________________
विनापदघटितप्रयोगाः 1
व्युत्पत्तिवादः ।
विना वातं वृक्षः पतितः ' इत्यादौ विनापदार्थस्याभावस्याश्रयतासंबन्धेन वृक्षेऽन्वयात् ' वाताभावविशिष्टो वृक्षः पतितः' इति शब्दतो लभ्यते, पतनेऽनुभवसिद्धो वातजन्यत्वाभावलाभश्चाऽऽर्थः - जन्यतायाः पदानुपस्थाप्यत्वात्. तदभावस्य तस्य वृत्त्यनियामकसंबन्धत्वात् तदवच्छिन्नवाताभावस्य च शब्देन बोधयितुमशक्यत्वात् ।
(३७३)
6
'पुत्रं विना गतः' इत्यादौ पुत्रादिपदं लक्षणया पुत्रगमनादिपरम्, विनापदबोध्यतदभावश्च समानकालीनत्वादिसंबन्धेन गमनेऽन्वेति समानकालीनत्वचटककालनिष्ठं स्वाधिकरणत्वमनवच्छिन्नं बोध्यम्, अतो गमनादिकाले तदनधिकरणदेशावच्छेदेन गमनाद्यभावसत्त्वेपि नातिप्रसङ्गः ।
५
केचित्तु - उक्तस्थलेऽसाहित्यमेव विनापदार्थः, तस्य च गमनादिकर्तर्यबिना वातमिति - वातमिति प्रतियोगित्वं द्वितीयार्थस्तथा च वाताभावविशिष्ट इत्यस्य वातप्रतियोगिकाभावविशिष्ट इत्यर्थः । ननु ' विना घातं वृक्षः पतितः । इत्यत्र वृक्षकर्तृकं पतनं वातजन्यत्वाभाववदिति प्रतीतिर्भवति न तु वाताभावविशिष्टो वृक्षः पतित इत्याशङ्क्याहपतन इति, 'विना बातम् 9 इत्यत्र जन्यतायाः कस्यापि पदस्यार्थत्वाभावात् पतने वातजन्यत्वाभावलाभ आर्थ एव, तथा च जन्यतायाः पदानुपस्थाप्यत्वात् तदभावस्य = जन्यत्वाभावस्य ( वातजन्यत्वाभावस्य ) शब्देन बोधयितुमशक्यत्वात् पदोपस्थाप्यस्यैव शब्देन बोधयितुं शक्यत्वात् तथा तस्य = जन्यत्वस्य वृत्त्यनियामक संबन्धत्वेन तदवच्छिन्नत्राताभावस्य = जन्यत्वसंबन्धावच्छिन्नप्रतियोगिताकवाताभावस्यापि ( जन्यत्व संबन्धेन वाताभावस्यापि ) शब्देन बोधयितुमशक्यत्वात् पतने वातजन्यत्वाभावलाभ आर्थ एवेत्यर्थः ।
पुत्रं विनेति - अत्र पुत्रपदस्य लक्षणया पुत्रगमनपरत्वात् ' पुत्रगमनं विना=पुत्रगमनाभावकाले गत इत्यर्थः । तदभावः = पुत्रगमनाभावः । यस्मिन् काले पुत्रगमनाभावस्तस्मिन् काले । एव पितृगमन मिति समानकालिकत्वं तेन संबन्धेन पुत्रगमनाभावविशिष्टं पितृगमनमित्यर्थः । संबन्धभूतसमानकालिकत्ववटककाले यत् स्वाधि करणत्वम् = पुत्रगमनाभावाधिकरणत्वं तदऽनवच्छिन्नम् = देशानवच्छिन्नं बोध्यं तथा च पित्रा सह पुत्रस्य गमनकाले तदनधिकरणदेशावच्छेदेन-यन्मार्गोपरि पितृपुत्राभ्यां न गम्यते तन्मार्गे = तदेशावच्छेदेन किं वा पितृगमनानधिकरणदेशावच्छेदेन=मार्गान्तरावच्छेदेन पुत्रगमनाभावसत्त्वेपि नातिप्रसङ्गः = ' पुत्रं विनागतः । इतिप्रयोगापत्तिर्नास्ति, अन्यथा कालनिष्ठस्य पुत्रगमनाभावाधिकरणत्वस्य देशेनावच्छिन्नत्वे पितृगमनानधिकरणदेशावच्छेदेन पुत्रगमनाभावस्य पुत्रगमनकालेपि सत्त्वेन प्राप्त्या ' पुत्रं विना गतः ' इति प्रयोगः स्यादेव न चैतदिष्टमित्यर्थः ।
लक्षणाश्रयणगौरवरहितं मतान्तरमाह- केचिदिति । उक्तस्थले- 'पुत्रं विना गतः' इत्यत्र । तस्य=असाहित्यस्य । तथा च पुत्राऽसाहित्यवान् ( पुत्रसाहित्याभावविशिष्टः ) गत इत्यर्थः ।
"Aho Shrutgyanam"