपा च. कालनिष्ठं तत्व: च तत्कालनिष्ठं समभिव्याहृतकालप्रागभावानधिकरणस्वप्रागभावाधिकरणस्वसजातीय यावत्कालवृत्तिसमभिव्याहृतक्रियानधिकरणत्वम्, एवं चोक्तस्थले यावच्छन्देन पूजारूपक्रियायां शुक्लदशमीनिष्ठतादृशसीमात्वनिरूपकत्वं प्रत्याय्यते, तावतैवा. र्थतः शुक्लदशम्यां मर्यादात्वं लभ्यते । तनिष्ठसीमात्वनिरूपकत्वं च तदवृत्तित्वे सति कृष्णनवमीप्रागभावानधिकरणशुक्लदशमीप्रागभावाधिकरणतिथिकूटव्या. पकत्वम्, तावता षोडशतिथ्यधिकरणकषोडशपूजारूपस्यैककर्मणो विधेयतया लाभः।
आश्विनकृष्णनवम्यां': पूजामारभ्याऽऽश्विन शुक्लदशमी यावत् (शुक्लनवमीपर्यन्तं दशमी विना) प्रपूजयेदित्यर्थः । देशकालयो देन द्विविधां मर्यादामाह- मर्यादेति । तत्त्वम्-सीमात्वम् । तत्कालेति-तत्कालनिष्ठं यत् सममिव्याहृतकालप्रागभावानधिकरणस्वप्रागमावाधिकरणस्वसजातीययावत्कालवृत्तिसमभिव्याहृतक्रियानधिकरणत्वं तदेव दशमीनिष्ठं सीमात्वमित्यन्वयः, तत्र तत्कालनिष्ठम् दशमीकालनिष्ठम् ( दशमीनिष्ठम् ) यत्- सममिव्याहृतकालः कृष्णनवमीकालस्तत्प्रागभावानधिकरणं स्वप्रागभावस्य दशमीप्रागभावस्य चाधिकरणं यः स्वसजातीयः दशमीसजातीयो यावत्कालः कृष्णनवमीमारभ्य शुक्लनवमीपर्यन्तकालस्तवृत्तिः समभिन्याहृता या क्रिया पूजारूपक्रिया तदनधिकरणत्वं तदेव दशभ्यां सीमात्वमस्ति, नवमनवरात्रपर्यन्तमेव पूजाविधानेन दशम्यां पूजाया अभावात, कृष्णनवमीप्रागभावस्याधिकरणीभूतः कालः कृष्णाष्टमीपर्यन्तकालः कृष्णनवमीप्रागभावानधिकरणीभूतश्च कृष्णनवमीमारभ्य कालः स एव कालः शुक्लदशमीप्रागभावाधिकरणोपि । साजात्यं च तिथित्वरूपेण विज्ञेयम् । फलमाह-- एवं चेति, शुक्लदशमीनिष्ठसीमात्वस्य निरूपिका पूजारूपक्रियैव- दशम्याः पूजारूपक्रियानधिकरणत्वात्, तदनधिकरणस्यैव तत्सीमात्वात्-तदुच्यते-तेन विना सीमेत्यर्थः । तावतेतियतो यावच्छब्देन तु पूजारूपक्रियायामुक्तसीमात्वनिरूपकत्वमात्र प्रत्याय्यतेऽतो दशम्यां यो मर्यादात्वलाभः स आर्थ एवेत्यर्थः । सीमात्वनिरूपकत्वस्वरूपमाह-तन्निष्ठति, तनिष्ठदशमीनिष्ठ । तदवृत्तित्वे सति-शुक्लदशम्यऽवृत्तित्वे सति कृष्णनवमीप्रागभावानधिकरणीभूतस्तथा शुक्लदशमीप्रागभावाधिकरणीभूतो यस्तिथिकूट:-कृष्णनवमीमारभ्य शुक्लनवमीपर्यन्तः षोडशतिथ्यात्मकस्तिथिसमूहस्तव्यापकत्वं यत्पूजारूपक्रियायामस्ति तदेव दशमीनिष्ठसीमावस्य निरूपकत्वं विज्ञेयमित्यर्थः । फलमाह--तावतेति । तावता-एतावता कृष्णनवमीमारभ्य शुक्लनवमीपर्यन्तं षोडशतिथिषु षोडशोपचारात्मकपूजारूपमेकमेवे कर्मात्र विधेयमस्तीति लभ्यते न तु तिथिभेदेन षोडश कर्मीणीत्यर्थः ।" समभिव्याहृत " इत्यत्र स्वसमभिव्याहृत इतिपाठे स्वपदेन दशमी ग्राह्या।
"Aho Shrutgyanam"