________________
(३७४).
सादर्श:- [ द्वितीयाकारकद्वितीयखण्डेन्वयः। असाहित्यं च स्वकर्तृकसमैभिव्याहृतगमनादिक्रियासमानकालीनतादृश. क्रियाकर्तृत्वरूपसाहित्याभावः। क्रियान्वयिस्वकर्तृकतादृशक्रियाकालीनत्वाभाव एव वा विनार्थः, कर्तृत्वे पुत्रादेराधेयत्वेनान्वयः, विभक्तिः साधुत्वाथैव । अस्तु वाऽऽधेयत्वं द्वितीयार्थः । सप्तम्या आधियत्वार्थकत्वेपि नात्र सप्तमीप्रसक्तिःतस्याः कारकविभक्तित्वेन क्रियान्वयिस्वार्थबोधकत्वात्, अतः शेषषष्ठीप्रसत्त्या तामेवोपपदविभक्तिर्द्वितीया बाधते इति "सर्वा उपपदविभक्तयः षष्ठ्यपवादिकाः" इत्यस्याऽविरोध इति । विनासमानार्थकयोतेऽन्तरेणेतिनिपातयोरपि दर्शितैव रीतिः । एवं विनायुक्ततृतीयापञ्चमीस्थलेपि ।
मर्यादाभिविध्यर्थकयावच्छन्दयोगेपि द्वितीया दृश्यते । तत्र मर्यादार्थको यावच्छब्दः- " आरभ्य तस्यां दशमी तु यावत् प्रपूजयेत् पर्वतराजपुत्रीम् " असाहित्यपदार्थमाह- असाहित्यमिति, स्वं गमनकर्ता पिता तत्कर्तृका समभिव्याहृता या गत इति गमनक्रिया तादृशक्रियासमानकालिका या तादृशक्रिया=गमनक्रिया तस्कर्तृत्वरूपस्य साहित्यस्याभाव एवाऽसाहित्यपदार्थ इत्यर्थः, गच्छता पुत्रेण च गमनरूपमेव साहित्यं कर्तव्यमिति गमनकर्तृत्वं साहित्यमित्युक्तम् । सर्वत्रोक्तस्थलेषु विनापदार्थोऽभाव एवेत्युक्तमिति 'पुत्रं विना गतः ' इत्यत्राप्यऽभावेनैव विनापदार्थेन भवितव्यमित्याशयेन पक्षान्तरमाह- क्रियान्वयीति, क्रियान्वयी पितृकर्तृकगमनक्रियान्वयी यः स्वकर्तृकतादृशक्रियाकालीनत्वस्य पुत्रकर्तृकगमनक्रियाकालिकत्वस्याभावः स एव विनापदार्थः स चाभावः पितृगमनेऽस्त्येवेत्यर्थः । स्वकर्तृकेत्यत्र मार्तत्वं पुत्रनिष्ठं विवक्षितमिति पुत्रस्य कर्तृत्वे आधेयत्वसंबन्धेनैवान्वयेनाधेयत्वस्य संसर्गविधया मानसंभवेन तदुपस्थित्यपेक्षाभावात् पुत्रपदोत्तरद्वितीया विभक्तिः साधुत्वार्थत्वेन निरर्थकैवेत्याहकर्तृत्वे इति । विभक्तनिरर्थकत्वानौचित्यात् पक्षान्तरमाह- अस्तु वेति, द्वितीयाविभक्त्यर्थभूताधेयत्वेन कर्तृत्वे पुत्रान्वयो ज्ञेयः । ननु यद्यत्राधेयत्वं द्वितीयार्थस्तदात्र पुत्रपदात्सप्तमी किं न स्यात् तस्यायाधेयत्वार्थकत्वादित्याशङ्क्याह- सप्तम्या इति । सप्तमीप्रसक्त्यभावे हेतुमाह- तस्या इति, तस्याः सप्तम्याः कारकविभक्तित्वेन क्रियान्वयिस्वार्थबोधकत्वमस्ति. अत्र च नाधेयत्वस्य क्रियान्वयित्वमस्तीति न सप्तमीप्रसक्तिः । अत इति- अत्र विभक्त्यर्थस्य क्रियान्वयित्वं नास्तीस्पऽकारकविभक्तेः शेषषष्ठया एवं प्राप्तिरस्ति तां च विनापदयोगे विधीयमाना द्वितीया बाधते इति पुत्रपदोत्तरं द्वितीया प्राप्ता- उपपदविभक्तीनां विनादिपदसंयोगेन प्राप्तानां विभक्तीनां षष्ठीबाधकत्वादित्यर्थः । उक्त प्रमाणमाह- सर्वा इति । 'ऋते , ' अन्तरेण ' इति पदयोरप्येषेव रीतिरित्याह-- विनासमानार्थकयोरिति । एवम् 'पुत्रेण विना गतः' 'पुत्राद्विना गतः ' इत्यत्राप्युक्तरीतिरेव ज्ञेयेत्याह- एवमिति । विनायुक्त विनापदसमभिव्याहृत ।
मर्यादेति-मर्यादार्थकस्याभिविध्यर्थकस्य च यावच्छब्दस्य योगेपि द्वितीया भवति, तत्र 'तेन बिना मर्यादा' 'तेन सहाभिविधिः' । मर्यादार्थकयावच्छन्दोदाहरणमाह- आरभ्येति । तस्याम्
"Aho Shrutgyanam"