________________
( ३७२ )
सादर्श:- [ द्वितीयाकारकद्वितीयखण्डे
एवकारस्थले चाऽभावरूपे एवार्थेऽन्यरूपतदर्थान्तरस्याऽऽधेयतासंबन्ध इति न संभवति - आधेयतायास्तद्वत्येव संबन्धत्वात् न तु तदभावे । न च तत्राधेय - त्वाभावो न प्रतीयते. अपि तु तत्संबन्धावच्छिन्नप्रतियोगिताकपृथिव्याद्यन्याभाव इत्युपेयं तादृशप्रतियोगिताकत्वमेवाभावेऽन्यस्य संबन्धोस्त्विति वाच्यम्, आधेयतासंबन्धस्य प्रतियोगिन आधारस्यानुयोगिन्याधेये वृत्त्यनियामकत्वेनाऽभावप्रतियोगितानवच्छेदकत्वात् । 'चैत्रः पचति' इत्यादौ कृत्यादिसंबन्धस्थाsपदार्थत्वेपि पाककृतिमान्' इत्यादौ मतुबादिपदेन विवरणवद् उक्तस्थले सामानाधिकरण्यस्य पदेन विवरणमपि न विरोधमापादयति, विवरणीयार्थस्याप्यन्य लभ्यत्वेऽपदार्थतोपपत्तेरित्यलम सदावेशेन ।
स्यान्ययं वक्ष्याम इत्याशङ्कयाह - एवकारस्थल इति । परिहारहेतुमाह - आधेयताया इति, यथा 'भूतले घटः ' इत्यत्र तद्वति= आधेयत्वत्रत्ति भूतलवृत्तिघटे एव भूतलस्यावेयतासंबन्धः संभवति न तु भूतलाभावे तथा एवकारस्थलेप्यन्यपदार्थस्य स्वाभावे आधेयतासंबन्धो न संभवतीत्यर्थः । नन्वेवकारस्थले आधेयत्वाभावो न प्रतीयते नाम आधेयतासंबन्धेनान्यपदार्थस्याSमावेन्वयो नोच्यते किं तु तत्संबन्धावच्छिन्न- आधेयत्व संबन्धावच्छिन्नप्रतियोगिताक पृथिव्याद्यन्याभावो गन्धे प्रतीयते तादृशाभावे च तादृशप्रतियोगिकत्वम् = आधेयत्वसंबन्धावच्छिन्नप्रतियोगिताकत्वसंबन्धेन पृथिव्याद्यन्यपदार्थस्यान्वय इत्युच्यते इत्याशङ्क्याह-न चेति । परिहारमाहभधेयतेति, अभावे आधेयत्व संबन्धावच्छिन्नप्रतियोगिताकत्व संबन्धेनाऽन्यपदार्थस्यान्वयस्वीकारेपि आधेयतासंबन्धेनान्यपदार्थाभाव इत्येव प्राप्तं तत्र 'पृथिव्यामेव गन्ध:' इत्यत्रान्यपदार्थाधेयताभावो गन्धे बोधनीय इत्याधारभूतोन्यपदार्थ एवाभावप्रतियोगी आधेयभूतो गन्धश्वातुयोगी आधेयतासंबन्धश्च वृत्त्यनियामक इति अनुयोगिन्याधेये गन्धे प्रतियोगिभूताधारस्यान्यपदार्थस्याधेयतासंबन्धोऽभावीयप्रतियोगितावच्छेदको न संभवति--वृत्त्यनियामकत्वादिति न चायं कल्पोपि युक्त इति नैवकारस्थले आधेयत्वस्य संसर्गविधया भानं संभवतीत्यर्थः । “अविनाभावः " इत्यस्य दीधितिकृता यः 'साध्य सामानाधिकरण्यम् " इति निष्कर्ष उक्त स आपाततोऽपदार्थ एव प्रतिभातीति तद्दोषं प्रसङ्गसंगत्योद्धरति - चैत्र इंति, यथा चैत्रः पचति ' इत्यत्र कृतेराख्यातार्थत्वेपि कृतिसंबन्धस्तु यद्यपि कस्यापि पदस्यार्थो नास्ति ' चैत्रः पचति ' इत्यस्य पाककृतिमान् ' इति विवरणे च मतुपा संबन्धस्यैव विवरणं क्रियते तथापि संबन्धस्याsपदार्थत्वं नास्ति - अन्यलभ्यत्वाभावात् एवमुक्तस्थले= " अविनाभावः " इत्यत्र साध्यसामानाधिकरण्यं यद्यपि कस्यापि पदस्यार्थो नास्ति तथापि पदेन "साध्य सामानाधिकरण्यं व्याप्तिः" इतिपदेन साध्य सामानाधिकरण्यविवरणेपि विरोधः = अपदार्थ विवरणत्वदोषो नास्ति - साध्यसा - मानाधिकरण्यस्यान्यलभ्यत्वाभावात्, व्याख्यातस्यार्थस्यान्यलभ्यत्वे एवाऽपदार्थत्वदोषापत्तिस्वीकारादित्यर्थः ।
८८
“
C
" Aho Shrutgyanam"