________________
विनापदार्थविवेचनम् ] व्युत्पत्तिवादः।
(३७१) न च विनापदोत्तरलुप्तसप्तम्यर्थ एव 'अभाववति' इति सप्तम्या विवृत इति वाच्यम्, निपातोत्तरविभक्तनिरर्थकत्वात् । अत एव सर्वत्र निपातोत्तरं साधुत्वार्थ प्रथमैवेतिशाब्दिकाः ।
"पृथिव्यामेव गन्धः" इत्यादावेवकारप्रकृतिकसप्तम्या यदाऽऽधेयत्वबोधकस्वमङ्गीकृतं दीधितिकृद्भिस्तत्रापि तेषां न निर्भरः । अस्तु वा तत्र प्रतियोगितया पृथिव्यन्यवृत्तित्वभानानुरोधेनैवकारस्यान्यवृत्तित्वार्थकत्वं गौरवादुपेक्ष्य तत्राधेयत्ववाचकत्वेन क्लप्तायाः सप्तम्याः कल्पनम् । प्रकृते चाधेयत्वस्य संसर्गतयैवोपपत्तो विनापदसाकाङ्क्षाधेयत्वार्थकसप्तमीकल्पनं दुष्कल्पनमेव ।
गले पतितमेवेति मतुपाप्यऽपदार्थस्यैव विवरणं कृतमिति स्वीकार्य तथा च विनापदार्थोऽभाव एव न त्वभाववानिति सिद्धम् । किं वा ननु “साध्यं विना साध्याभाववति" इत्यत्र दीधितिकृताऽभाववानेव विनापदार्थ उक्त इति कथं त्वयाऽभावमात्रस्य विनापदार्थत्वमुच्यते इत्याशङ्कया. ह-दीधितिकृतेति । 'अविनाभावः' इत्यत्राऽविनापदेन भावपदसमासः ।
ननु "साध्याभाववति" इत्यत्र मतुपा विनापदोत्तरलुप्तसप्तम्यर्थस्यैव विवरणं कृतं नाऽपदार्थस्येत्याशङ्क्याह-न चति । उत्तरमाह-निपातेति । अत एव-निपातोत्तरविभक्तनिरर्थकत्वादेव प्रथमातिरिक्तविभक्तिप्राप्तिर्व्यथैवेति साधुत्वार्थ प्रथमैव सापि लोपं प्राप्नोतीति न मतुपा उक्तसप्तम्यर्थविवरणं संभवतीत्यर्थः ।
ननु दीधितिकृतैव "पृथिव्यामेव गन्धः" इत्यत्र निपातभूतवकारपदोत्तरसप्तम्या आधेयत्वबोधकत्वं स्वीकृतमिति कथं निपातोत्तरविभक्तनिरर्थकत्वं स्यात् तथा च विनापदोत्तरविभतेरपि सार्थकत्वात्तदर्थस्यैव "साध्याभाववति' इत्यत्र मतुपा विवरणं कृतमित्याशङ्क्याहपृथिव्यामिति। उत्तरमाह-तत्रापीति । तत्र-एवपदोत्तरलुप्तसप्तम्या आधेयत्वबोधकत्वे । एवकारोत्तरसप्तम्या आधेयत्वबोधकत्वमभ्युपगम्याह-अस्तु वेति । तत्र='पृथिव्यामेव गन्धः' इत्यत्र, एवकारस्याऽन्ययोगव्यवच्छेदोर्थस्तत्रान्ययोगोऽन्यवृत्तित्वमेव व्यवच्छेदश्चाभाव एवेत्यऽन्यवृत्तित्वप्रतियोगिकामाचे प्रतियोगित्वरूपेण पृथिव्यन्यवृत्तित्वस्य भानं भवति, एवकारस्यान्यवृत्तित्वे च शक्तिस्वीकारे गौरवं स्यादिति वृत्तित्वार्थभागं परित्यज्यान्यपदार्थेऽभावे चैवकारस्य खण्डशः शक्तिः, एक्कारोत्तरप्राप्ताधेयत्वार्थकसप्तम्या वृत्तित्वमेवार्थस्तस्य च सप्तम्यर्थवृत्तित्वस्यान्यपदार्थेनान्वय इतिसप्तम्यन्तैवकारेणान्यवृत्तित्वाभावोर्थों लब्ध इति एवकारस्थलेऽन्यवृत्तित्वार्थकत्वस्वीकारे गौरवमयात् सप्तमीकल्पनं युज्यते । प्रकृतेः=" साध्यं विना " इत्यत्राधेयत्वस्य संसर्गत. यापि भानं संभवतीति विनापदोत्तरं सप्तमीकल्पनं न युक्तमेव तथा च "साध्याभाववति" इतिमतुपाऽपदार्थविवरणमेव कृतमित्याह-प्रकृते चेति ।
नन्वेवमेषकारस्थलेप्याथेयत्वस्य संसर्गत्वमेवास्तु तथा चाभावे आधेयतासंबन्धेनान्यपदार्थ
"Aho Shrutgyanam"